१२

01 भुञ्जानान्समीक्षते ब्रह्मणि म ...{Loading}...

भुञ्जानान्समीक्षते । ब्रह्मणि म आत्मामृतत्वाय । इति १

02 भुक्तवतोनुप्रव्रज्य शेषमनुज्ञाप्योदकुम्भन् दर्भमुष्टिञ् ...{Loading}...

भुक्तवतोनुप्रव्रज्य शेषमनुज्ञाप्योदकुम्भं दर्भमुष्टिं चादाय दक्षिणपूर्वमवान्तरदेशं गत्वा दक्षि-णाग्रान्दर्भान्संस्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीन्निनयति । मार्जयन्तां पितरः सोम्यासः । मार्जयन्तां पितामहाः सोम्यासः । मार्जयन्तां प्रपितामहाः सोम्यासः । इति । असाववनेनिङ्क्ष्वासाववनेनिङ्क्ष्व । इति वा २

03 तेष्ववाचीनपाणिर्दक्षिणापवर्गान्पिण्डान्ददाति एतत्ते ततासौ ...{Loading}...

तेष्ववाचीनपाणिर्दक्षिणापवर्गान्पिण्डान्ददाति । एतत्ते ततासौ । इति पित्रे पिण्डं ददाति । एतत्ते पितामहासौ । इति पितामहाय । एतत्ते प्रपितामहासौ । इति प्रपितामहाय तूष्णीं चतुर्थम् । स कृताकृतः ३

04 अथ यदि नामधेयानि ...{Loading}...

अथ यदि नामधेयानि न विन्द्यात् । स्वधा पितृभ्यः पृथिविषद्भ्यः । इति पित्रे पिण्डं दद्यात् । स्वधा पितृभ्योन्तरिक्षसद्भ्यः । इति पितामहाय । स्वधा पितृभ्यो दिविषद्भ्यः । इति प्रपितामहाय ४

05 अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डन् ददाति ...{Loading}...

अत्राञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति ५

06 आङ्क्ष्वासावाङ्क्ष्वासौ इति त्रिराञ्जनम् ...{Loading}...

आङ्क्ष्वासावाङ्क्ष्वासौ । इति त्रिराञ्जनम् ६

07 अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासौ इति त्रिरभ्यञ्जनम् ...{Loading}...

अभ्यङ्क्ष्वा-सावभ्यङ्क्ष्वासौ । इति त्रिरभ्यञ्जनम् ७

08 एतानि वः पितरो ...{Loading}...

एतानि वः पितरो वासांस्यतो नोन्यत्पितरो मा यूढ्वम् । इति दशामूर्णास्तुकान्वा छित्त्वा न्यस्यति पूर्वे वयसि ८

09 स्वं लोभे च्छित्त्वोत्तरे ...{Loading}...

स्वं लोभे च्छित्त्वोत्तरे ९

10 अथ पात्रं सङ्क्षाल्य ...{Loading}...

अथ पात्रं सङ्क्षाल्य । पुत्रान्पौत्रान-भितर्पयन्तीरापो मधुमतीरिमाः स्वधां पितृभ्यो अमृतं दुहानाः । आपो देवीरु-भयांस्तर्पयन्तु नदीरिमा उदन्वतीर्वेतस्विनीः सुतीर्थ्याः । अमुष्मिँ ल्लोक उप वः क्ष्ररन्तु । इति प्रथव्यं परिषिच्य न्युब्जपात्रं पाणी व्यत्यस्य दक्षिणमुत्तरमुत्तरं च दक्षिणम् । नमो वः पितरो रसाय । इति नमस्कारैरुपतिष्ठते १०

11 तत उदकान्तङ् गत्वा ...{Loading}...

तत उदकान्तं गत्वा त्रीनुदकाञ्जलीन्निनयति ११


  1. According to the commentary after each formula the words are added, ‘and to those who follow thee;’ comp. Taitt. Saṃh. I, 8, 5, 1; III, 2, 5, 5; Kāty.-Śraut. IV, 1, 12. ↩︎

  2. 6 seq. A fourth time he gives the same thing silently; comp. Sūtra 3. ↩︎

  3. 8, 9. If his age is under fifty years or over fifty years (Mātṛdatta; comp. the commentary on Kātyāyana-Śraut. IV, 1, 17.18). ↩︎