०३

01 यथैव वायुः पवते ...{Loading}...

यथैव वायुः पवते यथा समुद्र एजति एवं ते गर्भ एजतु सह जरायुणावसर्पतु इत्यवाङवमार्ष्टि १

02 जातेश्मनि परशुन् निधायोपरिष्टाद्धिरण्यन् ...{Loading}...

जातेश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूत्तराधरेषूपरिष्टात्कुमारं धारयति अश्मा भव परशुर्भव हिरण्यमस्तृतं भव वेदो वै पुत्रनामासि जीव त्वं शरदः शतम् अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे आत्मा वै पुत्रनामासि स जीव शरदः शतमिति २

03 यद्यपरा न पतेदञ्जलिनोदकमादाय ...{Loading}...

यद्यपरा न पतेदञ्जलिनोदकमादाय मूर्धानमस्यावसिञ्चेत् । तिलदेव पद्यस्व न मांसमसि नो दलम् । अवपद्यस्व स्वपथात् । इति ३

04 उपनिर्हरन्त्यौपासनमतिहरन्ति सूतिकाग्निम् ...{Loading}...

उपनिर्हरन्त्यौपासनमतिहरन्ति सूतिकाग्निम् ४

05 स एष उत्तपनीय ...{Loading}...

स एष उत्तपनीय एव ५

06 नास्मिन्किञ्चन कर्म क्रियतेन्यत्रोद्धूपनात् ...{Loading}...

नास्मिन्किञ्चन कर्म क्रियतेन्यत्रोद्धूपनात् ६

07 अथैनङ् कणैः सर्षपमिश्रैरुद्धूपयति ...{Loading}...

अथैनं कणैः सर्षपमिश्रैरुद्धूपयति । शण्डो मर्क उपवीरः शाण्डीकेर उलूखलः । च्यवनो नश्यतादितः । स्वाहा । आलिखन्विलिखन्ननिमिषन्किंवदन्त उपश्रुतिः । स्वाहा । अर्यम्णः कुम्भी शत्रुः पात्रपाणिर्निपुणिः । स्वाहा । आन्त्रीमुखः सर्षपारुणो नश्यतादितः । स्वाहा । केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः । स्वाहा । कौबेरका विश्ववासो रक्षोराजेन प्रेषिताः । ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान् । स्वाहा । एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसरत् । तानिन्द्र स्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान्विकेशाल्लँ म्बस्तनान् । स्वाहा नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् । स्वाहा पूर्व एषाम् पितेत्युच्चैःश्राव्यकर्णकः माता जघन्या गछन्ति ग्रामे विखुरमिच्छन्ती । स्वाहा नक्तञ्चारिणी स्वसा सन्धिना प्रेक्षते कुलम् या स्वपत्सु जागर्ति यस्यै विजातायां मनः । स्वाहा तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्नेयक्षीणि निर्दह । स्वाहा । इति प्रतिमन्त्रमङ्गारेष्वावपति ७

08 ततः पाणी प्रक्षाल्य ...{Loading}...

ततः पाणी प्रक्षाल्य भूमिमालभते यत्ते सुसीमे हृदयं दिवि चन्द्र मसि श्रितम् तस्यामृतत्वस्य नो धेहि माहं पौत्रमघं रुदम् वेद ते भूमि हृदयं दिवि चन्द्र मसि श्रितम् तथामृतत्वस्येशानो माहं पौत्रमघं रुदमिति इति ८

09 अथातो मेधाजननम् दर्भेण ...{Loading}...

अथातो मेधाजननम् । दर्भेण हिरण्यं प्रबध्य तदन्तर्धायोपरिष्टात्प्राञ्चं कुमारं धार्यमाणं घृतं प्राशयति । भूरृचस्त्वयि जुहोमि स्वाहा । भुवो यजूंषि त्वयि जुहोमि स्वाहा ॥ सुवः सामानि त्वयि जुहोमि स्वाहा । भूर्भुवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहा । इति ९

10 अथैनमुष्णशीताभिरद्भिः स्नापयति क्षेत्रियै ...{Loading}...

अथैनमुष्ण-शीताभिरद्भिः स्नापयति । क्षेत्रियै त्वा निरृत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षं सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसो ग्राह्या यद्देवा अमुञ्चन्न-सृजन्व्येनसः । एवमहमिमं क्षेत्रियाज्जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात् । इति १०

11 अथैनम् मातुरुपस्थ आदधाति ...{Loading}...

अथैनं मातुरुपस्थ आदधाति ११


  1. 3, 7. According to Pāraskara (I, 16, 23) this is done daily in the morning and in the evening, until the mother gets up from childbed. - Comp. the names of the demons, Pāraskara I, 16, 23. - For vikhuram (Mantra i) the Āpastambīya Mantrapāṭha has vidhuram (‘distress’ or ‘a distressed one’). ↩︎

  2. Pāraskara I, 6, 17. ↩︎

  3. Comp. Atharva-veda II, 10; Taitt. Brāhm. II, 5, 6. ↩︎