०२

01 अथातः पुंसवनम् ...{Loading}...

अथातः पुंसवनम् १

02 तृतीये मास्यापूर्यमाणपक्षे पुण्ये ...{Loading}...

तृतीये मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा । धाता ददातु नो रयिम् । इति चतस्रो धात्रीर्जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्परीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषामपरेणाग्निं मण्डलागारे प्राचीमुपवेश्य । वृषासि । इति तस्या दक्षिणे पाणौ यवमादधाति २

03 आण्डौ स्थः इत्यभितो ...{Loading}...

आण्डौ स्थः । इत्यभितो यवं सर्षपौ धान्यमाषौ वा ३

04 श्वावृत्तत् इति दधिद्र ...{Loading}...

श्वावृत्तत् । इति दधिद्र प्सम् । तदेनां प्राशयति ४

05 आचान्ताया उदरमभिमृशति आभिष्ट्वाहन् ...{Loading}...

आचान्ताया उदरमभिमृशति । आभिष्ट्वाहं दशभिरभिमृशामि दशमास्याय सूतवै । इति ५

06 न्यग्रोधशृङ्गं वा घृतेन ...{Loading}...

न्यग्रोधशृङ्गं वा घृतेन कोशकारीं वा प्रैयङ्गवेण संयावेन यूपशकलं वोत्तरपूर्वस्याभिष्टेरग्निं वा निर्मन्थ्य मूरुमूलोपधानायै दक्षिणे नासिकाछिद्रे प्रणयेत् ६

07 यदि गर्भः स्रवेदाद्रे ...{Loading}...

यदि गर्भः स्रवेदाद्रे र्णा!स्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि । पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपवेश्य दश मासो अवीरहा । इति ७

08 विजननकाले क्षिप्रप्रसवनम् शिरस्त ...{Loading}...

विजननकाले क्षिप्रप्रसवनम् । शिरस्त उदकुम्भं निधाय पत्तस्तूर्यन्तीमथास्या उदरमभिमृशति ८


  1. 2, 2. Comp. the note on Āśvalāyana I, 13, 2. ↩︎

  2. The translation of this Sūtra should be considered merely as tentative. Some words of the text are uncertain, and the remarks of Mātṛdatta are very incorrectly given in the MSS. ↩︎

  3. Comp. Āpastamba-Gṛhya VI, 14, 14; Āśvalāyana II, 8, 14; IV, 4, 8. ↩︎