२५

01 विष्णुर्योनिङ् कल्पयतु त्वष्टा ...{Loading}...

विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति गर्भं ते अश्विनावुभावाधत्तां पुष्करस्रजौ हिरण्ययी अरणी यं निर्मन्थतो अश्विना तं ते गर्भं हवामहे दशमास्याय सूतवै यथाग्निगर्भा पृथिवी द्यौर्यथेन्द्रे ण गर्भिणी वायुर्यथा दिशां गर्भ एवं गर्भं दधामि ते यस्य योनिं प्रति रेतो गृहाण पुमान्पुत्रो जायतां गर्भो अन्तः तं माता दश मासो बिभर्तु स जायतां वीरतमः स्वानाम् आ ते गर्भो योनिमेतु पुमान्बाण इवेषुधिम् आ वीरो अत्र जायतां पुत्रस्ते दशमास्यः करोमि ते प्राजापत्यमा गर्भो योनिमेतु ते अनूनः पूर्णो जायतामनन्धोश्लोणोपिशाचधीरः यानि प्रभूणि वीर्याण्यृषभा जनयन्तु नः तैस्त्वं गर्भिणी भव स जायतां वीरतमः स्वानाम् यो वशायां गर्भो यश्च वेहतीन्द्र स्तं निदधे वनस्पतौ तेन त्वं गर्भिणी भव सा प्रसूर्धेनुगा भव सं नाम्नः । चाक्रवाकम् । इति च १

02 भूः प्रजापतिनात्यृषभेण स्कन्दयामि ...{Loading}...

भूः प्रजापतिनात्यृषभेण स्कन्दयामि वीरं धत्स्वासौ भुवः प्रजापतिनात्यृषभेण स्कन्दयामि वीरं धत्स्वासौ सुवः प्रजापतिनात्यृषभेण स्कन्दयामि वीरं धत्स्वासौ इति वीरं हैव जनयति २

03 सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीत्यात्रेयः ...{Loading}...

सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीत्यात्रेयः ३

04 यच्चादौ यच्चर्ताविति बादरायणः ...{Loading}...

यच्चादौ यच्चर्ताविति बादरायणः ४


  1. 25, 1 (a-c). Ṛg-veda X, 184, 1-3; comp. S.B.E., vol. xv, p. 221. ↩︎

  2. (d-f). Śāṅkhāyana-Gṛhya I, 19. It should be observed that the text of Hiraṇyakeśin has in the beginning of (e) quite the same blunder which is found also in the Śāṅkhāyana MSS., yasya instead of vyasya. ↩︎

  3. (g) Comp. Atharva-veda III, 23, 5. The Āpastambīya Mantrapāṭha reads (a)piśācadhītaḥ. ↩︎

  4. (h) Śāṅkhāyana-Gṛhya I, 19, 6; Atharva-veda III, 23, 4. ↩︎

  5. (i) Comp. Atharva-veda III, 23, 1. ↩︎