01 अथ षष्ठे मास्यन्नप्राशनम् ...{Loading}...
अथ षष्ठे मास्यन्नप्राशनम् १
ओल्देन्बेर्ग् ...{Loading}...
- Then (follows) in the sixth month the Annaprāśana (i.e. the first feeding with solid food).
मूलम् ...{Loading}...
अथ षष्ठे मास्यन्नप्राशनम् १
02 आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय ...{Loading}...
आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च अत्रैके यजाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयि-त्वाथैनं दधि मधु घृतमिति त्रिवृत्प्राशयति । भूस्त्वयि दधामि भुवस्त्वयि दधामि सुवस्त्वयि दधामि । इति २
ओल्देन्बेर्ग् ...{Loading}...
- In the fortnight of the increasing moon, under an auspicious constellation, he puts wood on the fire, performs the rites down to the Vyāhṛti oblations, and sacrifices (with the Mantras), ‘This, O Varuṇa’ (&c. see I, chap. 27, Sūtra 2, down to): ‘Hail! Good luck!’ Then he gives (to the child) threefold food to eat, curds, honey, and ghee, with (the formula), ‘Bhūḥ I lay into thee! Bhuvaḥ I lay into thee! Suvaḥ I lay into thee!’
मूलम् ...{Loading}...
आपूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च अत्रैके यजाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयि-त्वाथैनं दधि मधु घृतमिति त्रिवृत्प्राशयति । भूस्त्वयि दधामि भुवस्त्वयि दधामि सुवस्त्वयि दधामि । इति २
03 अथैनमन्नम् प्राशयति अपान् ...{Loading}...
अथैनमन्नं प्राशयति । अपां त्वौषधीनां रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनमीवास्त आप ओषधयो भवन्तु । इति ३
ओल्देन्बेर्ग् ...{Loading}...
- Then he gives him (other) food to eat with (the formula), ‘I give thee to eat the essence of water and of the plants. May water and plants be kind towards thee. May water and plants do no harm to thee.’
मूलम् ...{Loading}...
अथैनमन्नं प्राशयति । अपां त्वौषधीनां रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनमीवास्त आप ओषधयो भवन्तु । इति ३