१८

01 इन्द्रा ग्नी वः ...{Loading}...

इन्द्रा ग्नी वः प्रस्थापयतामश्विनावभिरक्षताम् । बृहस्पतिर्वो गोपालः पूषा वः पुनरुदाजतु । इति गाः प्रतिष्ठमाना अनुमन्त्रयते । पूषा गा अन्वेतु नः । इति च १

02 इमा या गाव ...{Loading}...

इमा या गाव आगमन्नयक्ष्मा बहुसूवरीः । नद्य इव स्रवन्तु समुद्र इव निषिञ्चन्तु । इति गा आयतीः प्रतीक्षते २

03 संस्था स्थ संस्था ...{Loading}...

संस्था स्थ संस्था वो भूयास्थाच्युता स्थ मा मा च्योढ्वं माहं भवतीभ्यश्चौषीः । इति संस्थिताः ३

04 ऊर्जा वः पश्याम्यूर्जा ...{Loading}...

ऊर्जा वः पश्याम्यूर्जा मा पश्यत । इति गोष्ठगताः । सहस्रपोषं वः पुष्यासम् । इति च ४

05 अतो गवाम् मध्येग्निमुपसमाधाय ...{Loading}...

अतो गवां मध्येग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पयसा जुहोति । उद्दीप्यस्व जातवेदोपघ्नन्निरृतिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिश । स्वाहा । मा नो हिंसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परिपातय । स्वाहा । अपामिदं न्ययनम् । नमस्ते हरसे शोचिषे । इति च ५

06 इमम् मे वरुण ...{Loading}...

इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ६


  1. 18, 1 seq. Comp. Śāṅkhāyana III, 9; Gobhila III, 6; Āśvalāyana II, 10. ↩︎

  2. The Mantra is very corrupt. I think it ought to be corrected somehow in the following way: saṃsthā stha saṃsthā vo bhtūyāsam acyutā stha ma mac cyoḍhvam māhaṃ bhavatībhyaś cyoshi. Comp. also Dr. Kirste’s note. ↩︎

  3. In the second verse I propose to change abibhrad into p. 186 abibhyad; comp. Atharva-veda XIX, 65, 1: ava tāṃ jahi harasā Jātavedoऽbibhyad ugroऽ rciṣā divam ā roha sūrya. The last words of this verse should be śriyam mā pratipādaya, or something similar. ↩︎