१५

01 श्वोभूते पितृभ्यो गामालभते ...{Loading}...

श्वोभूते पितृभ्यो गामालभते १

02 अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य ...{Loading}...

अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य । इमां पितृभ्यो गामुपाकरोमि तां मे समेताः पितरो जुषन्ताम् । मेदस्वतीं घृतवतीं स्वधावतीं सा मे पितॄन्साम्पराये धिनोतु । स्वधा नमः । इत्युपाकरणीयां हुत्वैकेन बर्हिषैकशूलया च वपाश्रपण्यौदुम्बर्योपाकरोति । पितृभ्यस्त्वा जुष्टामुपाकरोमि । इति २

03 अथैनाम् प्रोक्षति पितृभ्यस्त्वा ...{Loading}...

अथैनां प्रोक्षति । पितृभ्यस्त्वा जुष्टां प्रोक्षामि । इति ३

04 ताम् प्रोक्षिताम् पर्यग्नि ...{Loading}...

तां प्रोक्षितां पर्यग्नि कृत्वा तामपरेणाग्निं प्रत्यक्शिरसं दक्षिणापदीं सञ्ज्ञपयन्ति ४

05 सज्ञप्तायै तूष्णीमद्भिः प्राणानाप्याय्य ...{Loading}...

सज्ञप्तायै तूष्णीमद्भिः प्राणानाप्याय्य तूष्णीं वपां हृदयं मतस्ने उद्धरति ५

06 औदुम्बर्या वपाश्रपण्या वपां ...{Loading}...

औदुम्बर्या वपाश्रपण्या वपां श्रपयत्यौदुम्बरेषु शूलेषु पृथगितराणि ६

07 श्रपयित्वाभिघार्योद्वास्य प्रसव्यम् परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या ...{Loading}...

श्रपयित्वाभिघार्योद्वास्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्या-धायौदुम्बर्या दर्व्योपस्तीर्णाभिघारितां वपां जुहोति । वह वपां जातवेदः पि-तृभ्यो यत्रैतान्वेत्थ निहितान्पराके । मेदसः कूल्या उप तान्क्षरन्तु सत्या ए-षामाशिषः सन्तु कामैः । स्वधा नमः । इति ७

08 सर्वहुतां वपाञ् जुहोति ...{Loading}...

सर्वहुतां वपां जुहोति शेषमुत्कृष्य ब्राह्मणान्भोजयेत् ८

09 उपस्थितेन्न ओदनस्य मांसानामिति ...{Loading}...

उपस्थितेन्न ओदनस्य मांसानामिति समवदाय सर्पिर्मिश्रस्य जुहोति । एकाष्टकां पश्यत दोहमानामन्नं मांसवद्घृतवत्स्वधावत् तद्ब्राह्मणैरतिपूतमन्नन्तमक्षितं तन्मे अस्तु स्वधा नमः एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तं दोहमुपजीवाथ पितरः संविदानाः स्विष्टोयं सुहुतो ममास्तु । स्वधा नमः । संवत्सरस्य प्रतिमाम् । इति ९

10 हुत्वान्नस्य मांसानामिति समवदाय ...{Loading}...

हुत्वान्नस्य मांसानामिति समवदाय सर्पिर्मि-श्रस्य जुहोति । अग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः । इति १०

11 प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके ...{Loading}...

प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके ११

12 अन्नधनदाने त्वत्रानियते ...{Loading}...

अन्नधनदाने त्वत्रानियते १२

13 श्वोभूते मांसशेषेण पितृभ्योन्नं ...{Loading}...

श्वोभूते मांसशेषेण पितृभ्योन्नं संस्कृत्य । त्वमग्ने अयासि । प्रजापते । इति जुहोति १३

14 प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके ...{Loading}...

प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके १४


  1. 15, 2. On the Vapāśrapaṇī, comp. Kātyāyana VI, 5, 7; Āśval.-Gṛhya I, II, 8. Comp. besides, Taitt. Saṃh. VI, 3, 6; Āpastamba-Śrauta-sūtra VII, 8, 3; 12, 5 seq. ↩︎

  2. The Udīcyas read, as Mātṛdatta states, ’to the south of the fire.’ ↩︎

  3. On the ‘strengthening’ of the sense-organs of an immolated victim, comp. Āpastamba-Śrauta-sūtra VII, 18, 6 seq. Schwab, Thieropfer, 110. - On matasne, see Indische Studien, IX, 248; Schwab 127. ↩︎

  4. Possibly the reading of the Udīcyas indicated by Mātṛdatta, vyākṛtya instead of upākṛtya, is correct. The translation would be, ‘With the rest, distributing it, &c.’ ↩︎

  5. See above, chap. 14, 10. ↩︎

  6. See chap. 14, 9. ↩︎

  7. This is the so-called Anvaṣṭakya ceremony. ↩︎