०६

01 दक्षिणे कर्णे जपति ...{Loading}...

दक्षिणे कर्णे जपति १

02 आयुर्दा अग्ने इत्युत्तरे ...{Loading}...

आयुर्दा अग्ने । इत्युत्तरे २

03 अग्नौ पृथिव्याम् प्रतितिष्ठ ...{Loading}...

अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि । यां स्वस्तिमग्निर्वायुरादित्यश्चन्द्र मा आपोनुसञ्च-रन्ति तां स्वस्तिमनुसञ्चरासौ । प्राणस्य ब्रह्मचार्यभूरसौ । इत्युभयत्रानुषजति ३

04 मेधान् त इन्द्रो ...{Loading}...

मेधां त इन्द्रो ददातु मेधां देवी सरस्वती । मेधां ते अश्विनावुभावाधत्तां पुष्करस्रजौ । इति तस्य मुखेन मुखं सन्निधाय जपति ४

05 अथैनम् परिददाति कषकाय ...{Loading}...

अथैनं परिददाति । कषकाय त्वा परिददाम्यन्तकाय त्वा परिददाम्यघोराय त्वा परिददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै त्वा सवैश्वानरायै परिददाम्यद्भ्यस्त्वा परिददा-म्योषधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्य-स्त्वा देवताभ्यः परिददामि । इति ५

06 अत्र सावित्रीं वाचयति ...{Loading}...

अत्र सावित्रीं वाचयति यदि पुरस्ता-दुपेतो भवति ६

07 यद्यनुपेतस्त्र्यहे पर्यवेते ...{Loading}...

यद्यनुपेतस् त्र्यहे पर्यवेते ७

08 सद्यः पुष्करसादिः ...{Loading}...

सद्यः पुष्करसादिः ८

09 अपरेणाग्निमुदगग्रङ् कूर्चन् निधाय ...{Loading}...

अपरेणा-ग्निमुदगग्रं कूर्चं निधाय तस्मिन्प्राङ्मुख उपविशति । राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् । इति ९

10 आदित्यायाञ्जलिङ् कृत्वाचार्यायोपसङ्गृह्य दक्षिणतः ...{Loading}...

आदित्यायाञ्जलिं कृत्वाचार्यायोपसङ्गृह्य दक्षिणतः कुमार उपविश्य । अधीहि भो । इत्युत्त्काथाह । सावित्रीं भो अनुब्रूहि । इति १०

11 गणानान् त्वा गणपतिं ...{Loading}...

गणानां त्वा गणपतिं हवामहे । इत्येनमभिमन्त्र्याथास्मै पच्छोग्रे-न्वाहाथार्धर्चशोथ सन्तताम् । भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवः सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् । इति ११


  1. 6, 3. Āśvalāyana I, 20, 8. ↩︎

  2. Āśvalāyana I, 15, 2; 22, 26; Pāraskara II, 4, 8. ↩︎

  3. Comp. Śāṅkhāyana II, 3, 1; Pāraskara II, 2, 21. The name p. 154 in the first section of the Mantra is spelt Kashakāya and Kaśakāya. Comp. Mantra-Brāhmaṇa I, 6, 22: Kṛśana, idaṃ te paridadāmy amum; Atharva-veda IV, 10, 7: Karśanas tvābhirakṣatu. ↩︎

  4. ‘A repetition of the initiation takes place as a penance.’ Mātṛdatta. ↩︎

  5. 9-11. Comp. Śāṅkhāyana II, 5, &c. ↩︎