०७

01 अथ सप्त पालाशीः ...{Loading}...

अथ सप्त पालाशीः समिध आद्रा र्! अप्रच्छिन्नाग्राः प्रादेशमात्रीर्घृतान्वक्ता आभ्याधापयति १

02 अग्नये समिधमाहार्षम् बृहते ...{Loading}...

अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । इत्येकाम् २

03 अग्नये समिधौ इति ...{Loading}...

अग्नये समिधौ । इति द्वे ३

04 अग्नये समिधः इति ...{Loading}...

अग्नये समिधः । इति चतस्रः ४

05 अथ परिषिञ्चति यथा ...{Loading}...

अथ परिषिञ्चति यथा पुरस्तात् ५

06 अन्वमंस्थाः प्रासावीः इति ...{Loading}...

अन्वमंस्थाः । प्रासावीः । इति मन्त्रान्तान्सन्नमति ६

07 अथ देवता उपतिष्ठते ...{Loading}...

अथ देवता उपतिष्ठते ७

08 अग्ने व्रतपते व्रतञ् ...{Loading}...

अग्ने व्रतपते व्रतं चरिष्यामि । इत्यग्निम् ।
वायो व्रतपते । इति वायुम् ।
आदित्य व्रतपते । इत्यादित्यम् ।
व्रतानां व्रतपते । इति व्रतपतिम् ८

09 अत्र गुरवे वरन् ...{Loading}...

अत्र गुरवे वरं ददाति ९

10 उदायुषा इत्युत्थाप्य सूर्यैष ...{Loading}...

उदायुषा । इत्युत्थाप्य ।
सूर्यैष ते पुत्रस्तं ते परिददामि । इति परिदाय ।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतम् । नन्दाम शरदः शतं मोदाम शरदः शतम् । भवाम शरदः शतं शृणवाम शरदः शतम् । प्रब्रवाम शरदः शतमजिताः स्याम शरदः शतम् । ज्योक् च सूर्यं दृशे । इत्यादित्यमुपतिष्ठते १०

11 अग्निष्ट आयुः प्रतराङ् ...{Loading}...

अग्निष्ट आयुः प्रतरां कृणोत्वग्निष्टे पुष्टिं प्रतरां दधातु । इन्द्रो मरुद्भिरिह ते दधात्वादित्यस्ते वसुभिरादधातु । इति दण्डं प्रदायामत्रं प्रयच्छति ११

12 अथाह भिक्षाचर्यञ् चर ...{Loading}...

अथाह । भिक्षाचर्यं चर । इति १२

13 स मातरमेवाग्रे भिक्षेत ...{Loading}...

स मातरमेवाग्रे भिक्षेत १३

14 अतोन्येषु रातिकुलेषु ...{Loading}...

अतोन्येषु रातिकुलेषु १४

15 आहृत्य भैक्षम् इति ...{Loading}...

आहृत्य । भैक्षम् । इति गुरवे प्राह १५

16 तत्सुभैक्षम् इत्युक्त्वा ...{Loading}...

तत्सुभैक्षम् । इत्युक्त्वा १६

17 यस्य ते प्रथमवास्यं ...{Loading}...

यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुहृदो वर्धमानमनुजायन्तां बहवः सुजातम् । इति प्रथमवास्यमस्यादत्ते १७

18 उपस्थितेन्न ओदनस्यापूपानां सक्तूनामिति ...{Loading}...

उप-स्थितेन्न ओदनस्यापूपानां सक्तूनामिति समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेन्नादाय स्वाहा । अग्नयेन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देव-ताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा । इति १८

19 सर्वत्रैवमनादिष्टदेवते ...{Loading}...

सर्वत्रैवमनादिष्ट-देवते १९

20 अमुष्मै स्वाहा इति ...{Loading}...

अमुष्मै स्वाहा । इति यथादेवतमादिष्टदेवते २०

21 एतेषामेवान्नानां समवदाय प्रागग्रेषु ...{Loading}...

एतेषामेवान्नानां समवदाय प्रागग्रेषु दर्भेषु बलिं करोति । वास्तुपतये स्वाहा । इति २१

22 त्रिवृतान्नेन ब्राह्मणान्परिविष्य पुण्याहं ...{Loading}...

त्रिवृतान्नेन ब्राह्मणान्परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा २२


  1. 7, 1 seq. Comp. Āśvalāyana I, 21, 1; Sāṅkhāyana II, 10, &c. ‘The putting of fuel on the fire, and what follows after it, form a part of the chief ceremony, not of the recitation of the Sāvitrī. Therefore in the case of one who has not yet been initiated (see I, 2, 6, 7), it ought to be performed immediately after (the student) has been given in charge (to the gods and demons; I, 2, 6, 5).’ Mātṛdatta. ↩︎

  2. Pāraskara II, 4, 3. ↩︎

  3. Comp. above, I, 1, 2, 7 seq. ↩︎

  4. He says, ‘Anumati! Thou hast given thy consent!’ &c. ↩︎

  5. 8 seq. Comp. Gobhila II, 10, 16. ↩︎

  6. Comp. Śāṅkhāyana I, 14, 13 seq. ↩︎

  7. Pāraskara I, 8, 7; I, 6, 3. ↩︎

  8. Śāṅkhāyana II, 6, 2, &c. ↩︎

  9. 16 seq. Śāṅkhāyana II, 6, 4 seq.; Āpastamba I, 3, 28 seq. ↩︎

  10. The commentary explains rātikuleshu by jñātiprabhṛtishu; - comp. yoऽsya rātir bhavati, I, 3, 9, 18. ↩︎

  11. See above, I, 1, 4, 2, and comp. Atharva-veda II, 13, 5. ↩︎

  12. Comp. above, I, 1, 3, 3. ↩︎

  13. ‘The same,’ of course, refers to Sūtra 21. ↩︎

  14. See above, I, 1, 1, 6. ↩︎