०१

01 अथातः सीमन्तोन्नयनम् ...{Loading}...

अथातः सीमन्तोन्नयनम् १

02 प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये ...{Loading}...

प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रे-ग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिम् । इति चतस्रो धात्रीर्जुहोति २

03 इमम् मे वरुण ...{Loading}...

इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषामपरेणाग्निं मण्डलागारे प्राचीमुपवेश्य त्रेण्या शलल्या शला-लुग्रप्समुपसङ्गृह्य पुरस्तात्प्रत्यङ्तिष्ठन्व्याहृतीभिः । राकामहम् । यास्ते राके । इति द्वाभ्यामूर्ध्वं सीमन्तमुन्नीयाभिमन्त्रयते । सोम एव नो राजेत्या-हुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे । विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः । इति ३


  1. 1, 3. The corrupt word vivṛttacakrā(ḥ) seems to contain a vocative fem. referring to Gaṅge - avivṛttacakra? The Āpastambīya Mantrapāṭha reads, vivṛttacakra āsīnās tīreṇa yamune tava. Comp. Āśvalāyana I, 14, 7; Pāraskara I, 15, 8. ↩︎