१२

01 आनयन्त्यस्मै रथमश्वं हस्तिनं ...{Loading}...

आनयन्त्यस्मै रथमश्वं हस्तिनं वा १

02 रथन्तरमसि वामदेव्यमसि बृहदसि ...{Loading}...

रथन्तरमसि वामदेव्यमसि बृहदसि । अङ्कौ न्यङ्कावभितः । इत्येषा अयं वामश्विना रथो मा दुःखे मा सुखे रिषत् अरिष्टः स्वस्ति गच्छतु विविघ्नन्नभिदासतः इह धृतिरिह विधृतिरिह रम इह रमताम् । इति रथमातिष्ठते यदि रथेन प्रविशति २

03 अश्वोसि हयोसि मयोसि ...{Loading}...

अश्वोसि हयोसि मयोसि । इत्येकादशभिरश्वनामभिरश्वं यद्यश्वेन ३

04 इन्द्र स्य त्वा ...{Loading}...

इन्द्र स्य त्वा वज्रेणाभ्युपविशामि वह कालं वह श्रियं माभिवह हस्त्यसि हस्तियशसमसि हस्तिवर्चसमसि हस्तियशसिहस्तिवर्चसी भूयासम् । इति हस्तिनं यदि तेन ४

05 तद्गच्छति यत्रास्मा अपचितिङ् ...{Loading}...

तद्गच्छति यत्रास्मा अपचितिं करिष्यन्तो भवन्ति ५

06 संस्रवन्तु दिशो मयि ...{Loading}...

संस्रवन्तु दिशो मयि समागच्छन्तु सूनृताः । सर्वे कामा अभियन्तु नः प्रिया अभिस्रवन्तु नः प्रियाः । इति दिश उपतिष्ठते ६

07 यशोसि यशोहन् त्वयि ...{Loading}...

यशोसि यशोहं त्वयि भूयासम् । इति योस्यापचितिं करिष्यन्भवति तमभ्यागच्छन्समीक्षते ७

08 अथास्मा आवसथङ् कल्पयित्वा ...{Loading}...

अथास्मा आवसथं कल्पयित्वा । अर्घः । इति प्राह ८

09 कुरुत इति प्रत्याह ...{Loading}...

कुरुत । इति प्रत्याह ९

10 कुर्वन्त्यस्मै त्रिवृतम् पाङ्क्तं ...{Loading}...

कुर्वन्त्यस्मै त्रिवृतं पाङ्क्तं वा १०

11 दधि मधु घृतमिति ...{Loading}...

दधि मधु घृतमिति त्रिवृत् ११

12 दधि मधु घृतमापः ...{Loading}...

दधि मधु घृतमापः सक्तव इति पाङ्क्तः १२

13 कंसे दध्यानीय मध्वानयति ...{Loading}...

कंसे दध्यानीय मध्वानयति १३

14 ह्रसीयस्यानीय कर्षीयसापिधायानूचीनानि पृथगादापयति ...{Loading}...

ह्रसीयस्यानीय कर्षीयसापिधायानूचीनानि पृथगादापयति कूर्चं पाद्यम-र्घ्यमाचमनीयं मधुपर्क इति १४

15 अन्वङ्ङनुसंवृजिना सोनुपकिञ्चया वाचैकैकम् ...{Loading}...

अन्वङ्ङनुसंवृजिना सोनुपकिञ्चया वाचैकैकं प्राह १५

16 कूर्चः इति कूर्चम् ...{Loading}...

कूर्चः । इति कूर्चम् १६

17 तस्मिन्प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी ...{Loading}...

तस्मिन्प्राङ्मुख उपविशति । राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् । इति १७

18 अथास्मै पाद्यम् इति ...{Loading}...

अथास्मै । पाद्यम् । इति प्राह १८

19 तेनास्य शूद्रः शूद्रा ...{Loading}...

तेनास्य शूद्रः शूद्रा वा पादौ प्रक्षालयति सव्यमग्रे ब्राह्मणस्य दक्षिणमितरयोः १९


  1. 12, 2. Comp. Pāraskara III, 14, 3-6. ↩︎

  2. In this Sūtra three ‘horses’ names’ are given as the Pratīka of the Yajus quoted, ‘Thou art aśva, thou art haya, thou art maya.’ Mātṛdatta observes that the third of them is not found in the Taittirīya Saṃhitā, which gives only ten, and not eleven, horses’ names. ↩︎

  3. Pāraskara III, 15, 1 seq. ↩︎

  4. Āśvalāyana III, 9, 3; Śāṅkhāyana III, 1, 14. ↩︎

  5. 10 seq. Pāraskara I, 3, 5; Āśvalāyana I, 24, 5 seq. ↩︎

  6. Pāraskara, loc. cit.; Āśvalāyana, loc. cit., § 7. ↩︎

  7. The text is corrupt and the translation very doubtful. The MSS. have, anusaṃvṛjinā soऽnupakiñcayā vācā. Mātṛdatta’s note, which is also very corrupt, runs thus: anusaṃvrajinā saha kūrcādinā dravyeṇa tad agrataḥ kṛtvānugantā. anusaṃvṛjineti (sic: anugachaṃnnusaṃv°, Dr. Kielhorn’s MS.) pramādapāṭhaḥ. sampradātānupakiñcayā na vidyata upaghātikā vāg yasya [yasyā, Dr. K.’s MS.] seyam anupakiñcā vāk . . . kecid anusaṃvṛjineti (anusaṃvrajineti, Dr. Kirste) pāṭhāntaraṃ kṛtvā vāgviśeṣaṇam icchanti yathā mṛṣṭā vāk saṃskṛtā vāk tathā ceti. apare yathāpāṭham evārtham icchanti. - Perhaps we may correct, anusaṃvṛjinayānupakiñcayā vācā. Comp. below, I, 4, 13, 16. ↩︎

  8. See above, I, 2, 6, 9. ↩︎

  9. Pāraskara I, 3, 10. 11; Āśvalāyana I, 24, 11. ↩︎