१०

01 अमावास्यायामपराह्णे मासिकमपरपक्षस्य वायुक्ष्वहःसु ...{Loading}...

अमावास्यायामपराह्णे मासिकमपरपक्षस्य वायुक्ष्वहःसु १

02 पितृभ्योन्नं संस्कृत्य दक्षिणाग्रान्दर्भानासनानि ...{Loading}...

पितृभ्योन्नं संस्कृत्य दक्षिणाग्रान्दर्भानासनानि कल्पयित्वा ब्राह्मणाञ्छुचीन्मन्त्रवतः समङ्गानयुज आमन्त्रयते योनिगोत्रमन्त्रासम्बन्धान् २

03 नार्थापेक्षो भोजयेत् ...{Loading}...

नार्थापेक्षो भोजयेत् ३

04 अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्यैकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं ...{Loading}...

अग्निमुप-समाधाय दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्यैकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं संस्कृत्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्या जुहोति ४

05 आज्यभागान्तङ् कृत्वा प्राचीनावीती ...{Loading}...

आज्यभागान्तं कृत्वा प्राचीनावीती पितॄनावाहयति । आयात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च । इति ५

06 एतामेव दिशमभ्यपः प्रसिञ्चति ...{Loading}...

एतामेव दिशमभ्यपः प्रसिञ्चति । आपो देवीः प्रहिणुताग्निमेतं यज्ञं पितरो नो जुषन्ताम् । मासीमामूर्जमुत ये भजन्ते ते नो रयिं सर्ववीरं नियच्छन्तु । इति ६

07 यज्ञोपवीती व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

यज्ञोपवीती व्याहृतिपर्यन्तं कृत्वा प्राचीनावीती जुहोति । सोमाय पितृमते स्वधा नमः । यमायाङ्गिरस्वते पितृमते स्वधा नमः । याः प्राचीः सम्भवन्त्याप उत्तरतश्च या अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधा नमः । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या दिवा दिग्भिरन-न्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधा नमः । अन्तर्दध ऋतुभिरहोरात्रैः सुसन्धिभिरर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधा नमः । इति । अथ नामधेयैर्जुहोति । अमुष्मै स्वधा नमः । अमुष्मै स्वधा नमः । इति । यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तामाभुरन्योपपद्यताम् । स्वधा नमः । इति । एवं द्वितीयां तथा तृतीयाम् । यन्मे पितामही । यन्मे प्रपितामही । इति मन्त्रं सन्नमति ७


  1. 10, 1. Comp. Śāṅkhāyana IV, 1; Āśvalāyana II, 5, 10 seq.; IV, 7; Pāraskara III, 10; Gobhila IV, 3. ↩︎

  2. Comp. above, I, 1, 1, 11 seq. 27; 2, 7 seq. ↩︎

  3. Comp. Atharva-veda XVIII, 4, 40. ↩︎

  4. Comp. Śāṅkhāyana III, 13, 5. The translation there given of the words anyam antaḥ pitur dadhe ought to be changed accordingly. - For ābhur anyopapadyatām read mātur anyo ऽvapadyatām as Śāṅkhāyana has. ↩︎