१९

01 समावृत्त आचार्यकुलान्मातापितरौ बिभृयात् ...{Loading}...

समावृत्त आचार्यकुलान्मातापितरौ बिभृयात् १

02 ताभ्यामनुज्ञातो भार्यामुपयच्छेत्सजातान् नग्निकाम् ...{Loading}...

ताभ्यामनुज्ञातो भार्यामुपय-च्छेत्सजातां नग्निकां ब्रह्मचारिणीमसगोत्राम् २

03 अह्नः पञ्चसु कालेषु ...{Loading}...

अह्नः पञ्चसु कालेषु प्रातः सङ्गवे मध्यन्दिनेपराह्णे सायं वैतेषु यत्कारी स्यात्पुण्याह एव कुरुते ३

04 अग्निमुपसमाधाय परिधानान्तङ् कृत्वा ...{Loading}...

अग्निमुपसमाधाय परिधानान्तं कृत्वा वधूमानीयमानां समीक्षते । सुमङ्ग-लीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतन । इति ४

05 दक्षिणतः पतिम् भार्योपविशति ...{Loading}...

दक्षिणतः पतिं भार्योपविशति ५

06 आचान्तसमन्वारब्धायाम् परिषिञ्चति यथा ...{Loading}...

आचान्तसमन्वारब्धायां परिषिञ्चति यथा पुरस्तात् ६

07 व्याहृतिपर्यन्तङ् कृत्वा जुहोति ...{Loading}...

व्याहृतिपर्यन्तं कृत्वा जुहोति । अग्निरैतु प्रथमो देवतानां सौऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयं राजा वरुणोनुमन्यतां पथेयं स्त्री पौ-त्रमघं न रोदात् । स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियम् । स्वाहा । मा ते गृहे निशि घोष उन्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वं विकेश्युर आविधिष्ठा जीवपत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमानाम् । स्वाहा । द्यौस्ते पृष्ठं रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताभिरक्षतु । आ वाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात् । स्वाहा । अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पापम् । स्वाहा । देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यून-धरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्राः । स्वाहा । इति ७

08 इमम् मे वरुण ...{Loading}...

इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । इति हुत्वाश्मानमास्थापयति । आतिष्ठेममश्मानमश्मेव त्वं स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः । इति ८

09 अपरेणाग्निन् द्वयान्दर्भान्पूर्वापरानुदगग्रान्संस्तीर्य तेषु ...{Loading}...

अपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्संस्तीर्य तेषु पूर्वापराववतिष्ठेते ९


  1. 19, 2. sajātāṃ savarṇāṃ samānābhijanāṃ ca. Mātṛdatta. As to the meaning of ‘a naked girl,’ (i.e. a girl who has not yet the monthly illness), comp. Gobhila III, 4, 6 and note. ↩︎

  2. According to Mātṛdatta, ‘morning’ means one Nāḍikā before and one Nāḍikā after sunrise; ‘forenoon’ means one Nāḍikā before and one Nāḍikā after the moment at which the first quarter of the day has elapsed; and thus each of the other three day-times p. 187 is understood to comprise two Nāḍikās. As the whole day consists of sixty Nāḍikās, it is the sixth part of the day (= 10 Nāḍikās) which is considered as auspicious for such purposes as taking a wife. ↩︎

  3. See I, 1, 2, 1 seq. Ṛg-veda X, 85, 33; Pāraskara I, 8, 9, &c. ↩︎

  4. See I, 1, 2, 7 seq. ↩︎

  5. Pāraskara I, 6, 11. With the third verse comp. Atharva-veda XI, 9, 14. ↩︎