१६

01 अथातः श्रवणाकर्म ...{Loading}...

अथातः श्रवणाकर्म १

02 तद्या पौर्णमासी श्रवणेन ...{Loading}...

तद्या पौर्णमासी श्रवणेन युञ्ज्यात्तस्यामुपरिष्टात्सा-यमग्निहोत्रस्य दक्षिणाग्निमुपसमादधात्यौपासनमनाहिताग्निः २

03 अथोपकल्पयतेक्षतधाना अक्षतलाजान्सक्तून्किंशुकान्याञ्जनाभ्यञ्जने आज्यमिति ...{Loading}...

अथोपक-ल्पयतेक्षतधाना अक्षतलाजान्सक्तून्किंशुकान्याञ्जनाभ्यञ्जने आज्यमिति ३

04 दर्व्यामुपस्तीर्यैतेषामेवान्नानां समवदाय सर्पिर्मिश्रस्य ...{Loading}...

दर्व्यामुपस्तीर्यैतेषामेवान्नानां समवदाय सर्पिर्मिश्रस्य जुहोति । नमोग्नये पा-र्थिवाय पार्थिवानामधिपतये स्वाहा । नमो वायवे विभुमत आन्तरिक्षा-णामधिपतये स्वाहा । नमः सूर्याय रोहिताय दिव्यानामधिपतये स्वाहा । नमो विष्णवे गौराय दिश्यानामधिपतये स्वाहा । इति ४

05 किंशुकान्याज्येन संयुज्य जुहोति ...{Loading}...

किंशुकान्याज्येन संयुज्य जुहोति । जग्धो मशको जग्धा विचष्टिर्जग्धो व्यध्वरः । जग्धो व्यध्वरो जग्धा विचष्टिर्जग्धो मशकः । जग्धा विचष्टिर्जग्धो मशको जग्धो व्यध्वरः । इति ५

06 उदकुम्भन् दर्भमुष्टिञ् चादाय ...{Loading}...

उदकुम्भं दर्भमुष्टिं चादाय प्राङ्मुखो निष्क्रम्य प्राचो दर्भा-न्संस्तीर्य तेषु चतुरो बलीन्हरति । ये पार्थिवाः सर्पास्तेभ्य इमं बलिं हरामि । य आन्तरिक्षाः । ये दिव्यः । ये दिश्याः । इति ६

07 अत्राञ्जनाभ्यञ्जने दत्त्वोपतिष्ठते नमो ...{Loading}...

अत्राञ्जनाभ्यञ्जने दत्त्वोपतिष्ठते । नमो अस्तु सर्पेभ्यः । इत्येतैर्मन्त्रैः ७

08 उदकुम्भमादाय त्रिः प्रदक्षिणमावसथम् ...{Loading}...

उदकुम्भमादाय त्रिः प्रदक्षिणमावसथं परिषिञ्चन्परिक्रामेद्यावता कामयेतैतावता मे सर्पा नावक्रामेयुरिति । अप श्वेत पदा जहि पूर्वेण चापरेण च सप्त च मानु-षीरिमास्तिस्रश्च राजबन्धवैः न वै श्वेतस्याभ्याचरेणाहिर्जघान कं चन श्वेताय वैदर्वाय नमो नमः श्वेताय वैदर्वाय । इति ८

09 अथोपतिष्ठते समीची नामासि ...{Loading}...

अथोपतिष्ठते । समीची नामासि प्राची दिक् । इत्येतैर्मन्त्रैः प्रतिदिशम् ९

10 नित्यमत ऊर्ध्वम् बलिं ...{Loading}...

नित्यमत ऊर्ध्वं बलिं हरत्या मार्गशीर्ष्याः १०

11 नात्र किंशुकहोमः ...{Loading}...

नात्र किंशुकहोमः ११

12 न परिषेचनं विद्यते ...{Loading}...

न परिषेचनं विद्यते १२

13 निरवदास्यन्निरवदास्यन् इत्यन्ततो बलीन्हरति ...{Loading}...

निरवदास्यन्निरवदास्यन् । इत्यन्ततो बलीन्हरति १३


  1. I am not sure about the translation of vicaṣṭi. Perhaps it is only a blunder for vitṛṣṭi, which is the reading of the Āpastambīya Mantrapāṭha. Comp. Winternitz, Der Sarpabali, ein altindischer Schlangencult (Wien, 1888), p. 28. ↩︎

  2. Comp. Pāraskara II, 14, 19.- In the first Mantra I read rājabāndhavīḥ; comp. the note on Par. II, 14, 4. ↩︎

  3. Some authorities understand, as Mātṛdatta states, that he should offer the Bali only with the words as they stand in the Sūtra, others prescribe the formula (comp. § 6): ‘To the terrestrial (aerial, &c.) Serpents I offer this Bali going to acquit myself, going to acquit myself.’ ↩︎