२३

01 ध्रुवन् त्वा ब्रह्म ...{Loading}...

ध्रुवं त्वा ब्रह्म वेद ध्रुवोहमस्मिँ ल्लोकेस्मिंश्च जनपदे भूयासम । अच्युतं त्वा ब्रह्म वेद माहमस्माल्लोकादस्माच्च जनपदाच्च्योषि द्विषन्मे भ्रातृव्योस्मा-ल्लोकादस्माच्च जनपदाच्च्यवताम् । अचेष्टं त्वा ब्रह्म वेद माहमस्माल्लो-कादस्माच्च जनपदाच्चेष्टिषि द्विषन्मे भ्रातृव्योस्माल्लोकादस्माच्च जनपदा-च्चेष्टताम् । अव्यथमानं त्वा ब्रह्म वेद माहमस्माल्लोकादस्माच्च जनपदा-द्व्यथिषि द्विषन्मे भ्रातृव्योस्माल्लोकादस्माच्च जनपदाद्व्यथताम् । नभ्यं त्वा सर्वस्य वेद नभ्यमहमस्य जनपदस्य भूयासम् । मध्यं त्वा सर्वस्य वेद मध्यमहमस्य जनपदस्य भूयासम् । तन्तिं त्वा सर्वस्य वेद तन्तिरहमस्य जनपदस्य भूयासम् । मेथीं त्वा सर्वस्य वेद मेथ्यहमस्य जनपदस्य भूयासम् । नाभिं त्वा सर्वस्य वेद नाभिरहमस्य जनपदस्य भूयासम् । यथा नाभिः प्राणानां विषूवानेवमहं विषूवान् । एकशतं तं पाप्मानमृच्छतु योस्मान्द्वेष्टि यं च वयं द्विष्मो भूयांसि मामेकशतात्पुण्यान्यागच्छन्तु । इति १

02 अत्र मनोज्ञेन सम्भाष्यागारम् ...{Loading}...

अत्र मनोज्ञेन सम्भाष्यागारं प्राप्याथैनामाग्नेयेन स्थालीपाकेन याजयति २

03 पत्न्यवहन्ति ...{Loading}...

पत्न्यवहन्ति ३

04 श्रपयित्वाभिघार्योद्वास्याग्नये हुत्वाग्नये स्विष्टकृते ...{Loading}...

श्रपयित्वाभिघार्योद्वास्याग्नये हुत्वाग्नये स्विष्टकृते जुहोति ४

05 तेन ब्राह्मणं विद्यावन्तम् ...{Loading}...

तेन ब्राह्मणं विद्यावन्तं परिवेवेष्टि ५

06 योस्यापचितो भवति तस्मा ...{Loading}...

योस्यापचितो भवति तस्मा ऋषभं ददाति ६

07 नित्यमत ऊर्ध्वम् पर्वस्वाग्नेयेन ...{Loading}...

नित्यमत ऊर्ध्वं पर्वस्वाग्नेयेन स्थालीपाकेन यजते ७

08 नित्यं सायम् प्रातर्व्रीहिभिर्यवैर्वा ...{Loading}...

नित्यं सायं प्रात-र्व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति । अग्नये स्वाहा । प्रजापतये स्वाहा । इति ८

09 सौरीम् पूर्वाम् प्रातरेके ...{Loading}...

सौरीं पूर्वां प्रातरेके समामनन्ति ९

10 त्रिरात्रमक्षारालवणाशिनावधःशायिनावलङ्कुर्वाणौ ब्रह्मचारिणौ वसतः ...{Loading}...

त्रिरात्रमक्षारालवणाशिनाव-धःशायिनावलङ्कुर्वाणौ ब्रह्मचारिणौ वसतः १०

11 चतुर्थ्यामपररात्रेग्निमुपसमाधाय प्रायश्चित्तिपर्यन्तङ् कृत्वा ...{Loading}...

चतुर्थ्यामपररात्रेग्निमुपसमाधाय प्रायश्चित्तिपर्यन्तं कृत्वा नव प्रायश्चित्तीर्जुहोति ११


  1. 5, 6. In the commentary these Sūtras are divided thus: 5. tena brāhmaṇaṃ vidyāvantaṃ pariveveṣṭi; 6. yoऽsyāpacito bhavati tasmā ṛṣabhaṃ dadāti. (5. Therewith he entertains a learned Brāhmaṇa. 6. To one whom he reveres, he presents a bull.) The commentator observes that some authorities make one Sūtra of the two, so that the Brāhmaṇa who receives the food and the one to whom the bull is given, would be the same person. ↩︎

  2. According to the commentary he performs the regular ceremonies down to the oblation offered with the Mantra, ‘Thus thou, Agni’ (see above, I, 3, 5, and compare Pāraskara I, 2, 8). Mātṛdatta says, prāyaścittiparyantaṃ kṛtvā sa tvaṃ no Agna ity etadantaṃ kṛtvā nava prāyaścittīr juhoti . . . vyāhṛtiparyantaṃ kṛtvā imaṃ me Varuṇeti catasro (I, 3, 5) hutvaitā juhoti. ↩︎