१३

01 विराजो दोहोसि मयि ...{Loading}...

विराजो दोहोसि । मयि दोहः पद्यायै विराजः । इति योस्य पादौ प्रक्षालयति तस्य हस्तावभिमृश्यात्मानं प्रत्यभिमृशति । मयि तेज इन्द्रि यं वीर्यमायुः कीर्तिर्वर्चो यशो बलम् । इति १

02 अथास्मै अर्घ्यम् इति ...{Loading}...

अथास्मै । अर्घ्यम् । इति प्राह २

03 तत्प्रतिगृह्णाति आ मागन्यशसा ...{Loading}...

तत्प्रतिगृह्णाति । आ मागन्यशसा संसृज तेजसा वर्चसा पयसा च । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनाम् । इति ३

04 समुद्रं वः प्रहिणोम्यक्षिताः ...{Loading}...

समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पयः । इति शेषं निनीयमानमनुमन्त्रयते ४

05 अथास्मै आचमनीयम् इति ...{Loading}...

अथास्मै । आचमनीयम् । इति प्राह ५

06 अमृतोपस्तरणमसि इत्यप आचामति ...{Loading}...

अमृतोपस्तरणमसि । इत्यप आचामति ६

07 अथास्मै मधुपर्कः इति ...{Loading}...

अथास्मै । मधुपर्कः । इति प्राह ७

08 तं सावित्रेणोभाभ्यां हस्ताभ्याम् ...{Loading}...

तं सावित्रेणोभाभ्यां हस्ताभ्यां प्रतिगृह्य । पृथिव्यास्त्वा नाभौ सादयामीडायाः पदे । इति पृथिव्यां प्रतिष्ठाप्य । यन्मधुनो मधव्यं परममन्नाद्यं रूपम् । तेनाहं मधुनो मधव्येन परमेण रूपेण परमो मधव्योन्नादो भूयासम् । इत्यङ्गुष्ठेनोपमध्यमया चाङ्गुल्या त्रिः प्रदक्षिणं संयुज्य । तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामि । इति त्रिः प्राश्य योस्य रातिर्भवति तस्मा उच्छिष्टं प्रयच्छति ८

09 सर्वं वा प्राश्य ...{Loading}...

सर्वं वा प्राश्य । अमृतापिधानमसि । इत्यप आ-चामति ९

10 अथास्मै गौः इति ...{Loading}...

अथास्मै । गौः । इति प्राह १०

11 तस्याः कर्मोत्सर्गो वा ...{Loading}...

तस्याः कर्मोत्सर्गो वा ११

12 गौर्धेनुर्भव्या माता रुद्रा ...{Loading}...

गौर्धेनुर्भव्या माता रुद्रा णां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत । इत्युत्सर्गे संशास्ति १२

13 गौरस्यपहतपाप्माप पाप्मानञ् जहि ...{Loading}...

गौरस्यपहतपाप्माप पाप्मानं जहि मम चामुष्य च हतं मे द्विषन्तं हतो मे द्विषन् । कुरुत । इति द्रि यमाणायाम् १३

14 उत्सर्गेन्येन मांसेनान्नं संस्कृत्याथास्मै ...{Loading}...

उत्सर्गेन्येन मांसेनान्नं संस्कृत्याथास्मै । भूतम् । इति प्राह १४

15 तत्सुभूतं विराडन्नन् तन्मा ...{Loading}...

तत्सुभूतं विराडन्नं तन्मा क्षायि तन्मेशीय तन्म ऊर्जं धास्तत्सुभूतम् । इत्युत्त्काथाह । ब्राह्मणान्भोजयत । इति १५

16 तेष्वस्मै भुक्तवत्स्वनुसंवृजिनमन्नमाहारयति ...{Loading}...

तेष्वस्मै भुक्तवत्स्वनुसंवृजिनमन्नमाहारयति १६

17 तत्प्रतिगृह्णाति द्यौस्ते ददातु ...{Loading}...

तत्प्रतिगृह्णाति । द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी ते ददातु प्राणः प्रतिगृह्णातु प्राणस्त्वाश्नातु प्राणः पिबतु । इति १७

18 इन्द्रा ग्नी मे ...{Loading}...

इन्द्रा ग्नी मे वर्चः कृणुताम् । इति यावत्कामं प्राश्य योस्य रातिर्भवति तस्मा उच्छिष्टं प्रयच्छति १८

19 यङ् कामयेत न ...{Loading}...

यं कामयेत न विच्छिद्येतेति । यस्मिन्भूतं च भव्यं च सर्वे लोका इह श्रिताः । तेन त्वाहं प्रतिगृह्णामि त्वामहं ब्रह्मणा त्वा मह्यं प्रतिगृह्णाम्यसौ । इत्याचम्य १९


  1. 13, 1. Comp. Śāṅkhāyana III, 7, 5, &c. ↩︎

  2. Pāraskara I, 3, 15. ↩︎

  3. Pāraskara I, 3, 14. ↩︎

  4. Āśvalāyana I, 21, 13. ↩︎

  5. Pāraskara I, 3, 18 seq.; Āśvalāyana I, 21, 15 seq. - The Sāvitra formula is, ‘On the impulse of the god Savitṛ . . . I take thee.’ Comp. above, I, 3, 11, 7. ↩︎

  6. Āśvalāyana I, 21, 27. 28. ↩︎

  7. 10 seq. Āśvalāyana I, 21, 30 seq.; Pāraskara I, 3, 26 seq.; Śāṅkhāyana II, 15, 2. 3 note; Gobhila IV, 10, 18 seq. ↩︎

  8. N.N., of course, means the host’s name. ↩︎

  9. 14 seq. Comp. Gobhila I, 3, 16 seq.; Āpastamba II, 2, 3, 11. ↩︎

  10. The meaning of anusaṃvṛjinam (comp. above, I, 4, 12, 15) is uncertain. See the commentary, p. 120 of Dr. Kirste’s edition. ↩︎