१७

01 यदीषितो यदि वा ...{Loading}...

यदीषितो यदि वा स्वकामी भयेडको वदति वाचमेताम् । तामिन्द्रा ग्नी ब्रह्मणा संविदानौ शिवामस्मभ्यं कृणुतं गृहेषु । इति सलावृकीम् १

02 प्रसार्य सक्थ्यौ पतसि ...{Loading}...

प्रसार्य सक्थ्यौ पतसि सव्यमक्षि निपेपि च । मेह कस्य चनाममत् । इति शकुनिम् २

03 हिरन्यपक्षः शकुनिर्देवानां वसतिङ्गमः ...{Loading}...

हिरन्यपक्षः शकुनिर्देवानां वसतिङ्गमः । ग्रामं प्रदक्षिणं कृत्वा स्वस्ति नो वद कौशिक । इति पिङ्गलाम् ३

04 पुनर्मामैत्विन्द्रि यम् पुनरायुः ...{Loading}...

पुनर्मामैत्विन्द्रि यं पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा पुनर्द्र विणमैतु मा । इति अथैते धिष्णियासो अग्नयो यथास्थानं कल्पन्तामिहैव । स्वाहा । पुनर्म आत्मा पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिभिर्वावृधानोन्तस्तिष्ठतु मे मनोमृतस्य केतुः । स्वाहा । यदन्नमद्यते सायं न तत्प्रातरवति क्षुधः । सर्वं तदस्मान्मा हिंसीन्न हि तद्दिवा ददृशे दिवः । स्वाहा । इत्यनभिप्रेतं स्वप्नं दृष्ट्वा तिलै-राज्यमिश्रैर्जुहोति ४

05 अथैतान्यद्भुतप्रायश्चित्तानि भवन्ति कुप्त्वा ...{Loading}...

अथैतान्यद्भुतप्रायश्चित्तानि भवन्ति । कुप्त्वा कपोत उपाविक्षत् । मध्वागार उपाविक्षत् । गौर्गामधैषीत् । स्थूणा व्यरौक्षीत् । वल्मीक उदैक्षीदित्येवंरूपाणि ५

06 स पूर्वाह्णे स्नातः ...{Loading}...

स पूर्वाह्णे स्नातः प्रयतवस्त्रोहःक्षान्तो ब्राह्मणसम्भाषोन्तरागारेग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्याताना-न्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा ६


  1. 17, 2. The commentary explains śakuni (bird) by dhvāṅkṣa (crow). In the translation of the Mantra (Taitt. Ār. IV, 35) I have left out the unintelligible words nipepi ca. The way to correct the last Pāda is shown by Atharva-veda VI, 57, 3; X, 5, 23. ↩︎

  2. Comp. Āśvalāyana-Gṛhya III, 6, 8. ↩︎

  3. Śāṅkhāyana V, 5. 8. 11; Āśvalāyana III, 7, &c. Kuptvā is corrupt; we should expect a locative. We ought to correct kuptvām, as Dr. Kirste has observed, comp. Āpastamba-Gṛhya VIII, 23, 9. ↩︎

  4. Comp. above, I, 4, 14, 2; 15, 5; I, 2, 8, 16; I, 3, 9, 7. 8. ↩︎