२७

01 शालाङ् कारयिष्यन्नुदगयन आपूर्यमाणपक्षे ...{Loading}...

शालां कारयिष्यन्नुदगयन आपूर्यमाणपक्षे रोहिण्यां त्रिषु चोत्तरेष्वग्निमुप-समाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वाहतं वासः परिधायाप उपस्पृश्य । देवस्य त्वा । इत्यभ्रिमादाय । परिलिखितम् । इति त्रिः प्रदक्षिणं परिलिख्य यथार्थमवटान्खात्वा-भ्यन्तरम्पांसून्करोति १

02 इहैव ध्रुवान् निमिनोमि ...{Loading}...

इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठति घृतमुक्षमाणा । तां त्वा शाले सुवीराः सर्ववीरा अरिष्टवीरा अनुसञ्चरेम । इति दक्षिणां द्वारस्थूणामुच्छ्रयति २

03 इहैव ध्रुवा प्रतितिष्ठ ...{Loading}...

इहैव ध्रुवा प्रतितिष्ठ शाले अश्वावती गोमती सूनृतावती ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगाय इत्युत्तराम् ३

04 आ त्वा कुमारस्तरुण ...{Loading}...

आ त्वा कुमारस्तरुण आ वत्सो जगता सह आ त्वा हिरण्मयः कुम्भ आ दध्नः कलशैरयन्निव इति सम्मितावभिमृशति ४

05 एवमेव स्थूणाराजावुच्छ्रयति ...{Loading}...

एवमेव स्थूणाराजावुच्छ्रयति ५

06 एवमभिमृशति ...{Loading}...

एवमभिमृशति ६

07 ऋतेन स्थूणावधिरोह वंशोर्ध्वो ...{Loading}...

ऋतेन स्थूणावधिरोह वंशोर्ध्वो विराजन्नपसेध शत्रून् । अथास्मभ्यं सहवीरां रयिं दाः । इति पृष्ठवंशमारोपयते ७

08 मा नः सपत्नः ...{Loading}...

मा नः सपत्नः शरणः स्योना देवो देवेभिर्विमितास्यग्रे तृणं वसानाः सुमना असि त्वं शं न एधि द्विपदे शं चतुष्पदे इति च्छन्नामभिमृशति ८

09 ततोनूराधैर्वास्तुशमनम् ...{Loading}...

ततोनूराधैर्वास्तुशमनम् ९

10 निशायामन्तरागारेग्निमुपसमाधाय व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

निशायामन्तरागारेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति १०


  1. 27, 4. The text has the reading jagatā saha; comp. the note on Śāṅkhāyana III, 2, 9. ↩︎

  2. Comp. Atharva-veda III, 11, 5; this text shows the way to correct the blunders of the Hiraṇyakeśin MSS. ↩︎