०२

01 शम्याभिः परिदधाति ...{Loading}...

शम्याभिः परिदधाति १

02 अपरेणाग्निमुदीचीनकुम्बाम् मध्यमान् निदधाति ...{Loading}...

अपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति २

03 दक्षिणेनाग्निं संस्पृष्टाम् मध्यमया ...{Loading}...

दक्षिणेनाग्निं संस्पृष्टां मध्यमया प्राचीनकुम्बाम् ३

04 उत्तरेणाग्निं संस्पृष्टाम् मध्यमया ...{Loading}...

उत्तरेणाग्निं संस्पृष्टां मध्यमया प्राचीनकुम्बाम् ४

05 अपरेणाग्निम् प्राङ्मुख उपविशति ...{Loading}...

अपरेणाग्निं प्राङ्मुख उपविशति ५

06 दक्षिणतो यज्ञोपवीत्याचान्तः कुमार ...{Loading}...

दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते ६

07 अथ परिषिञ्चति ...{Loading}...

अथ परिषिञ्चति ७

08 अदितेनुमन्यस्व इति दक्षिणतः ...{Loading}...

अदितेनुमन्यस्व । इति दक्षिणतः प्राचीनम् ८

09 अनुमतेनुमन्यस्व इति पश्चादुदीचीनम् ...{Loading}...

अनुमतेनुमन्यस्व । इति पश्चादुदीचीनम् । सरस्वतेनुमन्यस्व । इत्युत्तरतः प्राचीनम् ९

10 देव सवितः प्रसुव ...{Loading}...

देव सवितः प्रसुव । इति सर्वतः प्रदक्षिणम् १०

11 परिषिच्येध्ममङ्क्त्वाभ्यादधाति अयन् त ...{Loading}...

परिषिच्येध्ममङ्क्त्वाभ्यादधाति । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेन्द्धि । वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय । स्वाहा । इति ११

12 अथ दर्व्या जुहोति ...{Loading}...

अथ दर्व्या जुहोति १२

13 उत्तरम् परिधिसन्धिमन्ववहृत्य दर्वीम् ...{Loading}...

उत्तरं परिधिसन्धिमन्ववहृत्य दर्वीम् । प्रजापतये मनवे स्वाहा । इति मनसा ध्यायन्दक्षिणाप्राञ्चमृजुं दीर्घं सन्ततं जुहोति १३

14 दक्षिणम् परिधिसन्धिमन्ववहृत्य इन्द्रा ...{Loading}...

दक्षिणं परिधिसन्धि-मन्ववहृत्य । इन्द्रा य स्वाहा । इति प्राञ्चमुदञ्चमृजुम् १४

15 आघारावाघार्याज्यभागौ जुहोति ...{Loading}...

आघारावाघा-र्याज्यभागौ जुहोति १५

16 अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे ...{Loading}...

अग्नये स्वाहा । इत्युत्तरार्धपूर्वार्धे । सोमाय स्वाहा । इति दक्षिणार्धपूर्वार्धे १६

17 तावन्तरेणेतरा जुहोति ...{Loading}...

तावन्तरेणेतरा जुहोति १७

18 युक्तो वह जातवेदः ...{Loading}...

युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान्पुरुषान्सनेम । स्वाहा । या तिरश्ची निपद्यसेहं विधरणी इति । तां त्वा घृतस्य धारयाग्नौ संराधनीं यजे । स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । इति १८


  1. 2, 1. The ‘pegs’ are the pieces of wood mentioned above, I, 19. ↩︎

  2. 7-10. Gobhila I, 3, 1 seq. The vocative Sarasvate instead of Sarasvatī is given by the MSS. also in the Khādira-Gṛhya 1, 2, 19. ↩︎

  3. As to the Mantra, compare Śāṅkhāyana II, 10, 4, &c. ↩︎

  4. 13, 14. The two oblations described in these Sūtras are the so-called Āghāras; see Sūtra 15, and Pāraskara I, 5, 3; Āśvalāyana I, 10, 13. Regarding the northern and the southern junction of the Paridhi woods, see above, Sūtras 3 and 4. According to Mātṛdatta, the words ’long, uninterrupted’ (Sūtra 13) are to be supplied also in Sūtra 14. ↩︎

  5. Āśvalāyana I, 10, 13; Śāṅkhāyana I, 9, 7, &c. As to the expressions uttarārdhapūrvārdhe and dakṣiṇārdhapūrvārdhe, comp. Gobhila I, 8, 14 and the note. ↩︎

  6. I.e. between the places at which the two ‘Ājya portions’ are offered. Comp. Śāṅkhāyana I, 9, 8. ↩︎

  7. Śatapatha Brāhmaṇa XIV, 9, 3, 3 (= Bṛhad Āraṇyaka VI, 3, 1; S.B.E., vol. xv, p. 210); Mantra-Brāhmaṇa I, 5, 6. ↩︎