सङ्कल्पः
श्रीगणपत्यन्तर्गतश्रीविश्वरूपिणे श्रीविष्णवे नमः । इति संस्मृत्य।
आचम्य, प्राणानायम्य, देशकालौ सङ्कीर्त्य,
एवङ्गुणविशेषणविशिष्टायां शुभतिथौ याज्य-अग्नि {सूर्य-प्रजापत्य्-अन्तर्गत–भारती-रमण–मुख्य-प्राणान्तर्गत–हरिणी-पति परशु-राम-प्रेरणया हरिणी-पति परशुरामप्रीत्यर्थं सायं {प्रातः} {मुख्यकालातिक्रम-निमित्त-दोष-प्रायश्चित्त-पूर्वकं } {तण्डुलैः} औपासनहोमं करिष्ये ॥
आह्वानम्
‘जुष्टोदमूना’ इति मन्त्रस्य आत्रेयो वसुश्रुतोऽग्निस् त्रिष्टुप्। अग्न्याह्वाने विनियोगः ।
ॐ जुष्टो दमूना अतिथिर् दुरोण इमं नौ यज्ञमुप याहि विद्वान्। विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि॥
‘एह्यग्ने’ इति मन्त्रस्य राहुगणो गोतमो ऽग्निस्त्रिष्टुप्। अग्न्यावाहने विनियोगः ।
ॐ एह्यग्न इह होता नि षीदादब्धः सु पुर एता भवा नः। अवतां त्वा रोदसी विश्वम॒न्वे यजामहे सौमनसाय देवान्॥
इत्यक्षतैरावाह्य ॥
अवरोहणम्
‘प्रत्यवरोह’ इति मन्त्रस्य हिरण्यगर्भो ऽग्निर् अष्टिः। अग्नि-प्रत्यवरोहणे विनियोगः ।
ॐ प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वहतु प्रजानन् । प्र॒जां पुष्टिं रयिमस्मासु धेह्या भव यजमानाय शंयोः ॥
ॐ भूर्भुवस्स्वरों ॥
समिधारोपितं द्विज-(योजक)-नामानमग्निं स्थण्डिल-मध्ये प्रतिष्ठापयामि ॥अग्निं प्रज्वलितं वन्दे
जातवेदं हुताशनम् ।
सुवर्णवर्णम् अनलं
समिद्धं विश्वतोमुखम् ॥
अग्नेर् ध्यानम्
‘चत्वारि श्रुङ्गा’ इति मन्त्रस्य गौतमो वामदेवोऽग्निस् त्रिष्टुप्। अग्निमूर्तिध्याने विनियोगः।
ॐ चत्वार शृङ्गा त्रयौ अस्य पादा द्वे शीर्ष स॒प्त हस्तासो अस्य। त्रिधा बद्धो वृषभो रौरवीति महो देवो मर्त्याँ आ विवेश॥
सप्तहस्तश् चतुः-श्रुङ्गः
सप्त-जिह्वो द्विशीर्षकः ।
त्रिपात् प्रसन्न-वदनः
सुखासीनः शुचिः स्मितः॥
स्वाहान् तु दक्षिणे पार्श्वे
देवीं वामे स्वधां तथा ।
बिभ्रन् दक्षिणहस्तैस् तु
शक्तिमन्नं सृचं सृवम् ॥तोमर व्यजनं वामैर्
घृतपात्रञ् च धारयन् ।
मेषारूढो जटाबद्धो
गौरवर्णो महौजसः ॥
धूम्रध्वजो लोहिताक्षः
सप्तार्चिर् विश्वतोमुखः {सर्वकामदः}।
आत्माभिमुखम् आसीनः
एवंरूपो हुताशनः॥
संस्कारहोमः
संस्कारहोमे विनियोगः।
व्याहृति-होमः ...{Loading}...
