१९

01 ब्रह्मने प्रजापतये बृहस्पतयेग्नये ...{Loading}...

ब्रह्मने प्रजापतये बृहस्पतयेग्नये वायवे सूर्याय चन्द्र मसे नक्षत्रेभ्य इन्द्रा य राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रे भ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योथर्वभ्योङ्गिरोभ्य इति देवगणानाम् १

02 विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः ...{Loading}...

विश्वामित्रो जमदग्निर्भरद्वाजोथ गौतमः । अत्रिर्वसिष्ठः कश्यपः । इत्येते सप्तर्षयः २

03 निवीतिन उत्तरत उदीचीनप्रवण ...{Loading}...

निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्राग्-अपवर्गाण्य् आसनानि कल्पयन्ति विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय कश्यपाय ३

04 वसिष्ठकश्यपयोरन्तरालेरुन्धत्यै कल्पयन्ति ...{Loading}...

वसिष्ठ-कश्यपयोर् अन्तराले ऽरुन्धत्यै कल्पयन्ति ४

05 दक्षिणतः प्राचीनप्रवणेगस्त्याय ...{Loading}...

दक्षिणतः प्राचीन-प्रवणे ऽगस्त्याय ५

06 तत एकवेद्यान्तेभ्यः कृष्णद्वैपायनाय ...{Loading}...

तत एकवेद्यान्तेभ्यः

  • कृष्ण-द्वैपायनाय जीतू-कर्ण्याय तरुक्षाय तृणी-बिन्दवे
  • वर्मिणे वरूथिने वाजिने
  • वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रवसे
  • सोमशुष्मायणाय सत्ववते
  • बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय गौतमाय ऋणञ्जयाय ऋतञ्जयाय कृतञ्जयाय धनञ्जयाय
  • बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिन्ताय पराशराय
  • विष्णवे रुद्राय स्कन्दाय काशीश्वराय श्वराय
  • धर्मायार्थाय कामाय क्रोधाय
  • वसिष्ठायेन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे
  • सवित्रे सावित्र्यै
  • वेदेभ्यश्च पृथक्
  • पृथग् ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहासपुराणायेति ६

07 दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे ...{Loading}...

दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यग्-अपवर्गाण्य् आसनानि कल्पयन्ति ७


  1. 19, 1. According to Mātṛdatta, they prepare a seat for Brahman with the words, ‘For Brahman I prepare (a seat),’ and so on. Comp. chap. 20, 3. ↩︎

  2. This is a frequently quoted versus memorialis. ↩︎