०७

01 अथातः श्वग्रहप्रायश्चित्तम् ...{Loading}...

अथातः श्वग्रहप्रायश्चित्तम् १

02 समुपसृते यज्ञोपवीत्याचान्तोनाप्रीतेन शरावेणोदकमाहृत्य ...{Loading}...

समुपसृते यज्ञोपवीत्याचान्तोनाप्रीतेन शरावेणोदकमाहृत्य सभायां मध्येधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्य व्यूह्य समूह्य प्रथयित्वोपरिष्टात्सभायां व्यूह्य तृणानि तेन कुमारमभ्याहृत्याक्षेषूत्तानं निपात्य दध्ना लवणोदकमिश्रेणाभ्युक्षति । आघ्नन्ति कंसं दक्षिणतः कुर्कुरः सुकुर्कुरः कुर्कुरो नीलबन्धनः औलव इत्तमुपाह्वयतार्जिम छम्बलः अथोराम उलुम्बरः सारमेयो ह धावति समुद्र मिव चाकशद्बिभ्रन्निष्कं च रुक्मं च शुनामग्रं सुवीरिणः सुवीरिणः सृज सृज एकव्रात्य सृज शुनक सृज छत् टेकश्च ससरमटङ्कश्च तूलश्च वितूलश्चार्जुनश्च लोहितश्च उत्सृज त्वं शितिम्र त्वं पिशङ्क रोहितः अमी ये के सरस्यका अवधावति तृतीयस्यामितो दिवि छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर दूत्या ह नाम वो माता मण्डाकको ह वः पिता छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर दुला ह नाम वो माता मण्डाकको ह वः पिता छदपेहि सिसरम सारमेय नमस्ते अस्तु सीसर समश्वा वृषणः पदो न सीसरिदतः छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर सन्तक्षा हन्ति चक्रिणो न सीसरिदतः । छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर । इति २

03 अथाह वरं वृणीष्व ...{Loading}...

अथाह । वरं वृणीष्व । इति ३

04 कुमारमेवाहं वरं वृणे ...{Loading}...

कुमारमेवाहं वरं वृणे । इति ४

05 एवं समुपसृते त्रिरन्हः ...{Loading}...

एवं समुपसृते त्रिरन्हः प्रातर्मध्यन्दिने सायं च कुर्याद्यदि चागतः स्यात् ५


  1. 7, 1. śvagrahoऽpasmāra unmattaḥ Sārameya ity eke. Mātṛdatta. - Comp. Pāraskara I, 16, 24; Āpastamba VII, 18, 1. ↩︎

  2. The Mantras are partly unintelligible. As to kurkura comp. the note on Pāraskara I, 16, 24. ↩︎

  3. There can be little doubt as to the correctness of the reading agadaḥ instead of āgataḥ. ↩︎