व्यस्त-समस्तव्याहृतीनां विश्वामित्र-जमदग्नि-भरद्वाज-प्रजापतय ऋषयः ।
अग्नि-वायु-सूर्य-प्रजापतयो देवताः ।
गायत्र्य् उष्णिग् अनुष्टुब् बृहत्यश् छन्दांसि।
…-होमे विनियोगः ।
ॐ भूः स्वाहा । अग्नये श्री-अनिरुद्धाय इदं न मम ॥
ॐ भुवः स्वाहा । वायवे श्रीप्रद्युम्नाय इदं न मम ॥
ॐ स्वः स्वाहा । सूर्याय श्रीसङ्कर्षणाय इदं न मम ॥
ॐ भूर्भुवःस्वः स्वाहा । प्रजापतये श्रीवासुदेवाय इदं न मम ॥
मूलमन्त्रेण अष्टवारं आज्येन हुत्वा,
अग्न्य्-अन्तर्गत मुख्यप्राणं ध्यायामि ।
उद्यद्-रवि-प्रकरसन्निभम् अच्युताङ्के
स्वासीनम् अस्य् अनुति-नित्य-वचः-प्रवृत्तिम् ।
ध्यायेद् गदाभयकरं सकृताञ्जलिं तं
प्राणं यथेष्ट-तनुम् उन्नत-कर्म-शक्तिम् ॥
मुख्यप्राणान्तर्गत हरिणीपति-परशुरामं ध्यायामि ।
अङ्गार-वर्णम् अभितोण्डबहिः प्रभाभिर्
व्याप्तं परश्वध-धनुर्-धरम् एकवीरम् ।
ध्यायेद् अजेश-पुरुहूत-मुखैस् स्तुवद्भिः
आवीतम् आत्म-पदवीं प्रतिभासयन्तम् ॥
अग्निसम्मुखीकरणम्
‘एष हि देवः’ इति मन्त्रस्य हिरण्यगर्भो ऽग्निस्त्रिष्टुप्। अग्निसम्मुखीकरणे विनियोगः ।
ॐ एष हि देवः प्रदिशोनु सर्वाः
पूर्वो हि जातस्स उ गर्भे अन्तः । स विजाय॑मानस्स जनिष्यमाणः
प्रत्यङ्मुखास्तिष्ठति विश्वतोमुखः ॥अग्ने वैश्वानर शाण्डिल्यगोत्र मेषारूढ मेषध्वज! अग्न्यन्तर्गत भारती-रमण–मुख्य-प्राणान्तर्गत–हरिणी-पति-परशुराम! मम सम्मुखो वरदो भव । इति साक्षतोदक-पाणिभ्यां अग्निं सम्मुखीकृत्य ।
परिसमूहनम्
अग्नेर् अष्टाङ्गुल-परिमिते देशे प्रदक्षिणं समन्तात् सोदकेन पाणिना
ईशानीं दिशम् आरभ्य
ईशानी-पर्यन्तं
त्रिः परिसमूह्य ॥
परिस्तरणम्
{ चतुर्भिश्चतुर्भिर्दभैः प्राच्यादिषु परिस्तृणीयात् ।
तत्र प्राच्या प्रतीच्यां च उदगग्राः ।
दक्षिणस्यामुदीच्यां च प्रागग्राः ।
पूर्व-पश्चिम-परिस्तरण-मूलयोर् उपरि दक्षिणपरिस्तरणम् ।
उत्तर-परिस्तरणं तु तत्-तद्-अग्रयोर् अधस्तात् कृत्वा }
परिषेचनम्
अग्नेर् ईशानतस् त्रिर् अम्भसा परिषिञ्चेत् ।
हविः-संस्कारः
अग्नेर् उत्तरतो दर्भेषु पात्रस्थं हविर् निधाय ।
ज्वलता दर्भोल्मुकेन अवज्वल्य ।
त्रिः प्रोक्ष्य ।
तेनैव त्रिः पर्यग्नि कृत्वा,
तद् उल्मुकं निरस्य,
अपः स्पृष्ट्वा ।
अग्नेः पश्चिमत आस्तीर्णेषु कुशेषु समिधा सह हविर् निधाय ।
अग्न्यलङ्करणम्
अग्न्यलङ्करणं कुर्यात् ।
‘विश्वानि न’ इति तिसृणाम् आत्रेयो वसुश्रुतो ऽग्निस्त्रिष्टुप्। द्वाभ्याम् अर्चने, अन्त्यया प्रार्थने विनियोगः ।
ॐ विश्वानि नो दुर्गहा जातवेदः॥ ॐ सिन्धुं न नावा दुरितात पर्षि॥
ॐ अग्ने अत्रिवन्नमसा गृणानः ॥ ॐ अस्माकं बोध्यविता तनूनाम्॥
यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्य मो जोहवीमि॥ ॐ जातवेदो यशो अस्मासु धेहि ॥ ॐ प्रजाभिरग्ने अमृतत्वम॑श्याम्॥
ॐ यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम्। ॐ अश्विनं स पुत्रिणं वीरवन्तं ॥ ॐ गोमन्तं रयिं नशते स्वस्ति॥
इत्यग्न्यलङ्करणं कृत्वा,
आत्मानञ् चालङ्कृत्य,
नैवेद्यं समर्प्य
हस्तं प्रक्षाल्य ।
आहुति-साद्गुण्य-कल्पनम्
आहुति-साद्गुण्यार्थम् आज्यहोमे विनियोगः। (प्रातः सायम् आहुत्योर् इदम् पृथक्।)
व्याहृति-होमः ...{Loading}...
