०९

01 अधीत्य वेदं स्नानम् ...{Loading}...

अधीत्य वेदं स्नानम् १

02 तद्व्याख्यास्यामः ...{Loading}...

तद्व्याख्यास्यामः २

03 उदगयन आपूर्यमाणपक्षे रोहिण्याम् ...{Loading}...

उदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोर्वैतेषु स्नायात् ३

04 यत्रापस्तद्गत्वाग्निमुपसमाधाय व्याहृतिपर्यन्तङ् कृत्वा ...{Loading}...

यत्रापस्तद्गत्वाग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पालाशीं समिधमादधाति । इमं स्तोममर्हते जातवेदसे स्थमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव । स्वाहा । इति ४

05 अथ व्याहृतिभिर्जुहोति यथा ...{Loading}...

अथ व्याहृतिभिर्जुहोति यथा पुरस्तात् ५

06 त्र्यायुषञ् जमदग्नेः कश्यपस्य ...{Loading}...

त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषम् । स्वाहा ६

07 इमम् मे वरुण ...{Loading}...

इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्याताना-न्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ७

08 ब्राह्मणानन्नेन परिविष्य पुण्याहं ...{Loading}...

ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते । अग्ने व्रतपते व्रतमचारिषम् । इत्येतैः ८

09 व्रतं विसृज्य उदु ...{Loading}...

व्रतं विसृज्य । उदु त्यम् । चित्रम् । इति द्वाभ्यामा-दित्यमुपतिष्ठते ९

10 उदुत्तमं वरुण पाशमस्मत् ...{Loading}...

उदुत्तमं वरुण पाशमस्मत् । इत्युत्तरीयं ब्रह्मचारिवासो निधायान्यत्यरिधाय । अवाधमम् । इत्यन्तरीयम् । वि मध्यमम् । इति मेखलाम् । अथा वयमादित्य व्रते । इति दण्डम् । मेखलां दण्डं कृष्णाजिनं चाप्सु प्रवेश्यापरेणाग्निं प्राङ्मुख उपविश्य क्षुरं सम्मृशति । क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिंसीः । इति १०

11 वप्त्रे प्रदायोन्दनीया अपोभिमृशति ...{Loading}...

वप्त्रे प्रदायोन्दनीया अपोभिमृशति । शिवा नो भवथ संस्पृशे । इति ११

12 आप उन्दन्तु जीवसे ...{Loading}...

आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । इति दक्षिणं गोदानमुनत्ति १२

13 ओषधे त्रायस्वैनम् इत्यूर्ध्वाग्रामोषधिमन्तर्दधाति ...{Loading}...

ओषधे त्रायस्वैनम् । इत्यूर्ध्वाग्रामोषधिमन्तर्दधाति १३

14 स्वधिते मैनं हिंसीः ...{Loading}...

स्वधिते मैनं हिंसीः । इति क्षुरेणाभिनिदधाति १४

15 देवश्रूरेतानि प्रवपे इति ...{Loading}...

देवश्रूरेतानि प्रवपे । इति प्रवपति १५

16 यत्क्षुरेण मर्चयता सुपेशसा ...{Loading}...

यत्क्षुरेण मर्चयता सुपेशसा वप्तर्वपसि केशश्मश्रु । वर्चया मुखं मा न आयुः प्रमोषीः । इति वप्तारं समीक्षते १६

17 श्मश्रूण्यग्रे वापयतेत्थोपपक्षावथ केशानथ ...{Loading}...

श्मश्रूण्यग्रे वापयतेत्थोपपक्षावथ केशानथ लोमान्यथ नखानि १७

18 आनडुहे शकृत्पिण्डे संयम्य ...{Loading}...

आनडुहे शकृत्पिण्डे संयम्य केशश्मश्रुलोमनखानि । इदमहममुष्यामुष्यायणस्य पाप्मानमवगूहामि । इति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति योस्य रातिर्भवति १८

19 स्नायनीयेनोत्साद्यौदुम्बरेण दन्तान्प्रक्षालयते ...{Loading}...

स्नायनीयेनोत्साद्यौदुम्बरेण दन्तान्प्रक्षालयते १९


  1. 9, 4. Comp. I, 1, 3, 4; Ṛg-veda I, 94, 1. ‘Where the words are used, “He puts wood on the fire” (agnim upasamādhāya), he should prepare the ground by raising it, &c., should carry the fire to that place, should put wood on it, and then he should sacrifice in the fire. Where those words are not used, he should (only) strew grass round the fire which is (already) established in its proper place, and should thus perform the sacrifice.’ Mātṛdatta. ↩︎

  2. Śāṅkhāyana I, 28, 9. ↩︎

  3. Comp. I, 2, 7, 25; 8, 7. ↩︎

  4. The words quoted in this Sūtra are the parts of a Ṛc which is found in Taittirīya Saṃhitā I, 5, 11, 3. ↩︎

  5. The words which I have included in brackets are wanting in some of the MSS., and are not explained in the commentaries. They are doubtless a spurious addition. Comp. Āśvalāyana I, 57, 6, &c. ↩︎

  6. Pāraskara II, 1, 9. The same expression dakṣiṇaṃ godānam, of which I have treated there in the note, is used in this Sūtra. Comp., besides, Śāṅkhāyana-Gṛhya I, 28, 9; Āpastamba-Śrauta-sūtra p. 164 X, 5, 8; Śatapatha-Br. III, 1, 2, 6. According to Mātṛdatta, there is some difference of opinion between the different teachers as to whether the Mantras for the moistening of the hair and the following rites are to be repeated by the teacher or by the barber. ↩︎

  7. Āśvalāyana I, 17, 8; Pāraskara II, 1, 10; Āpastamba-Śraut., loc. cit.; Kātyāyana-Sraut. VII, 2, 10. The parallel texts prescribe that one Kuśa blade, or three Kuśa blades, should be put into the hair. ↩︎

  8. Yājñikadeva in his commentary on Kātyāyana (loc. cit.) says, kṣureṇābhinidhāya kṣuradhārām antarhitatṛṇasyopari nidhāya. ↩︎

  9. Āśvalāyana I, 17, 16. Comp. also Ṛg-veda I, 24, 11. ↩︎