२४

01 अग्ने प्रायश्चित्ते त्वम् ...{Loading}...

अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै घोरा तनूस्तामितो नाशय स्वाहा । वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै निन्दिता तनूस्तामितो नाशय स्वाहा । आदित्य प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि यास्यै पतिघ्नी तनूस्तामितो नाशय स्वाहा । आदित्य प्रायश्चित्ते वायो प्रायश्चित्तेग्ने प्रायश्चित्तेग्ने प्रायश्चित्ते वायो प्रायश्चित्त आदित्य प्रायश्चित्ते । इति १

02 हुत्वाथास्यै मूर्ध्नि संस्रावञ् ...{Loading}...

हुत्वाथास्यै मूर्ध्नि संस्रावं जुहोति । भूर्भगं त्वयि जुहोमि स्वाहा । भुवो यशस्त्वयि जुहोमि स्वाहा । सुवः श्रियं त्वयि जुहोमि स्वाहा । भूर्भुवः सुवस्त्विषिं त्वयि जुहोमि स्वाहा । इति २

03 अत्रैवोदपात्रन् निधाय प्रदक्षिणमग्निम् ...{Loading}...

अत्रैवोदपात्रं निधाय प्रदक्षिणमग्निं परिक्रम्यापरेणाग्निं प्राचीमुदीचीं वा संवेश्याथास्यै योनिमभिमृशति । अभि त्वा पञ्चशाखेन शिवेनाविद्विषावता । साहस्रेण यशस्विना हस्तेनाभिमृशा-मसि सुप्रजास्त्वाय । इति ३

04 अथैनामुपयच्छते सन् नाम्नः ...{Loading}...

अथैनामुपयच्छते । सं नाम्नः सं हृदयानि सं नाभिः सं त्वचः । सं त्वा कामस्य योक्त्रेण युञ्जान्यविमोचनाय । इति ४

05 अथैनाम् परिष्वजते मामनुव्रता ...{Loading}...

अथैनां परिष्वजते । मामनुव्रता भव सहचर्या मया भव । या ते पतिघ्नी तनूर्जारघ्नीं त्वेतां करोमि । शिवा त्वं मह्यमेधि क्षुरपविर्जारेभ्यः । इति ५

06 अथास्यै मुखेन मुखमीप्सते ...{Loading}...

अथास्यै मुखेन मुखमीप्सते । मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी । मुखे मे सारघं मधु दत्सु संवननं कृतम् । चाक्रवाकं संवननं यन्नदीभ्य उदाहृतम् । यद्युक्तो देवगन्धर्वस्तेन संवनिनौ स्वके । इति ६

07 त्रिरात्रम् मलवद्वाससा ब्राह्मणव्याख्यातानि ...{Loading}...

त्रिरात्रं मलवद्वाससा ब्राह्मणव्याख्यातानि व्रतानि चरति ७

08 चतुर्थ्यां स्नाताम् प्रयतवस्त्रामलङ्कृताम् ...{Loading}...

चतुर्थ्यां स्नातां प्रयतवस्त्रामलङ्कृतां ब्राह्मणसम्भाषामाचम्योपह्वयते ८


  1. With the first verse comp. Taitt. Saṃh. VII, 5, 10, 1; Kātyāyana XIII, 3, 21; Lāṭyāyana IV, 3, 18. ↩︎

  2. Taitt. Saṃhitā II, 5, 1, 5.6: Therefore one should not speak with a woman that has her monthly courses, nor sit together with her, nor eat food that she has given him, &c. ↩︎