व्यस्त-समस्तव्याहृतीनां विश्वामित्र-जमदग्नि-भरद्वाज-प्रजापतय ऋषयः ।
अग्नि-वायु-सूर्य-प्रजापतयो देवताः ।
गायत्र्य् उष्णिग् अनुष्टुब् बृहत्यश् छन्दांसि।
…-होमे विनियोगः ।
ॐ भूः स्वाहा । अग्नये श्री-अनिरुद्धाय इदं न मम ॥
ॐ भुवः स्वाहा । वायवे श्रीप्रद्युम्नाय इदं न मम ॥
ॐ स्वः स्वाहा । सूर्याय श्रीसङ्कर्षणाय इदं न मम ॥
ॐ भूर्भुवःस्वः स्वाहा । प्रजापतये श्रीवासुदेवाय इदं न मम ॥
समित्-समर्पणम्
एकां समिधम् आदाय
‘प्रजापतय’ इति मनसा स्मरन् ‘स्वाहे’त्य् उच्चार्य अग्नौ प्रक्षिपेत् ।
ॐ प्रजापतये स्वाहा । प्रजापतय इदं न मम ॥
अप उपस्पृष्य ॥
औपासनम्
समिधि दीप्तायां
दक्षिण-पाणिना तण्डुलानाम् अर्धम् आदाय
सव्य-पाणिं हृदि निधाय
समिधो मूलतो द्व्यङ्गुल-प्रदेशे
अङ्गुल्य्-उत्तर-पार्श्वेन
विधूम-ज्वालाग्नौ जुहुयात् ।
सायम्
कालातीत-प्रायश्चित्तम्
{सायम्} काले अतीते आज्यं संस्कृत्य
सृचि चतुर्-गृहीतं गृहीत्वा
ॐ दोषावस्तर् नमः स्वाहा । दोषवस्त इदं न मम ॥
इति एकवारं आज्यं हुत्वा,
प्रधानहोमः
{शत-तण्डुलैः}
ॐ अग्नये स्वाहा । अग्नय इदं न मम ॥
अवशिष्टं सर्वमादाय “प्रजापतय” इति प्रजापतिपदं मनसा स्मरन् स्वाहेत्युच्चार्य ,
{शताधिकतण्डुलैः} पूर्वाहुतिसंसर्गमकुर्वन् तद्-उत्तरतो जुहुयात्।
ॐ प्रजापतये स्वाहा । प्रजापतय इदं न मम ॥
संस्कारहोमे विनियोगः।
व्याहृति-होमः ...{Loading}...
