०३

01 सर्वदर्विहोमाणामेष कल्पः ...{Loading}...

सर्वदर्विहोमाणामेष कल्पः १

02 मन्त्रान्ते नित्यः स्वाहाकारः ...{Loading}...

मन्त्रान्ते नित्यः स्वाहाकारः २

03 अमन्त्रासु अमुष्मै स्वाहा ...{Loading}...

अमन्त्रासु । अमुष्मै स्वाहा । इति यथादेवतम् ३

04 भूः भुवः सुवः ...{Loading}...

भूः । भुवः । सुवः । इति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च ४

05 आयुर्दा अग्ने इत्येषा ...{Loading}...

आयुर्दा अग्ने । इत्येषा । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमम् । स्वाहा ५

06 इमम् मे वरुण ...{Loading}...

इमं मे वरुण । तत्त्वा यामि । त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयास्यया सन्मनसा हितः । अया सन्हव्यमूहिषेया नो धेहि भेषजम् । स्वाहा । प्रजापते । इत्येषा ६

07 यदस्य कर्मणीत्यरीरिचं यद्वा ...{Loading}...

Yad asya karmaNaH ...{Loading}...
विश्वास-प्रस्तुतिः

यद् अ॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒
यद् वा॒ न्यू॑नम् इ॒हाक॑रम् ।
अ॒ग्निष् टत् स्वि॑ष्ट॒कृद् वि॒द्वान्थ्
सर्वँ॒ स्वि॑ष्टँ॒ सुहु॑तं करोतु मे
स्वाहा॑ ।

मूलम्

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् ।
अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्त्सर्व॒ग्ग्॒ स्वि॑ष्टँ॒ सुहु॑तं करोतु मे ।

अग्नये स्विष्टकृते
सुहुतहुते सर्वहुत
आहुतीनां कामानां समर्धयित्रे स्वाहा ।

इत्युत्तरार्धपूर्वार्धेसंसक्तामितराभिराहुतीभिर्जुहोति ७

08 अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति ...{Loading}...

अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति पुरस्तात्स्विष्टकृतः ८

09 चित्तञ् च स्वाहा ...{Loading}...

चित्तं च स्वाहा । चित्तिश्च स्वाहा । इति जयाञ्जुहोति । चित्ताय स्वाहा । चित्तये स्वाहा । इति वा ९

10 अग्निर्भूतानामधिपतिः स मावतु ...{Loading}...

अग्निर्भूतानामधिपतिः स मावतु । इत्यभ्यातानान् १०

11 अस्मिन्ब्रह्मन्नस्मिन्क्षत्रे इत्यभ्यातानेष्वनुषजति ...{Loading}...

अस्मिन्ब्रह्मन्नस्मिन्क्षत्रे । इत्यभ्यातानेष्वनुषजति ११

12 पितरः पितामहाः इति ...{Loading}...

पितरः पितामहाः । इति प्राचीनावीती जुहोत्युपतिष्ठते वा १२

13 ऋताषाडृतधामा इति राष्ट्रभृतः ...{Loading}...

ऋताषाडृतधामा । इति राष्ट्रभृतः । पर्यायमनुद्रुत्य । तस्मै स्वाहा । इति पूर्वामाहुतिं जुहोति । ताभ्यः स्वाहा । इत्युत्तराम् १३

14 अग्रेणोत्तरम् परिधिसन्धिमश्मानन् निधाय ...{Loading}...

अग्रेणोत्तरं परिधिसन्धिमश्मानं निधाय दक्षिणेन पादेन १४


  1. 3, 2. Gobhila I, 9, 25. ↩︎

  2. Sāṅkhāyana I, 9, 18. ↩︎

  3. Śāṅkhāyana I, 12, 12. 13; Gobhila I, 9, 27. As to suvaḥ, the spelling of the Taittirīyas for svaḥ, see Indische Studien, XIII, 105. ↩︎

  4. 5, 6. In the second Mantra we should read vṛṇāno instead of gṛṇāno; comp. Atharva-veda II, 13, 1. As to the Mantras that follow, comp. Pāraskara I, 2, 8; Taittirīya Āraṇyaka IV, 20, 3. - Regarding the Mantra tvam Agne ayāsi (sic), comp. Taitt. Brāh. II, 4, 1, 9; Āśvalāyana-Śrauta-sūtra I, 11, 13; Kātyāyana-Śrauta-sūtra XXV, 1, 11; Indische Studien, XV, 125. ↩︎

  5. Āśvalāyana-Gṛhya I, 10, 23; Śatapatha Brāhmaṇa XI V, 9, 4, 24. ↩︎

  6. Comp. the next Sūtras and Pāraskara I, 5, 7-10. ↩︎

  7. Taittirīya Saṃhitā III, 4, 4. ↩︎

  8. Taittirīya Saṃhitā III, 4, 5. ↩︎

  9. See the end of the section quoted in the last note. ↩︎

  10. ‘He performs worship with that Mantra, wearing the sacrificial cord over his right shoulder, to the Manes. According to others, he worships Agni. But this would stand in contradiction to the words (of the Mantra).’ Mātṛdatta. ↩︎

  11. Taittirīya. Saṃhitā III, 4, 7. ‘To him’ (tasmai) is masculine, ’to them’ (tābhyaḥ) feminine. The purport of these words will be explained best by a translation of the first section of the Rāṣṭrabhṛt formulas: ‘The champion of truth, he whose law is truth, Agni is the Gandharva. His Apsaras are the herbs; “sap” is their name. May he protect this power of holiness and this worldly power. May they protect this power of holiness and this worldly power. To him svāhā! To them svāhā!’ ↩︎

  12. See above, section 2, § 13. ↩︎