११

01 विराजञ् च स्वराजञ् ...{Loading}...

विराजं च स्वराजं चाभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा संसृजामसि । इति कुण्डले प्रतिहरते दक्षिणे कर्णे दक्षिणं सव्ये सव्यम् १

02 ऋतुभिष्ट्वार्तवैरायुषे वर्चसे संवत्सरस्य ...{Loading}...

ऋतुभिष्ट्वार्तवैरायुषे वर्चसे । संवत्सरस्य धायसा तेन सन्ननुगृह्णासि । इति कुण्डले सङ्गृह्णीते २

03 इयमोषधे त्रायमाणा सहमाना ...{Loading}...

इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा हिरण्यवर्चसं करोतु पूरुषु प्रियम् । ब्रह्मवर्चसिनं मा करोत्वपाशोसि । इति ग्रीवायां मणिं प्रतिमुञ्चते ३

04 शुभिके शुभमारोह शोभयन्ती ...{Loading}...

शुभिके शुभमारोह शोभयन्ती मुखं मम । मुखं च मम शोभय भूयांसं च भगं कुरु । यामाहरज्जमदग्निः श्रद्धायै कामायास्यै । इमां तां प्रतिमुञ्चेहं भगेन सह वर्चसा । इति द्वाभ्यां स्रजं प्रतिमुञ्चते ४

05 यदाञ्जनन् त्रैककुदञ् जातं ...{Loading}...

यदाञ्जनं त्रैककुदं जातं हिमवत उपरि । तेन वामाञ्जेहं भगेन सह वर्चसा । मयि पर्वतपूरुषम् । इति त्रैककुदेनाञ्जनेनाङ्क्ते तस्मिन्नविद्यमाने येनैव केनचित् ५

06 यन्मे मनः परागतम् ...{Loading}...

यन्मे मनः परागतम् । इत्यादर्शेवेक्षते ६

07 देवस्य त्वा इति ...{Loading}...

देवस्य त्वा । इति वैणवं दण्डं प्रतिगृह्य । इन्द्र स्य वज्रोस्यश्विनौ मा पातम् । इति त्रिरूर्ध्वमुन्मार्ष्टि ७

08 वेग वेजयास्मद्द्विषतस्तस्करान्सरीसृपाञ्छ्वापदान्रक्षांसि पिशाचान्पौरुषेयाद्भयान्नो ...{Loading}...

वेग वेजयास्मद्द्विषतस्तस्करान्सरीसृपाञ्छ्वापदान्रक्षांसि पिशाचान्पौ-रुषेयाद्भयान्नो दण्ड रक्ष विश्वस्माद्भयाद्र क्ष सर्वतो जहि तस्करान् । अनग्नः सर्ववृक्षेषु जायसे त्वं सपत्नहा । जहि शत्रुगणान्सर्वान्समन्तं मघवानिव । इति त्रिः प्रदक्षिणमुपर्युपरि शिरः प्रतिहरते ८

09 प्रतिष्ठे स्थो देवते ...{Loading}...

प्रतिष्ठे स्थो देवते मा मा सन्ताप्तम् । इत्युपानहावध्यवरोहति ९

10 प्रजापतेः शरणमसि ब्रह्मणश्छदिः ...{Loading}...

प्रजापतेः शरणमसि ब्रह्मणश्छदिः । इति च्छत्त्रं प्रतिगृह्णाति १०

११ यो मे दण्डः ...{Loading}...

यो मे दण्डः परापतद्विहायसोऽधिभूम्याम् । इमं तं पुनराददे यमायुषे च बलाय चेति दण्डं पुनरादत्ते यद्यस्य हस्तात्पतति ॥ (ख०११) ॥ ११॥


  1. 11, 2. The end of the Mantra is corrupt. We ought to read, as p. 168 Dr. Kirste has shown, tena saṃhanu kṛnmasi (Av. V, 28, 13). Mātṛdatta says, saṃgṛhṇīteऽpidhānenāpidadhāti pratigrahasaṃgrahaṇayoḥ saṃyuktatvād ekāpavargatvāt. ↩︎

  2. The Mantra, with the exception of the last words, is identical with the last verse of Section 10, Sūtra 6. Here the MSS. again have oṣadhe for oṣadhis. ↩︎

  3. Comp. Atharva-veda VI, 137: yāṃ Jamadagnir akhanad duhitre, &c. Pāraskara II, 6, 23. ↩︎

  4. Regarding the Traikakuda salve, comp. Zimmer, Altindisches Leben, p. 69, and see Atharva-veda IV, 9, 9. ↩︎

  5. He takes the staff with the well-known Sāvitra formula, ‘On the impulse of the god Savitṛ . . . I take thee.’ ↩︎

  6. Āśvalāyana III, 8, 19; Pāraskara II, 6, 30. ↩︎

  7. Āśvalāyana III, 8, 19; Pāraskara II, 6, 29. ↩︎

  8. Instead of yamāyushe I propose to read āyushe. Comp. Pāraskara II, 2, 12. ↩︎