२९

01 गृहा मा बिभीत ...{Loading}...

गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः येषामध्येति प्रवसन्नेति सौमनसो बभुः गृहानुपह्वयामहे ते नो जानन्तु जानतः उपहूता इह गाव उपहूता अजावयः अथो अन्नस्य कीलाल उपहूतो गृहेषु नः उपहूता भूरिसखाः सखायः स्वादुसम्मुदः अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ऊर्जस्वन्तः पयस्वन्त इरावन्तो हसामुदः अनश्या अतृष्या गृहा मास्मद्बिभीतन इति गृहानभ्येति १

02 क्षेमाय वः शान्त्यै ...{Loading}...

क्षेमाय वः शान्त्यै प्रपद्ये शिवं शग्मं शं योः शं योः इति प्रविशति।
न तदहरागतः कलहं करोति।
गृहान् अहं सुमनसः प्रपद्ये अवीरघ्नो वीरतमः सुशेवान् इरां वहन्तः सुमनस्यमानास्तेष्वहं सुमनाः संविशामि इति संविशति।
विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः । इति भार्यां समीक्षते समीक्षते २

प्रथमः प्रश्नः समाप्तः


  1. 29, 1. Śāṅkhāyana-Gṛhya III, 7, 2; Atharva-veda VII, 60. ↩︎

  2. Comp. above, chap. 20, Sūtra 5; Ṛg-veda II, 7, 3. ↩︎