२०

01 प्राङ्मुखः प्रत्यङ्मुख्या हस्तङ् ...{Loading}...

प्राङ्मुखः प्रत्यङ्मुख्या हस्तं गृह्णीयात्प्रत्यङ्मुखः प्राङ्मुख्या वा । यदि कामयेत पुंसो जनयेयमित्यङ्गुष्ठं गृह्णीयात् । यदि कामयेत स्त्रीरित्यङ्गुलीः । यदि कामयेतोभयं जनयेयमित्यभीव लोमान्यङ्गुष्ठं सहाङ्गुलिभिर्गृह्णीयात् । सरस्वति प्रेदमिव सुभगे वाजिनीवति तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथासत् भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः । इति १

02 तामग्रेण दक्षिणमंसम् प्रतीचीमभ्यावृत्याभिमन्त्रयते ...{Loading}...

तामग्रेण दक्षिणमंसं प्रतीचीमभ्यावृत्याभिमन्त्रयते अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः जीवसूर्वीरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेपम् सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः तृतीयो अग्निष्टे पतिस्तुरीयोहं मनुष्यजाः सोमोददाद्गन्धर्वाय गन्धर्वोग्नयेददात् पशूंश्च मह्यं पुत्रांश्चाग्निर्ददात्यथो त्वाम् अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि सम्भावाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥ इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कुरु । दशास्यां पुत्रानाधेहि पतिमेकादशं कुरु । इति २

03 तां यथायतनमुपवेश्याथास्या अञ्जलावाज्येनोपस्तीर्य ...{Loading}...

तां यथायतनमुपवेश्याथास्या अञ्जलावाज्येनोपस्तीर्य लाजा-न्द्विरावपति । इमाँ ल्लाजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निरनुमन्यतामयम् । इति ३

04 अभिघार्य इयन् नार्युपब्रूतेग्नौ ...{Loading}...

अभिघार्य । इयं नार्युपब्रूतेग्नौ लाजानावप-न्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम । स्वाहा । इति तस्या अञ्जलिना जुहोति ४

05 उदायुषा इत्युत्थाप्य विश्वा ...{Loading}...

उदायुषा । इत्युत्थाप्य । विश्वा उत त्वया वयं धारा उदन्या इव अतिगाहेमहि द्विषः । इति प्रदक्षिणमग्निं परिक्रम्य तथैव लाजानावपति ५

06 द्वितीयम् परिक्रम्य तथैव ...{Loading}...

द्वितीयं परिक्रम्य तथैव लाजानावपति ६

07 तृतीयम् परिक्रम्य सौविष्टकृतीञ् ...{Loading}...

तृतीयं परिक्रम्य सौविष्टकृतीं जुहोति ७

08 अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति ...{Loading}...

अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ८

09 तामपरेणाग्निम् प्राचीमुदीचीं वा ...{Loading}...

तामपरेणाग्निं प्राचीमुदीचीं वा विष्णुक्रमान्क्रामयति ९

10 अथैनां संशास्ति दक्षिणेन ...{Loading}...

अथैनां संशास्ति । दक्षिणेन प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिक्रामीः । इति १०


  1. 20, 1. Śāṅkhāyana I, 13, 2; Āśvalāyana I, 7, 3 seq., &c. The text of the first Mantra ought to be corrected according to Pāraskara I, 7, 2; in the second Mantra we ought to read yathāsaḥ instead of yathāsat; comp. Ṛg-veda X, 85, 36; Pāraskara I, 6, 3. The bridegroom and the bride, of course, are to face each other; thus, if the bridegroom stands on the eastern layer of grass (Sūtra 9 of the preceding section), he is to face the west; if on the western, he is to face the east. ↩︎

  2. The words, agreṇa dakṣiṇam aṃsam . . . abhyāvartya, evidently have the same meaning which is expressed elsewhere (Śāṅkhāyana p. 190 II, 3, 2), dakṣiṇam bāhum anvāvṛtya. With the first Mantra comp. Ṛg-veda X, 85, 44; Pāraskara I, 4, 16; with the second, Ṛg-veda, loc. cit., 37; Pāraskara, loc. cit.; with the following ones, Ṛg-veda X, 85, 40. 41. 45; Pāraskara I, 4, 16; 6, 3, &c. ↩︎

  3. 3 seq. Comp. Śāṅkhāyana I, 13, 15 seq. ↩︎

  4. Comp. above, I, 2, 7, 13; Ṛg-veda II, 7, 3. ↩︎

  5. Comp. I, 2, 8, 16. ↩︎

  6. 9 seq. Comp. Gobhila II, 2, 11 seq.; Śāṅkhāyana I, 14, 5 seq. ↩︎