व्यस्त-समस्तव्याहृतीनां विश्वामित्र-जमदग्नि-भरद्वाज-प्रजापतय ऋषयः ।
अग्नि-वायु-सूर्य-प्रजापतयो देवताः ।
गायत्र्य् उष्णिग् अनुष्टुब् बृहत्यश् छन्दांसि।
…-होमे विनियोगः ।
ॐ भूः स्वाहा । अग्नये श्री-अनिरुद्धाय इदं न मम ॥
ॐ भुवः स्वाहा । वायवे श्रीप्रद्युम्नाय इदं न मम ॥
ॐ स्वः स्वाहा । सूर्याय श्रीसङ्कर्षणाय इदं न मम ॥
ॐ भूर्भुवःस्वः स्वाहा । प्रजापतये श्रीवासुदेवाय इदं न मम ॥
प्रातः
कालातीत-प्रायश्चित्तम्
{प्रातः} काले अतीते आज्यं संस्कृत्य सृचि चतुर्-गृहीतं गृहीत्वा
ॐ प्रातर्-वस्तर् नमस् स्वाहा । प्रातर्वस्त इदन्न मम ॥
इत्येकवारं आज्यं हुत्वा,
प्रधानहोमः
{शततण्डुलैः}
ॐ सूर्याय स्वाहा । सूर्याय इदं न मम ॥
अवशिष्टं सर्वमादाय ‘प्रजापतय’ इति प्रजापतिपदं मनसा स्मरन् स्वाहेत्युच्चार्य, {शताधिकतण्डुलैः पूर्वाहुतिसंसर्गमकुर्वन् तदुत्तरतो जुहुयात्
ॐ प्रजापतये स्वाहा । प्रजापतय इदं न मम ॥
‘यत्र वेत्थेति’ मन्त्रस्य आत्रेयो वसुश्रुतो वनस्पतिर्गायत्री आहतिसंसर्गप्रायश्चित्तसमिद्धोमे विनियोगः।
समिद्धोमः
ॐ यत्र वेत्थ वनस्पते देवानां गुह्या नामानि। तत्र हव्यानि गामय स्वाहा ॥
वनस्पतिभ्य इदं न मम ॥ इत्येकां समिधं हुत्वा ॥
सर्वप्रायश्चित्ताज्यहोमः
सर्वप्रायश्चित्ताज्यहोमे विनियोगः।
व्याहृति-होमः ...{Loading}...
व्यस्त-समस्तव्याहृतीनां विश्वामित्र-जमदग्नि-भरद्वाज-प्रजापतय ऋषयः ।
अग्नि-वायु-सूर्य-प्रजापतयो देवताः ।
गायत्र्य् उष्णिग् अनुष्टुब् बृहत्यश् छन्दांसि।
…-होमे विनियोगः ।
ॐ भूः स्वाहा । अग्नये श्री-अनिरुद्धाय इदं न मम ॥
ॐ भुवः स्वाहा । वायवे श्रीप्रद्युम्नाय इदं न मम ॥
ॐ स्वः स्वाहा । सूर्याय श्रीसङ्कर्षणाय इदं न मम ॥
ॐ भूर्भुवःस्वः स्वाहा । प्रजापतये श्रीवासुदेवाय इदं न मम ॥
समापनम्
प्रागादिपरिस्तरणानि उत्तरे विसृजेत् ।
परिसमूहन-पर्युक्षणे कृत्वा विश्वानिन इति अग्निं गन्धादिभिश्च पूजयित्वा
उपस्थानं कुर्यात् ॥
अग्न्यलङ्करणम्
‘विश्वानि न’ इति तिसृणामात्रेयो वसुश्रुतोऽग्निस्त्रिष्टुप् द्वाभ्यामर्चने, अन्त्यया प्रार्थने विनियोगः ।
ॐ विश्वानि नो दुर्गहा जातवेदः॥ ॐ सिन्धुं न नावा दुरितात पर्षि॥
ॐ अग्ने अत्रिवन्नमसा गृणानः ॥ ॐ अस्माकं बोध्यविता तनूनाम्॥
यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्य मो जोहवीमि॥ ॐ जातवेदो यशो अस्मासु धेहि ॥ ॐ प्रजाभिरग्ने अमृतत्वम॑श्याम्॥
ॐ यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम्। ॐ अश्विनं स पुत्रिणं वीरवन्तं ॥ ॐ गोमन्तं रयिं नशते स्वस्ति॥
अग्न्युपस्थानम्
‘अग्न आयूंषी’ति तिसृणां शतंवैखानस ऋषयः । अग्निः पवमानो देवता । गायत्री छन्दः अग्न्युपस्थाने विनियोगः।
ॐ अग्न आयूंषि पवस आ सुवोर्जमिषं च नः। आरे बांधस्व दुच्छुनाम्॥
अग्निर्ऋषिः पवमानः पाञ्चजन्यः पुरोहितः। तमीमहे महागयम्॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्। दधयिं मयि पोषम्॥
‘अग्नेत्वं न’ इति चतसॄणां गोपायना लोपायना वा बन्धुः सुबन्धुः श्रुतबन्धुः विप्रबन्धुः चैकैकर्चा ऋषयः
