०४

01 या दैवीश्चतस्रः प्रदिशो ...{Loading}...

या दैवीश्चतस्रः प्रदिशो वातपत्नीरभि सूर्यो विचष्टे तासां त्वा जरस आदधामि प्र यक्ष्म एतु निरृतिं पराचैः इति १

02 आधायाभिमन्त्रयते मा ते ...{Loading}...

आधायाभिमन्त्रयते । मा ते पुत्रं रक्षो हिंसीन्मा धेनुरतिसारिणी । प्रिया धनस्य भूया एधमाना स्वे वशे । इति २

03 प्रक्षाल्य दक्षिणं स्तनमाधापयति ...{Loading}...

प्रक्षाल्य दक्षिणं स्तनमाधापयति । अयं कुमारो जरां धयतु सर्वमायुरेतु । तस्मै स्तनं प्रप्यायस्वायुः कीर्तिर्वर्चो यशो बलम् । इति ३

04 एवमुत्तरम् ...{Loading}...

एवमुत्तरम् ४

05 नामयति न रुदति ...{Loading}...

नामयति न रुदति यत्र वयं वदामो यत्र वाभिमृशामसि । इत्युभावभिमृश्याथास्यै शिरस्त उदकुम्भमपिहितं निदधाति । आपो गृहेषु जाग्रत यथा देवेषु जाग्रथ । एवमस्यै सुपुत्रायै जाग्रत । इति ५

06 द्वादश्याम् मातापुत्रौ स्नातः ...{Loading}...

द्वादश्यां मातापुत्रौ स्नातः ६

07 शुच्यगारङ् कुर्वन्ति ...{Loading}...

शुच्यगारं कुर्वन्ति ७

08 उपनिर्हरन्ति सूतिकाग्निमतिहरन्त्यौपासनम् ...{Loading}...

उपनिर्हरन्ति सूतिकाग्निमतिहरन्त्यौपासनम् ८

09 तमग्निमुपसमाधाय व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

तमग्निमुपसमा-धाय व्याहृतिपर्यन्तं कृत्वा । धाता ददातु नो रयिम् । इति द्वादशाहुतीर्जुहोति । त्रयोदशेत्येकेषाम् ९

10 इमम् मे वरुण ...{Loading}...

इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा पुत्रस्य नाम दध्याद्द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं यत्र वा स्वित्युपसर्गः स्यात् । तद्धि प्रतिष्ठितमिति विज्ञायते १०

11 पिता मातेत्यग्रेभिव्याहरेयाताम् विज्ञायते ...{Loading}...

पिता माते-त्यग्रेभिव्याहरेयाताम् । विज्ञायते च मम नाम प्रथमं जातवेद इति ११

12 द्वे नामनी कुर्यात् ...{Loading}...

द्वे नामनी कुर्यात् । विज्ञायते च तस्माद्द्विनामा ब्राह्मणोर्धुक इति १२

13 नक्षत्रनाम द्वितीयं स्यादन्यतरद्गुह्यं ...{Loading}...

नक्षत्रनाम द्वितीयं स्यादन्यतरद्गुह्यं स्यात् १३

14 अन्यतरेणैनमामन्त्रयीरन् ...{Loading}...

अन्यतरेणैनमामन्त्रयीरन् १४

15 सोमयाजी तृतीयन् नाम ...{Loading}...

सोमयाजी तृतीयं नाम कुर्वीतेति विज्ञायते १५

16 प्रवासादेत्यागतं वा पुत्रमभिमृशति ...{Loading}...

प्रवासादेत्यागतं वा पुत्रमभिमृशति । सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसा । इति १६

17 पशूनान् त्वा हुङ्कारेणाभिजिघ्राम्यसावायुषे ...{Loading}...

पशूनां त्वा हुङ्कारेणाभिजिघ्राम्यसावायुषे वर्चसे हुम् । इति मूÞर्यभिजिघ्र्य १७

18 अथास्य दक्षिणेन हस्तेन ...{Loading}...

अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निरायुष्मान् । इति पञ्चभिः पर्यायैः १८

19 आयुष्टे विश्वतो दधत् ...{Loading}...

आयुष्टे विश्वतो दधत् । इति दक्षिणे कर्णे जपति यथा पुरस्तात् १९


  1. 4, 2. I am not certain about the translation of dhenur atisāriṇī. The Āpastambīya Mantrapāṭha has atyācāriṇī. Atisārin means, suffering from diarrhoea; perhaps we should read abhisāriṇī. ↩︎

  2. Comp. chap. 3, Sūtra 4. ↩︎

  3. The verse beginning with ‘My name,’ &c., contains the words, ‘which my father and my mother have given me in the beginning’ (pitā mātā ca dadhatur yad agre). ↩︎

  4. Comp. Professor Weber’s second article, ‘Die vedischen Nachrichten von den Naxatra’ (Abb. der Berliner Akademie), pp. 316 seq. ↩︎

  5. Comp. above, I, 2, 5, 14. ↩︎

    1. 1, 2, 5, 15; 2, 6, 1.
     ↩︎