१८

01 अथात उपाकरणोत्सर्जने व्याख्यास्यामः ...{Loading}...

अथात उपाकरणोत्सर्जने व्याख्यास्यामः १

02 श्रवणापक्ष ओषधीषु जातासु ...{Loading}...

श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाध्यायोपाकर्म २

03 अग्निमुपसमाधाय व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा काण्डर्षीञ्जुहोति । प्रजापतये काण्डर्षये स्वाहा । सोमाय काण्डर्षये स्वाहा । अग्नये काण्डर्षये स्वाहा । विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा । स्वयम्भुवे काण्डर्षये स्वाहा । इति काण्डर्षयः काण्डनामानि वा सावि-त्रीमृग्वेदं यजुर्वेदं सामवेदमथर्ववेदं सदसस्पतिमिति ३

04 हुत्वा त्रीनादितोनुवाकानधीयते ...{Loading}...

हुत्वा त्रीना-दितोनुवाकानधीयते ४

05 काण्डादीन्वा सर्वान् ...{Loading}...

काण्डादीन्वा सर्वान् ५

06 जयादि प्रतिपद्यते ...{Loading}...

जयादि प्रतिपद्यते ६

07 स्विष्टकृदन्तङ् कृत्वा त्र्यहमेकाहं ...{Loading}...

स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति ७

08 तैषीपक्षस्य रोहिण्याम् पौर्णमास्यां ...{Loading}...

तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ८

09 सगणः प्राचीमुदीचीं वा ...{Loading}...

सगणः प्राचीमुदीचीं वा दिश-मुपनिष्क्रम्य यत्रापः सुखाः सुखावगाहास्तदवगाह्याघमर्षणेन त्रीन्प्राणायामा-न्कृत्वा सपवित्रैः पाणिभिः । आपो हि ष्ठा मयोभुवः । इति तिसृभिः । हिरण्यवर्णाः शुचयः पावकाः । इति चतसृभिः । पवमानः सुवर्जनः । इति चैतेनानुवाकेन स्नात्वा दर्भानन्योन्यस्मै सम्प्रयच्छन्तो दित्सन्त इवान्योन्यम् ९

10 ततः शुचौ देशे ...{Loading}...

ततः शुचौ देशे प्राचीनप्रवणे प्रागग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति १०


  1. 18, 2. Śravaṇāpakṣa means, according to Mātṛdatta, śrāvaṇapūrvapakṣa, p. 242 and indeed the moon stands in conjunction with the Nakṣatra Hasta only on one day of the first, not of the second, fortnight of the month Śrāvaṇa (comp. the note on Āśvalāyana-Gṛhya III, 5, 2. 3). Comp. taiṣīpakṣasya rohiṇyām, below, § 8. ↩︎

  2. As to taiṣīpakṣa, comp. the note on Sūtra 2. ↩︎

  3. On the last words of this Sūtra, Mātṛdatta says, ditsanta iveti dātum icchanta ivānyonyaṃ prati. athavā āditsanta iveti pāṭhaḥ. āditsanto muṣṇanta ivānyonyaṃ. - Professor Kielhorn’s text MS. has, ātsaṃta ivānyonyaṃ; Professor Bühler’s text MS., ditsaṃta ivānyonyaṃ. ↩︎