१७

01 आग्रहायणीं व्याख्यास्यामः ...{Loading}...

आग्रहायणीं व्याख्यास्यामः १

02 मार्गशीर्ष्याम् पौर्णमास्यामग्निमुपसमाधाय सम्परिस्तीर्य ...{Loading}...

मार्गशीर्ष्यां पौर्णमास्यामग्निमुपसमाधाय सम्परिस्तीर्य पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्य व्याहृतिपर्यन्तं कृत्वा जुहोति । इडायै सृप्तं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानामिह रन्तिरस्तु पुष्टिः । स्वाहा । यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवायतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली । स्वाहा । पौर्णमासी पूरयन्त्यायान्त्यपरापरान् । मासार्धमासान्विभजति सा नः पूर्णाभिरक्षतु । स्वाहा । इति २

03 अथ सौविष्टकृतीञ् जुहोति ...{Loading}...

अथ सौविष्टकृतीं जुहोति । स्विष्टमग्ने अभि तत्पृणाहि विश्वा देव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुः । इति ३

04 ततः पाणी प्रक्षाल्य ...{Loading}...

ततः पाणी प्रक्षाल्य भूमिमालभते । प्रति क्षत्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन्प्रति प्राणेषु प्रतितिष्ठामि पुष्टे । प्रति द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे । त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः । बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मा । इति ४

05 तेषान् दक्षिणा गृहपतिरुपविशति ...{Loading}...

तेषां दक्षिणा गृहपतिरुपविशति ५

06 उत्तरा उत्तरे ...{Loading}...

उत्तरा उत्तरे ६

07 प्रजोत्पत्त्यानुपूर्व्येण ...{Loading}...

प्रजोत्पत्त्यानुपूर्व्येण ७

08 तेषाम् मन्त्रविदस्ते मन्त्राञ्जपन्ति ...{Loading}...

तेषां मन्त्रविदस्ते मन्त्राञ्जपन्ति ८

09 स्योना पृथिवि भवानृक्षरा ...{Loading}...

स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । बडित्था पर्वतानाम् । इति द्वाभ्यां दक्षिणैः पार्श्वैः संविशन्ति ९

10 उदायुषा इत्युत्तिष्ठन्ति ...{Loading}...

उदायुषा । इत्युत्तिष्ठन्ति १०

11 उदस्थामामृता अभूम इत्युत्थाय ...{Loading}...

उदस्थामामृता अभूम । इत्युत्थाय जपन्ति ११

12 एवं रात्रेस्त्रिः सञ्जिहते ...{Loading}...

एवं रात्रेस्त्रिः सञ्जिहते १२

13 ब्राह्मणानन्नेन परिविष्य पुण्याहं ...{Loading}...

ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाथैतां रात्रिं वसन्ति १३


  1. 17, 1. Comp. on the Āgrahāyaṇī ceremony Śāṅkhāyana IV, 17; Pāraskara III, 2, &c. Winternitz, Sarpabali, 32 seq. ↩︎

  2. The first Mantra is very corrupt; comp. Atharva-veda III, 10, 6. Regarding the legend of Iḍā, who was procreated out of Manu’s Pala-sacrifice, and ‘came forth as if dripping, and clarified butter gathered on her step,’ comp. Śatapatha Brāhmaṇa I, 8, 1, 7 (M.M., India, what can it teach us? p. 136). ↩︎

  3. Comp. Taitt. Br. II, 4, I, 4; Pāraskara III, 1, 3. ↩︎

  4. Here end the Gṛhya ceremonies,’ says Mātṛdatta. Dr. Kirste (Preface, p. viii), accordingly, believes that the three last chapters may be later additions. It may be observed in connection with this, that in the Āpastambīya-Gṛhya, which throughout is so closely related to our text, the ceremonies of the Upākaraṇa and Utsarjana, of which these three chapters treat, are not described. ↩︎