०४

01 कुमारमास्थापयति आतिष्ठेममश्मानमश्मेव त्वं ...{Loading}...

कुमारमास्थापयति । आतिष्ठेममश्मानमश्मेव त्वं स्थिरो भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः । इति १

02 अथैनमहतं वासः परिधापयति ...{Loading}...

अथैनमहतं वासः परिधापयति पूर्वं निधाय । या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितोददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिदातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व । इति २

03 परिधाप्याभिमन्त्रयते परीदं वासो ...{Loading}...

परिधा-प्याभिमन्त्रयते । परीदं वासो अधिधाः स्वस्तयेभूरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चाय्यो विभजा स जीवन् । इति ३

04 अथैनम् मेखलया नाभिदेशे ...{Loading}...

अथैनं मेखलया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति । द्विरित्येके । या दुरिता परिबाधमाना शर्मवरूथे पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवानां सुभगा मेखलेयम् । इति ४

05 उत्तरतो नाभेस्त्रिवृतङ् ग्रन्थिङ् ...{Loading}...

उत्तरतो नाभेस्त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति ५

06 अथास्मा अजिनमुत्तरीयङ् करोति ...{Loading}...

अथास्मा अजिनमुत्तरीयं करोति । मित्रस्य चक्षुर्धरुणं धरीयस्तेजोयशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं धत्स्वासौ । अदितिस्ते कक्षां बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय । इति ६

07 कृष्णाजिनम् ब्राह्मणस्य रौरवं ...{Loading}...

कृष्णाजिनं ब्राह्मणस्य रौरवं राजन्यस्य बस्ताजिनं वैश्यस्य ७

08 अथैनम् परिददाति परीममिन्द्र ...{Loading}...

अथैनं परिददाति । परीममिन्द्र ब्रह्मणे महे श्रोत्राय दध्मसि । अथैनं जरिमा णयेज्ज्योक्श्रोत्रे अधिजागरत् । इति ब्राह्मणम् । परीममिन्द्र ब्रह्मणे महे राष्ट्राय दध्मसि । अथैनं जरिमा णयेज्ज्योग्राष्ट्रे अधिजागरत् । इति राजन्यम् । परीममिन्द्र ब्रह्मणे महे पोषाय दध्मसि । अथैनं जरिमा णयेज्ज्योक्पोषे अधिजागरत् । इति वैश्यम् ८

09 तमपरेणाग्निमुदञ्चमुपवेश्य हुतोच्छेषणम् प्राशयति ...{Loading}...

तमपरेणाग्निमुदञ्चमुपवेश्य हुतोच्छेषणं प्राशयति । त्वयि मेधां त्वयि प्रजाम् । इत्येतैः सन्नतैः ९

10 पृषदाज्यमेके प्राशयन्ति ...{Loading}...

पृषदाज्यमेके प्राशयन्ति १०

11 योगे योगे तवस्तरम् ...{Loading}...

योगे योगे तवस्तरम् । इममग्न आयुषे वर्चसे कृधि । इति द्वाभ्यां प्राश्नन्तं समीक्षते ११

12 प्राशयन्त्येके ...{Loading}...

प्राशयन्त्येके १२

13 आचान्तमुपस्पर्शयित्वाभिमन्त्रयते शतमिन्नु शरदो ...{Loading}...

आचान्तमुपस्पर्शयित्वाभिमन्त्रयते । शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । इति १३


  1. 4, 1. Comp. Śāṅkhāyana I, 13, 12; Pāraskara I, 7, 1. ↩︎

  2. Pāraskara I, 4, 13. 1 2; Atharva-veda II, 13, 2. 3 (XIX, 24). Instead of paridātavā u, we ought to read, as the Atharva-veda has, paridhātavā u. ↩︎

  3. Atharva-veda II, 13, 3; XIX, 24, 6. ↩︎

  4. Śāṅkhāyana II, 2, 1; Pāraskara II, 2, 8. The text of the Mantra as given by Hiraṇyakeśin is very corrupt, but the corruptions may be as old as the Hiraṇyakeśi-sūtra itself, or even older. ↩︎

  5. I propose to correct jaṛṣṇu into caṛṣṇu. See Śāṅkhāyana II, 1, 30. ↩︎

  6. Śāṅkhāyana II, 1, 2. 4. 5, &c. ↩︎

  7. In the first hemistich I propose to correct pari dadhmasi into pari dadmasi. The verse seems to be an adaptation of a Mantra which contained a form of the verb pari-dhā (comp. Atharva-veda XIX, 24, 2); thus the reading pari . . . dadhmasi found in the MSS. may be easily accounted for. The second hemistich is very corrupt, but the Atharva-veda (loc. cit.: yathainaṃ jarase nayāt) shows at least the general sense. ↩︎

  8. The text of those Mantras runs thus, ‘On me may wisdom, &c.’; he alters them so as to say, ‘On thee,’ &c. ↩︎

  9. Regarding the term sprinkled butter,’ comp. Āśvalāyana-Gṛhya IV, 1, 18. 19. ↩︎

  10. Ṛg-veda I, 89. 9. ↩︎