द्विपदाविराट्छन्द
अग्निर् देवता।
अग्न्युपस्थाने विनियोगः ।
ॐ अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः॥
वसुर् अग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः॥
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः॥
स नौ बोधि श्रुधी हव॑मुरुष्या णौ अघाय॒तः समस्मात्॥
‘तन्तुं तन्वन्’ इत्यस्य मन्त्रस्य देवाः अग्निर्जगती अग्न्युपस्थाने विनियोगः ।
ॐ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः प॒थो रक्ष धिया कृतान्। अनुल्बणं वयत जोगुवामो मनुर्भव जनया दैव्यं जनम्॥
सूर्योपस्थानम्
‘सूर्यो नो दिवस्पात्व्’ इत्यस्य मन्त्रस्य, सौर्यश्-चक्षुस्, सूर्यो, गायत्री।
सूर्योपस्थाने विनियोगः ।
ॐ सूर्यो नो दिवस् पातु वातौ अन्तरिक्षात्। अग्निर्नः पार्थिवेभ्यः॥
उदुत्यमिति मन्त्रस्य - काण्वः प्रस्कण्वः सूर्यो गायत्री। सूर्योपस्थाने विनियोगः ।
ॐ उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय॒ सूर्यम्॥
चित्रं देवानामिति मन्त्रस्य - अङ्गीरसः कुत्सः सूर्यस्त्रिष्टुप्। सूर्योपस्थाने विनियोगः ।
ॐ चित्रं देवानामुदादनीकं चक्षुर्मित्रस्य॒ वरुणस्याग्नेः। आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च॥
नमो मित्रस्येति मन्त्रस्य सूर्यो ऽभितपाः, सूर्यो, जगती। सूर्योपस्थाने विनियोगः ।
ॐ नमो मित्रस्य॒ वरुणस्य॒ चक्षसे महो देवाय तदृतं संपर्यत। दूरदृशे देवाताय केतवे दिवस्पुत्राय सूर्याय शंसत॥
प्रजापत्युपस्थानम्
हिरण्यगर्भ इति मन्त्रस्य हिरण्यगर्भः प्रजापतिस्त्रिष्टुप् प्रजापत्युपस्थाने विनियोगः ।
ॐ हिरण्यगर्भः समवर्तता भूतस्य जातः पतिरेक आसीत्। स दोधार पृथिवीं द्यामुतेमां कस्मै दे॒वाय॑ हविर्षा विधेम॥
प्रजापते इति मन्त्रस्य हिरण्यगर्भः प्रजापतिस्त्रिष्टुप् प्रजापत्युपस्थाने विनियोगः ।
ॐ प्रजापते न त्वदेतान्य॒न्यो विश्वा जातान पर ता बभूव। यत्कामास्ते जुहुमस्तन्नौ अस्तु वयं स्याम पतयो रयीणाम्॥
इति उपस्थाप्य उपविश्य भस्मधारणं कुर्यात् ।
भस्मधारणम्
मानस्तोकेति मन्त्रस्य कुत्सो रुद्रो जगती। विभूतिग्रहणे विनियोगः।
ॐ मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः। वीरान्मा नौ रुद्र भामतो वधीह॒विष्म॑न्तः सदमित्त्वा हवामहे ॥
इति मन्त्रेण गृहीत्वा ॥
ॐ त्र्यायुषं जमदग्नेरिति ललाटे ॥
ॐ कश्यपस्य त्र्यायुषमिति कण्ठे ॥
ॐ अगस्त्यस्य त्र्यायुषमिति नाभौ ॥
ॐ यद्देवानां त्र्यायुषमिति दक्षिणसकन्धे ॥
ॐ तन्मे अस्तु त्र्यायुषमिति वामस्कधे ॥
ॐ सर्वमस्तु शतायुषमिति शिरसि ॥
ॐ बलायुषमिति सर्वाङ्गे ॥ इति धारयेत् ॥
प्रार्थनम्
चम इत्यस्य मन्त्रस्य सारस्वतोऽग्निस्त्रिष्टुप् प्रार्थने विनियोगः ।
ॐ च मे स्वरश्चमे यज्ञोप च ते नमश्च ।
यत्ते न्यूनं तस्मै त उपयत्तेति रिक्तं तस्मै ते नमः ॥
स्वस्ति ।
श्रद्धां मेधां यशः प्रज्ञां विद्या बुद्धिं श्रियं बलम् । आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन ॥
देहि मे हव्यवाहन ॐ नम इति ।
