२६

01 पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते ...{Loading}...

पाणि-ग्रहणादिर् अग्निस् - तमौपासनम् इत्य् आचक्षते १

02 तस्मिन्गृह्याणि कर्माणि क्रियन्ते ...{Loading}...

तस्मिन् गृह्याणि कर्माणि क्रियन्ते २

03 तस्यौपासनेनाहिताग्नित्वन् तथा पार्वणेन ...{Loading}...

तस्यौपासनेनाहिताग्नित्वं तथा पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति ३

04 द्वादशाहं विच्छिन्नः पुनराधेयः ...{Loading}...

द्वादशाहं विच्छिन्नः पुनराधेयः ४

05 प्रतिसङ्ख्याय वा सर्वान्होमाञ्जुहुयात् ...{Loading}...

प्रतिसङ्ख्याय वा सर्वान् होमाञ् जुहुयात् ५

06 परिश्रित उद्धतेवोक्षिते सिकतोपोप्ते ...{Loading}...

परिश्रित उद्धतेवोक्षिते सिकतोपोप्ते ६

07 उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य ...{Loading}...

उदुम्बर-शाखाभिः प्लक्ष-शाखाभिर् वा प्रच्छाद्य
यथालाभं तूष्णीं सम्भारान् सम्भृत्य
याज्ञिकात् काष्ठाद् अग्निं मथित्वा
लौकिकं वाहृत्य
सते+++(=कुण्डविशेषे)+++ कृत्वा
प्रज्वलयित्वाभ्यादधाति ७

08 भूर्भुवः सुवरॐ प्रतिष्ठ ...{Loading}...

भूर्भुवः सुवरॐ प्रतिष्ठ । इति ८

09 अथैनमग्निमुपसमाधाय व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

अथैनम् अग्निम् उपसमाधाय
व्याहृति-पर्यन्तं कृत्वा
द्वे मिन्दाहुती जुहोति -
यन्म आत्मनो मिन्दाभूत्…
पुनर् अग्निश् चक्षुर् अदात् …
इति ९

10 तिस्रस्तन्तुमतीर्जुहोति तन्तुन् तन्वन् ...{Loading}...

तिस्रस् तन्तुमतीर् जुहोति -
तन्तुं तन्वन् …
उद्-बुध्यस्वाग्ने …
त्रयस्त्रिंशत् तन्तवः ।
इति १०

11 चतस्रोभ्यावर्तिनीर्जुहोति अग्नेभ्यावर्तिन् अग्ने ...{Loading}...

चतस्रोभ्यावर्तिनीर्जुहोति । अग्नेभ्यावर्तिन् । अग्ने अङ्गिरः । पुनरूर्जा । सह रय्या । इति ११

12 एकैकशो व्याहृतीः समस्ताश्च ...{Loading}...

एकैकशो व्याहृतीः समस्ताश्च हुत्वा । १२

13 हुत्वा अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्त्वमया ...{Loading}...

अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोयसा हव्यमूहिषेया नो धेहि भेषजम् । स्वाहा । इत्येतां मनस्वतीम् प्राजापत्यां सप्तवतीं च हुत्वा १३

14 प्राजापत्यां सप्तवतीञ् च ...{Loading}...

दशहोतारं मनसानुद्रुत्य सग्रहं हुत्वा । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयामि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरुस्तात् १४

15 ब्राह्मणानन्नेन परिविष्य पुण्याहं ...{Loading}...

ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्य-यनमृद्धिमिति वाचयित्वा प्रसिद्धमाग्नेयेन स्थालीपाकेन यजते १५

16 अत्र गुरवे वरन् ...{Loading}...

अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा १६

17 यदि प्रयायाद्व्याख्यातमात्मन्नरण्योर्वा समारोपणम् ...{Loading}...

यदि प्रयायाद् व्याख्यातम् आत्मन्न् अरण्योर् वा समारोपणम् १७

18 समिधि वा समारोपयेत् ...{Loading}...

समिधि वा समारोपयेत् १८

19 अरणी कल्पेन खादिरः ...{Loading}...

अरणी कल्पेन खादिरः पालाश औदुम्बर आश्वत्थश्च १९

20 अत्रैकतरस्मिन्यत्रावस्येत्तस्मिञ्छ्रोत्रियागारादग्निमाहृत्याजुह्वानः उद्बुध्यस्व इति ...{Loading}...

अत्रैकतरस्मिन्यत्रावस्येत्तस्मिञ्छ्रोत्रियागारा-दग्निमाहृत्याजुह्वानः । उद्बुध्यस्व । इति द्वाभ्यां यस्यां समारूढस्तामादधाति २०

21 व्याख्यातो होमकल्पः ...{Loading}...

व्याख्यातो होमकल्पः २१

22 यदि पार्वणो विच्छिद्येत ...{Loading}...

यदि पार्वणो विच्छिद्येत तस्मिन्पाथिकृतेन याजयेत् । यदि द्वौ वैश्वानरपाथिकृतौ । यदि बहून्पुनराधेयः । यदि नाशे विनाशे वान्यैरग्निभिरग्नौ संसृष्टे वा पुनराधेयः २२


  1. 26, 3. For tasyaupāsanena I think we should read tasyopāsanena. ↩︎

  2. As to the Mantra, ‘Thou art quick, &c.,’ comp. above, I, 1, 3, 5, and the note on Śāṅkhāyana I, 9, 12. I cannot see why the oblation made with this Mantra is called saptavatī (alluding to the number seven); possibly we ought to read satyavatī (containing the word satyam, ‘verily’). Can the words sagrahaṃ hutvā mean, ‘having performed the worship of the planets (graha) at his sacrifice’? ↩︎

  3. Comp. Śāṅkhāyana V, 1, 1. ↩︎