०८

01 त्र्यहव्रतञ् चरति ...{Loading}...

त्र्यहव्रतं चरति १

02 अक्षारमलवणमशमीधान्यम् भुञ्जानोधःशाय्यमृन्मयपाय्यशूद्रो च्छिष्ट्यमधुमांसाश्यदिवास्वाप्युभौ ...{Loading}...

अक्षारमलवणमशमीधान्यं भुञ्जानोधःशाय्यमृन्मयपाय्य-शूद्रो च्छिष्ट्यमधुमांसाश्यदिवास्वाप्युभौ कालौ भिक्षाचर्यमुदकुम्भमित्याह-रन्नहरहः काष्ठकलापमुभौ कालौ सायं सायं वा समिधोभ्यादधाति २

03 पुरस्तात्परिषेचनात् यथा ह ...{Loading}...

पुर-स्तात्परिषेचनात् । यथा ह तद्वसवो गौर्यम् । इति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति यथा पुरस्तात् ३

04 व्याहृतिभिः समिधोभ्यादधात्येकैकशः समस्ताभिश्च ...{Loading}...

व्याहृतिभिः समिधोभ्यादधात्येकैकशः समस्ता-भिश्च । एषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि । स्वाहा । मेधां म इन्द्रो ददातु मेधां देवी सरस्वती । मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ । स्वाहा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवीं मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताम् । स्वाहा । आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषताम् । स्वाहा । इति ४

05 तथैव परिमृज्य परिषिञ्चति ...{Loading}...

तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् ५

06 यत्ते अग्ने तेजस्तेनाहम् ...{Loading}...

यत्ते अग्ने तेजस्तेनाहम् । इत्येतैर्मन्त्रैरुपतिष्ठते । मयि मेधां मयि प्रजाम् । इति च ६

07 त्र्यहे पर्यवेते तथैव ...{Loading}...

त्र्यहे पर्यवेते तथैव त्रिवृतान्नेन ब्राह्मणान्परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते । अग्ने व्रतपते व्रतमचारिषम् । इत्येतैः सन्नतैः ७

08 एतद्व्रत एवात ऊर्ध्वम् ...{Loading}...

एतद्व्रत एवात ऊर्ध्वम् ८

09 आचार्यकुलवास्यश्नाति क्षारं लवणं ...{Loading}...

आचार्यकुलवास्यश्नाति क्षारं लवणं शमीधान्यमिति ९

10 दण्डी जटी मेखली ...{Loading}...

दण्डी जटी मेखली १०

11 शिखाजटो वा स्यात् ...{Loading}...

शिखाजटो वा स्यात् ११

12 काषायमजिनं वा वस्ते ...{Loading}...

काषायमजिनं वा वस्ते १२

13 न स्त्रियमुपैति ...{Loading}...

न स्त्रियमुपैति १३

14 अष्टाचत्वारिंशद्वर्षाणि चतुर्विंशतिन् द्वादश ...{Loading}...

अष्टाचत्वारिंशद्वर्षाणि चतुर्विंशतिं द्वादश यावद्ग्रहणं वा १४

15 न त्वेवाव्रतः स्यात् ...{Loading}...

न त्वेवाव्रतः स्यात् १५

16 काण्डोपाकरणे काण्डविसर्गे च ...{Loading}...

काण्डोपाकरणे काण्डविसर्गे च । सदस-स्पतिमद्भुतं प्रियमिन्द्र स्य काम्यम् । सनिं मेधामयासिषम् । स्वाहा । इति काण्डर्षिर्द्वितीयः । इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि । प्रजापते । यदस्य कर्मणोत्यरीरिचम् । इति च । अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् १६


  1. 8, 1. This is the Sāvitra-vrata. Comp. I, 2, 6, 7; Śāṅkhāyana, Introduction, p. 8. ↩︎

  2. Regarding the term ‘pungent food,’ comp. Professor Bühler’s notes on Āpastamba I, 1, 2, 23; II, 6, 15, 15. ↩︎

  3. See I, 1, 2, 7 seq.; Āpastamba Dharma-sūtra I, 1, 4, 18. ↩︎

  4. Āpastamba I, 1, 4, 16; Śāṅkhāyana II, 10, 4, &c. ↩︎

  5. See Sūtra 3 and the note. ↩︎

  6. Āśvalāyana-Gṛhya I, 21, 4. ↩︎

  7. See I, 2, 7, 21. 25. ↩︎

  8. He keeps the observances stated in Sūtra 2. ↩︎

  9. See above, Sūtra 2. Comp. Āpastamba Dharma-sūtra I, 1, 2, II, and Sūtra 23 of the same section, which stands in contradiction to this Sūtra of Hiraṇyakeśin. ↩︎

  10. 10, 11. Comp. Āpastamba I, I, 2, 31. 32. Mātṛdatta has received into his explanation of the eleventh Sūtra the words, ‘he should shave the rest of the hair,’ which in the Āpastambīya-sūtra are found in the text. ↩︎

  11. Āśvalāyana-Gṛhya I, 22, 3; Āpastamba Dharma-sūtra I, 1, 2, 12 seq. ↩︎

  12. Ṛg-veda I, 18, 6. As the Ṛṣis of the single Kāṇḍas are considered, Prajāpati, Soma, Agni, the Viśve devās, Svayambhū. Regarding the Mantras quoted in the last section of this Sūtra, see above, I, 1, 3, 5-7. ↩︎