२२

01 तान् ततः प्रवाहयन्ति ...{Loading}...

तां ततः प्रवाहयन्ति प्र वा हारयन्ति १

02 समोप्यैतमग्निमनुहरन्ति ...{Loading}...

समोप्यैतमग्निमनुहरन्ति २

03 नित्यो धार्यः ...{Loading}...

नित्यो धार्यः ३

04 अनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः ...{Loading}...

अनुगतो मन्थ्यः श्रोत्रियागाराद्वाहार्यः ४

05 उपवासश्चानुगते भार्यायाः पत्युर्वा ...{Loading}...

उपवासश्चानुगते भार्यायाः पत्युर्वा ५

06 आगारम् प्राप्याथैनां संशास्ति ...{Loading}...

आगारं प्राप्याथैनां संशास्ति । दक्षिणं पादमग्रेतिहर देहलिं माधिष्ठाः । इति ६

07 पूर्वार्धे शालायान् न्युप्योपसमादधाति ...{Loading}...

पूर्वार्धे शालायां न्युप्योपसमादधाति ७

08 अपरेणाग्निं लोहितमानडुहञ् चर्म ...{Loading}...

अपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमास्तृणाति ८

09 तस्मिन्प्राङ्मुखावुदङ्मुखौ वोपविशतः पश्चात्पतिम् ...{Loading}...

तस्मिन्प्राङ्मुखावुदङ्मुखौ वोपविशतः । पश्चात्पतिं भार्योपविशति । इह गावो निषीदन्त्विहाश्वा इह पूरुषाः । इहो सहस्रदक्षिणोपि पूषा निषीदतु । इति ९

10 वाचन्नियमावासाते आ नक्षत्राणामुदयात् ...{Loading}...

वाचन्नियमावासाते आ नक्षत्राणामुदयात् १०

11 उदितेषु नक्षत्रेषु प्राचीमुदीचीं ...{Loading}...

उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य । देवीः षडुर्वीः । इति दिश उपतिष्ठते ११

12 मा हास्महि प्रजया ...{Loading}...

मा हास्महि प्रजया । इति नक्षत्राणि १२

13 मा रधाम द्विषते ...{Loading}...

मा रधाम द्विषते सोम राजन् । इति चन्द्र मसम् १३

14 सप्तर्षयः प्रथमाङ् कृत्तिकानामरुन्धतीं ...{Loading}...

सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवतां ह निन्युः । षट्कृत्तिकामुख्ययोगं वह-न्तीयमस्माकं भ्राजत्वष्टमी । इति सप्तर्षीनुपस्थाय ध्रुवमुपतिष्ठते । ध्रुव-क्षितिर्ध्रुवयोर्निध्रुवमसि ध्रुवत स्थितम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यतः । नमो ब्रह्मणे ध्रुवायाच्युतायास्तु नमो ब्रह्मणः पुत्राय प्रजापतये नमो ब्रह्मणः पुत्रेभ्यो देवेभ्यस्त्रयस्त्रिंशेभ्यो नमो ब्रह्मणः पुत्रपौत्रेभ्योङ्गिरोभ्यः । यस्त्वा ध्रुवमच्युतं सपुत्रं सपौत्रं ब्रह्म वेद ध्रुवा अस्मिन्पुत्राः पौत्रा भवन्ति । प्रेष्यान्तेवासिनो वसनं कम्बलानि कंसं हिरण्यं स्त्रियो राजानोन्नमभयमायुः कीर्तिर्वर्चो यशो बलं ब्रह्मवर्चसमन्नाद्यमित्येतानि मयि सर्वाणि ध्रुवाण्यच्युतानि सन्तु १४


  1. 22, 4 ‘If the fire on which they had put wood, was a fire produced by attrition, (the new fire) should (also) be kindled by attrition. If it was a common (laukika) fire that they had fetched, (the new fire) should be fetched from a Srotriya’s house. Thereby it is shown that the common fire at the Upanayana ceremony, &c., should be fetched only from a Srotriya’s house.’ Mātṛdatta. ↩︎

  2. Comp. Pāraskara I, 8, 10, and the readings quoted there from the Atharva-veda. ↩︎

  3. 12, 13. These are the two last Pādas of the verse of which the first hemistich is quoted in Sūtra 11. ↩︎