०८

01 अथातः शूलगवम् ...{Loading}...

अथातः शूलगवम् १

02 आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय ...{Loading}...

आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय सम्परिस्तीर्य पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्यापरेणाग्निं द्वे कुटी कृत्वा दक्षिणस्यां शूलगवमावाहयति । आ त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजिरैर्बलवद्भिर्मनोजवैरायाहि शीध्रं मम हव्याय शर्वोम् । इति २

03 उत्तरस्याम् मीढुषीम् ...{Loading}...

उत्तरस्यां मीढुषीम् ३

04 मध्ये जयन्तम् ...{Loading}...

मध्ये जयन्तम् ४

05 यथोढुमुदकानि प्रदायोपस्तीर्णाभिघारितांस्त्रीनोदनान्कल्पयित्वा यथोढमेवोपस्पर्शयति ...{Loading}...

यथोढुमुदकानि प्रदायोपस्तीर्णाभिघारितांस्त्रीनोदनान्कल्पयित्वा यथोढमेवोपस्पर्शयति । उपस्पृशतु मीढ्वान्मीढुषे स्वाहा । उपस्पृशतु मीढुषी मीढुष्यै स्वाहा । जयन्त उपस्पृशतु जयन्ताय स्वाहा । इति ५

06 व्याहृतिपर्यन्तङ् कृत्वौदनानभ्याहृत्य जुहोति ...{Loading}...

व्याहृतिपर्यन्तं कृत्वौद-नानभ्याहृत्य जुहोति । भवाय देवाय स्वाहा । रुद्रा य देवाय स्वाहा । शर्वाय देवाय स्वाहा । ईशानाय देवाय स्वाहा । पशुपतये देवाय स्वाहा । उग्राय देवाय स्वाहा । भीमाय देवाय स्वाहा । महते देवाय स्वाहा । इति ६

07 अथ पत्न्योदनस्य पत्न्यै ...{Loading}...

अथ पत्न्योदनस्य पत्न्यै जुहोति । भवस्य देवस्य पत्न्यै स्वाहा । रुद्र स्य देवस्य पत्न्यै स्वाहा । शर्वस्य देवस्य पत्न्यै स्वाहा । ईशानस्य देवस्य पत्न्यै स्वाहा । पशुपतेर्देवस्य पत्न्यै स्वाहा । उग्रस्य देवस्य पत्न्यै स्वाहा । भीमस्य देवस्य पत्न्यै स्वाहा । महतो देवस्य पत्न्यै स्वाहा । इति ७

08 अथ मध्यमौदनस्य जुहोति ...{Loading}...

अथ मध्यमौदनस्य जुहोति । जयन्ताय स्वाहा । जयन्ताय स्वाहा । इति ८

09 अथ सर्वेभ्य ओदनेभ्यः ...{Loading}...

अथ सर्वेभ्य ओदनेभ्यः समवदाय सौविष्टकृतीं जुहोति । अग्नये स्विष्टकृते स्वाहा । इति ९

10 अभित एतमग्निङ् गा ...{Loading}...

अभित एतमग्निं गा स्थापयन्ति यथा हूयमानस्य गन्धमाजिघ्रेयुः १०

11 स्वस्ति नः पूर्णमुखम् ...{Loading}...

स्वस्ति नः पूर्णमुखं परिक्रामन्तु । इति सर्वतः प्रदक्षिणं परिक्रम्य । नमस्ते रुद्र मन्यवे । इत्येतैरनुवाकैरुपतिष्ठते प्रथमोत्तमाभ्यां वा ११


  1. 8, 1. Comp. Āśvalāyana IV, 8; Pāraskara III, 8; Āpastamba VII, 20. ↩︎

  2. 3, 4. The text has mīḍhiuṣīm, jayantam. ↩︎