१६

01 दर्शे चन्द्र मसन् ...{Loading}...

दर्शे चन्द्रमसं दृष्ट्वा ऽप आचम्यापो धारयमाणः ।

आ प्यायस्व । सं ते । नवो नवो भवति जायमानः । यमादित्या अंशुमाप्याययन्ति ।

इति चतसृभिर् उपतिष्ठते १

02 मयि दक्षक्रतू इति ...{Loading}...

मयि दक्षक्रतू । इति जञ्जभ्यमानो जपति २

03 सिगसि नसि वज्रो ...{Loading}...

सिगसि नसि वज्रो नमस्ते अस्तु मा मा हिंसीः । इति सिचाधिक्षिप्तो जपति ३

04 तस्य तन्तुमाच्छिद्य मुखवातेन ...{Loading}...

तस्य तन्तुमाच्छिद्य मुखवातेन प्रध्वंसयेत् ४

05 ये पक्षिणः पतयन्ति ...{Loading}...

ये पक्षिणः पतयन्ति बिभ्यतो निरृतैः सह । ते मा शिवेन शग्मेन तेजसोन्दन्तु वर्चसा । इति वयसाधिक्षिप्तो जपति तदन्येन हस्तात्प्रमृज्याद्भिः प्रक्षालयीत ५

06 दिवो नु मा ...{Loading}...

दिवो नु मा बृहतो अन्तरिक्षादपां स्तोको अभ्यपतच्छिवाय । समिन्द्रि येण मनसाहमागां ब्रह्मणा गुप्तः सुकृता कृतेन । जपेद्यद्येनमविज्ञातोपां स्तोकोभिच्छादयेत् ६

07 यदि वृक्षाग्रादभ्यपतत्फलं यद्वान्तरिक्षात्तदु ...{Loading}...

यदि वृक्षाग्रादभ्यपतत्फलं यद्वान्तरिक्षात्तदु वायुरेव । यत्रा वृक्षस्तनुवै यत्र वास आपो बाधन्तां निरृतिं पराचैः । इति जपेद्यद्येनमविज्ञातं फलमभिपतेत् ७

08 नमः पथिषदे वातेषवे ...{Loading}...

नमः पथिषदे वातेषवे रुद्रा य नमो रुद्रा य पथिषदे । इति चतुष्पथमवक्रम्य जपति ८

09 नमः पशुषदे वातेषवे ...{Loading}...

नमः पशुषदे वातेषवे रुद्रा य नमो रुद्रा य पशुषदे । इति शकृद्धतौ ९

10 नमः सर्पसदे वातेषवे ...{Loading}...

नमः सर्पसदे वातेषवे रुद्रा य नमो रुद्रा य सर्पसदे । इति सर्पसृप्ते १०

11 नमोन्तरिक्षसदे वातेषवे रुद्रा ...{Loading}...

नमोन्तरिक्षसदे वातेषवे रुद्रा य नमो रुद्रा यान्तरिक्षसदे । इति जपेद्यद्येनं संवर्तवात आगच्छेत् ११

12 नमोप्सुषदे वातेषवे रुद्रा ...{Loading}...

नमोप्सुषदे वातेषवे रुद्रा य नमो रुद्रा याप्सुषदे । इति नदीमुदन्वतीमवगाह्य जपति १२

13 नमस्तत्सदे वातेषवे रुद्रा ...{Loading}...

नमस्तत्सदे वातेषवे रुद्रा य नमो रुद्रा य तत्सदे । इति चित्रं देशं देवयजनं वनस्पतिं वाक्रम्य जपति १३

14 सूर्याभ्युदितोहनि नाश्नीयाद्वाग्यतोहस्तिष्ठेत् ...{Loading}...

सूर्याभ्युदितोहनि नाश्नीयाद्वाग्यतोहस्तिष्ठेत् १४

15 सूर्याभिनिम्रुक्तो रात्रावेवम् ...{Loading}...

सूर्याभिनिम्रुक्तो रात्रावेवम् १५

16 न यूपमुपस्पृशेत् यद्युपस्पृशेद्दुरिष्टं ...{Loading}...

न यूपमुपस्पृशेत् । यद्युपस्पृशेद्दुरिष्टं यज्ञस्य प्रतिमुञ्चीत । यद्येकमुपस्पृशेत् । एष ते वायो । इति ब्रूयाद्यदि द्वौ । एतौ ते वायू । इति यदि बहून् । एते ते वायवः । इति १६

17 अनिहूतम् परिहूतम् परिष्टुतं ...{Loading}...

अनिहूतं परिहूतं परिष्टुतं शकुनै रुदितं च यत् । मृगस्य शृतमक्ष्णया तद्द्विषद्भ्यो भयामसि । इत्यध्वानमभिप्रव्रजञ्जपति १७

18 उद्गातेव शकुने साम ...{Loading}...

उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । स्वस्ति नः शकुने अस्तु शिवो नः सुमना भव । इत्यनभिप्रेतं शकुनं प्रतिजपति १८

19 यदेतद्भूतान्यन्वाविश्य दैवीं वाचं ...{Loading}...

यदेतद्भूतान्यन्वाविश्य दैवीं वाचं वदसि । द्विषतो नः परावद तान्मृत्यो मृत्यवे नय । इत्येकमृकम् १९

20 अथास्मा उभयत आदीप्तमुल्मुकन् ...{Loading}...

अथास्मा उभयत आदीप्तमुल्मुकं तां दिशं प्रति निरस्यति । अग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्व । इत्यप उपस्पृश्य २०

21 अथैनमुपतिष्ठते विभूरसि प्रवाहणः ...{Loading}...

अथैनमुपतिष्ठते । विभूरसि प्रवाहणः । इत्येतेनानुवाकेन २१


  1. Āśvalāyana-Gṛhya. III, 6, 7. ↩︎

  2. Pāraskara III, 15, 17. ↩︎

  3. I propose to read, nirṛthaiḥ saha. ↩︎

  4. Atharva-veda VI, 124, 1. Read sukṛtāṃ kṛtena. ↩︎

  5. Atharva-veda VI, 124, 2. The Atharva-veda shows the way to correct the corrupt third Pāda. ↩︎

  6. 8 seq. Comp. Pāraskara III, 15, 7 seq. ↩︎

  7. 14, 15. Āpastamba II, 5, 1 2, 13. 14; Gobhila III, 3, 34, &c. ↩︎

  8. Gobhila III, 3, 34. Should it be eṣa te vāyur iti? ↩︎

  9. The Mantra is very corrupt. Perhaps anihūtam should be corrected into anuhūtam, which is the reading of the Āpastambīya Mantrapāṭha. In the last Pāda bhayāmasi is corrupt; the meaning seems to be, ’that we (avert from ourselves and) turn it to our enemies.’ Probably Dr. Kirste is right in reading bhajāmasi. ↩︎

  10. Comp. Ṛg-veda II, 43, 2. ↩︎

  11. As to ekasṛka, ‘solitary jackal,’ comp. Bühler’s note on Āpastamba I, 3, 10, 17 (S.B.E., II, 38). Mātṛdatta says, śṛgālo mṛgaśabdaṃ kurvāṇa ekasṛka ity ucyate. ↩︎