०५

01 आगन्त्रा समगन्महि प्र ...{Loading}...

आगन्त्रा समगन्महि प्र स मृत्युं युयोतन । अरिष्टाः सञ्चरेमहि स्वस्ति च-रतादिह । स्वस्त्या गृहेभ्यः । इति प्रदक्षिणमग्निं परिक्रामन्तमभिमन्त्रयते १

02 अथैनमभिव्याहारयति ब्रह्मचर्यमागामुप मा ...{Loading}...

अथैनमभिव्याहारयति । ब्रह्मचर्यमागामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः । इति २

03 तम् पृच्छति ...{Loading}...

तं पृच्छति ३

04 को नामासि इति ...{Loading}...

को नामासि । इति ४

05 असौ इत्याचष्टे यथानामा ...{Loading}...

असौ । इत्याचष्टे यथानामा भवति ५

06 स्वस्ति देव सवितरहमनेनामुनोदृचमशीय ...{Loading}...

स्वस्ति देव सवितरहमनेनामुनो-दृचमशीय । इति नामनी गृह्णाति ६

07 शन् नो देवीरभिष्टय ...{Loading}...

शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः । इति मार्जयेते ७

08 अथास्य दक्षिणेन हस्तेन ...{Loading}...

अथास्य दक्षिणेन हस्तेन दक्षिण-मंसमन्वारभ्य सव्येन सव्यं व्याहृतिभिः सावित्र्येति दक्षिणं बाहुमभ्यात्म-न्नुपनयते । देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामुपनयेसौ । इति च ८

09 अथास्य दक्षिणेन हस्तेन ...{Loading}...

अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निष्टे हस्तमग्रभीत्सोमस्ते हस्तमग्रभीत्सविता ते हस्तमग्रमीत्सरस्वती ते हस्तमग्रभीत्पूषा ते हस्तमग्रभीद्बृहस्पतिस्ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीद्व-रुणस्ते हस्तमग्रभीत्त्वष्टा ते हस्तमग्रभीद्धाता ते हस्तमग्रभीद्विष्णुस्ते हस्तमग्रभीत्प्रजापतिस्ते हस्तमग्रभीत् । इति ९

10 सविता त्वाभिरक्षतु मित्रस्त्वमसि ...{Loading}...

सविता त्वाभिरक्षतु मित्र-स्त्वमसि धर्मणा । अग्निराचार्यस्तव । देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवासावपोशानः समिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः । इत्येनं संशास्ति १०

11 अथास्य दक्षिणेन हस्तेन ...{Loading}...

अथास्य दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपर्यन्ववमृश्य हृदयदेशमभिमृशति । मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यम् । मामेवानुसंरभस्व मयि चित्तानि सन्तु ते । मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतात् । इति ११

12 प्राणानाङ् ग्रन्थिरसि स ...{Loading}...

प्राणानां ग्रन्थिरसि स मा विस्रसः । इति नाभिदेशम् १२

13 भूर्भुवः सुवः सुप्रजाः ...{Loading}...

भूर्भुवः सुवः सुप्रजाः प्रजया भूयासं सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः । इत्येनमभिमन्त्र्य । भूरृक्षु त्वाग्नौ पृथिव्यां वाचि ब्रह्मणि ददेसौ । भुवो यजुःषु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेसौ । सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेसौ । इष्टस्ते प्रियो-सान्यसावनलस्य ते प्रियोसान्यसौ । इदं वत्स्यावः प्राण आयुषि वत्स्यावः प्राण आयुषि वसासौ । इति च १३

14 अथास्य दक्षिणेन हस्तेन ...{Loading}...

अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निरायुष्मान् । इति पञ्चभिः पर्यायैः १४

15 आयुष्टे विश्वतो दधत् ...{Loading}...

आयुष्टे विश्वतो दधत् । इति १५


  1. 5, 1. I read, pra su mṛtyuṃ yvyotana; comp. Mantra-Brāhmaṇa I, 6, 14 (Ṛg-veda I, 136, 1, &c.). As to the last Pāda, comp. Ṛg-veda III, 53, 20. ↩︎

  2. 2 seq. Comp. Gobhila II, 20, 21 seq.; Pāraskara II, 2, 6; Śāṅkhāyana II, 2, 4, &c. ↩︎

  3. Mātṛdatta, ‘As it is said below, “he pronounces his two names” (Sūtra 6), the student should here also pronounce his two names, for instance, “I am Devadatta, Kārttika.”’ ↩︎

  4. ‘His common (vyāvahārika) name and his Nakṣatra name.’ Mātṛdatta. ↩︎

  5. Ṛg-veda X, 9, 4. ↩︎

  6. The word which I have translated ‘draws . . . towards himself’ is the same which is also used in the sense of ‘he initiates him’ (upanayate). Possibly we should correct the text: dakṣiṇaṃ bāhum anv abhyātmam upanayate, ‘he turns him towards himself from left to right (literally, following his right arm).’ Comp. Śāṅkhāyana II, 3, 2. - Regarding the Mantra, comp. Śāṅkhāyana II, 2, 12, &c. ↩︎

  7. Śāṅkhāyana II, 2, 11; 3, 1, &c. ↩︎

  8. Śāṅkhāyana II, 3, 1; 4, 5. We ought to read apoऽśāna, instead of apoऽsānaḥ as the MSS. have. ↩︎

  9. Śāṅkhāyana II, 4, 1, &c. ↩︎

  10. The reading of the last Mantra is doubtful. Iṣṭatas should possibly be iṣṭas, but the genitive analasya, or, as some of the MSS. have, anaḷasya (read, analasasya?), points rather to a genitive like icchatas. If we write icchatas and analasasya, the translation would be: ‘May I be dear to thee, who loves me, N.N.! May I be dear to thee, who art zealous, N.N.!’ Comp. Śāṅkhāyana II, 3, 3. ↩︎

  11. Comp. above, Sūtra 9. ↩︎