चतुस्सागरपर्यन्तं.. इति गोत्रमुच्चार्य नमस्कारं कृत्वा । एभिर्मन्त्रैः प्रदक्षिणं कुर्यात् ॥
ॐ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान्।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम॥
अग्ने त्वं पारया नव्यौ अस्मान्स्वस्तिभिरत दुर्गाणि विश्वा।
पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय॒ शं योः॥
अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः।
पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र॥
पाहि नौ अग्ने पायुभिरजस्ररुत प्रिये सदन आ शुशुक्वान्।
मा ते भयं जरतारं यविष्ठ नूनं विदन्मापरं सहस्वः॥
मा नौ अग्नेऽव सृजो अघााविष्यवै रिपर्व दुच्छुनायै।
मा दुत्वते दशते मादतै नो मा रीषते सहसाव॒न्परा दाः॥
नमस्ते गार्हपत्याय नमस्ते दक्षिणाग्नये ।
नम आहवनीयाय महावेधै नमोनमः ॥सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमः ।
शतकृत्वस्ते नमः । सहस्र-कृत्वस्ते नमः । आसहस्रकृत्वस्ते नमः । परिमितकृत्वस्ते नमः । अपरिमितकृत्वस्ते नमः । नमस्ते अस्तु मा मा हिंसीः ॥ॐ अनृणा अस्मिन्नृणाः परस्मिंस्तृतीये लोके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः सर्वान्पथो अनृणा अक्षियेम ॥
अग्न्यारोपणम्
अयन्त इत्यस्य मन्त्रस्य गाधिपुत्रो विश्वामित्रोऽग्निस्त्रिष्टुप् - अग्न्य्-आरोपणे वियोगः ।
ॐ अयं ते योनिर्ऋत्वियो यतो जातो अरौचथाः। तं जानन्नन्न आ सीदाा नो वर्धा गिरः॥
इत्यग्निं समिधि समारोप्य ॥
प्रायश्चित्तम्
प्रमादात्कुर्वतां कर्म
प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः
संपूर्णः स्यादिति श्रुतिः ॥
प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम् ॥
स्वरेण वर्णेन च यद्विहीनं
तथैव हीनं क्रिययापि यच्च ।
यच्चातिरिक्तं मम तत्क्षमस्व
तदस्तु चाग्ने परिपूर्णमेतत् ॥
यस्य स्मृत्या च नामोक्त्या
तपो यज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति
सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन । यत्कृतन्तु मया देव
परिपूर्णं तदस्तु मे ॥
अनेन सायं {प्रातः} औपासनहोमेन याज्य-अग्नि-सूर्य-प्रजापत्य्-अन्तर्गत–भारतीरमण-मुख्यप्राणान्तर्गत–हरिणी-पतिपरशुरामः प्रीयतां, प्रीतो भवतु ॥ श्रीकृष्णार्पणमस्तु ।
॥ इति औपासनविधिः॥
विच्छेदे
दिनत्रयविच्छेदे
‘तन्तुं तन्वन्’ इत्यस्य देवाः अग्निर्जगती, अग्न्युपस्थाने विनियोगः ।
ॐ तन्तुं तन्वन् रजसो भानुमन्विहि ज्योतिष्मतः प॒थो रक्ष धिया कृतान्।
अनुल्बणं वयत जोगुवामो मनुर्भव जना दैव्यं जनम्॥देवेभ्य अग्नय इदं न मम ॥
सप्तदिनविच्छेदे
‘अयाश्चेति’ विमदोया अग्निः पतिः सप्तदिनविच्छेदप्रायश्चित्ताज्यहोमे विनियोगः।
ॐ अयाश्चाग्नेस्यनभिशस्तीश्च सत्यमित्वमया असि ।
अयासावय॑सा कृतोयासन्हव्यमूहिषयानो धेहि भेषजं स्वाहा ॥
अयासेऽग्नय इदं न मम ॥
दशदिनविच्छेदे
ॐ मनो ज्योतिर्जुषामाज्यं विच्छिन्नं यज्ञं समिमं दधातु । या दृष्टा उषसौ नम्रर्चश्च ताः सं दधामि हविषा घृतेन ॥
उषसो निमृग्भ्य इदं न मम॥