२१

01 एकमिषे विष्णुस्त्वान्वेतु द्वे ...{Loading}...

एकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि व्रताय विष्णुस्त्वान्वेतु । चत्वारि मायोभवाय विष्णुस्त्वान्वेतु । पञ्च पशुभ्यो विष्णुस्त्वान्वेतु । षड्रायस्पोषाय विष्णुस्त्वान्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । इति १

02 सप्तमम् पदमवस्थाप्य जपति ...{Loading}...

सप्तमं पदमवस्थाप्य जपति । सखायौ सप्तपदावभूव सख्यं ते गमेयं सख्यात्ते मा योषं सख्यान्मे मा योष्ठाः इति २

03 अथास्या दक्षिणेन पादेन ...{Loading}...

अथास्या दक्षिणेन पादेन दक्षिणं पादमवक्रम्य दक्षिणेन हस्तेन दक्षि-णमंसमुपर्युपर्यन्ववमृश्य हृदयदेशमभिमृशति यथा पुरस्तात् ३

04 प्राणानाङ् ग्रन्थिरसि स ...{Loading}...

प्राणानां ग्रन्थिरसि स मा विस्रसः । इति नाभिदेशम् ४

05 तामपरेणाग्निम् प्राचीमुपवेश्य पुरस्तात्प्रत्यङ्तिष्ठन्नद्भिः ...{Loading}...

तामपरेणाग्निं प्राचीमुपवेश्य पुरस्तात्प्रत्यङ्तिष्ठन्नद्भिः प्रोक्षति । आपो हि ष्ठा मयोभुवः । इति तिसृभिः । हिरण्यवर्णाः शुचयः पावकाः । इति चतसृभिः । पवमानः सुवर्जनः । इति चैतेनानुवाकेन ५

06 अत्र बीजान्यधिश्रयन्ति ...{Loading}...

अत्र बीजान्यधिश्रयन्ति ६


  1. 21, 3. See above, I, 2, 5, 11. ↩︎

  2. See above, I, 2, 5, 12. ↩︎

  3. Comp. I, 3, 10, 2. ↩︎

  4. Mātṛdatta explains adhiśrayanti by vapanti jāyāpatyoḥ śirasi kṣipanti. ↩︎