१५

01 यद्वो देवाः प्रपणञ् ...{Loading}...

यद्वो देवाः प्रपणं चराम देवा धनेन धनमिच्छमानाः । तस्मिन्सोमो रुचमा-दधात्वग्निरिन्द्रो बृहस्पतिरीशानश्च । स्वाहा । इति १

02 अथातः क्रोधविनयनम् ...{Loading}...

अथातः क्रोधविनयनम् २

03 या त एषा ...{Loading}...

या त एषा रराट्या तनूर्मन्योर्मृद्धस्य नाशिनी तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत्त एतन्मुखे मतं रराटमुदिव विध्यसि । अव द्यामिव धन्विनो हृदो मन्युं तनोमि ते । अहर्द्यौश्च पृथिवी च विधे क्रोधं नयामसि । गर्भमश्वतर्या इव । इति क्रुद्धमभिमन्त्रयते ३

04 अथातः संवादाभिजयनम् ...{Loading}...

अथातः संवादाभिजयनम् ४

05 निशायामन्तरागारेग्निमुपसमाधाय व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

निशायाम् अन्तर्-आगारे ऽग्निम् उपसमाधाय
व्याहृति-पर्यन्तं कृत्वा
कणैर्+++(=araLi or oleander इति सम्प्रदायः)+++ आज्य-मिश्रैर् जुहोति ।

अव-जिह्व निजिह्विकाव त्वा हविषा यजे ।
यथाहम् उत्तरो वदाम्य् अधरोवद् असौ वदा ।
स्वाहा ।

इति ५

06 अथैनं सन्निधावभिजपति आ ...{Loading}...

अथैनं सन्निधाव् अभिजपति ।

आ ते वाचम् आस्य् आददे
मनस्यां हृदयाद् अधि ।
अङ्गाद् अङ्गात् ते वाचम् आददे
यत्र यत्र निहिता वाक्तां त आददे ।
रुद्र नील-शिखण्ड
वीर कर्मणि कर्मणि ।
इमं मे प्रतिसंवादिनं
वृक्षम् इवाशनिना जहि ।
अधो वदाधरो वदाधस्ताद् भूम्या वद ।
अधोप्रतिर् इव कूटेन
निजस्य निहितो मया ।
तत् सत्यं यद् अहं ब्रवीम्य्
अधरो मत् पद्यस्वासौ ।

इति ६

07 हिरण्यबाहुः सुभगा जिताक्ष्यलङ्कृता ...{Loading}...

हिरण्यबाहुः सुभगा जिताक्ष्य् अलङ्कृता मध्ये ।
देवानाम् आसीनार्थं मह्यम् अवोचत् स्वाहा ।

इति सभाम् आलभ्य जपति ७

08 मम परे ममापरे ...{Loading}...

मम परे ममापरे
ममेयं पृथिवी मही ।
ममाग्निश् चेन्द्रश् च
दिव्यम् अर्थम् असाधयन्न् इव ।

इति परिषदम् अभिवीक्षतेभ्येव जपति ८


  1. 15, 1. Comp. Atharva-veda III, 15, 5; Gobhila IV, 8, 19. ↩︎

  2. Pāraskara III, 13, 5. Possibly we ought to correct mṛddhasya into mṛdhrasya. Avadyām ought to be ava jyām; see Atharva-veda VI, 42, 1. ↩︎

  3. The commentary explains kaṇās (small grains) as oleander (karavīra) seeds. ↩︎

  4. Comp. Pāraskara III, 13, 6. The text of the Mantras is corrupt. ↩︎

  5. Probably we should write ajītākṣī. ↩︎

  6. Mātṛdatta says, prativādinam abhijapaty eva. ↩︎