२८

01 वास्तोष्पते वास्तोष्पते इति ...{Loading}...

वास्तोष्पते । वास्तोष्पते । इति द्वे । वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व । स्वाहा । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्प-तेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् । स्वाहा । इदमू नु श्रेयो वसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयतां रयिः सचतां नः शचीपतिः । स्वाहा । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य् कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा १

02 एवं विहितं संवत्सरे ...{Loading}...

एवं विहितं संवत्सरे संवत्सरे वास्तुशमनम् २

03 ऋतावृतावित्येके ...{Loading}...

ऋतावृतावित्येके ३


  1. 28, 1. Comp. Ṛg-veda III, 54, 2; Taitt. Brāhm. III, 7, 14, 4; Ṛg-veda X, 18, 1; Taitt. Brāhm. III, 7, 14, 5. ↩︎