Source: here.
A prayoga of the Hiraṇyakeśin-s
विस्तारः (द्रष्टुं नोद्यम्)
To our knowledge, the Hiraṇyakeśin branch of the Taittirīyaka-s is today only found in pockets in Mahārāṣṭra and the Drāviḍa states. While they follow the Taittirīya-śruti like other Taittirīyaka-s, they additionally have their own unique mantrapāṭha furnished with its own little Ṛksaṃhitā.+++(5)+++
They have a unique procedure for the gṛhya rite of Puṇyāhavācana, which combines both Vaidika and laukika, i.e., Paurāṇika elements. A Hiraṇyakeśin from the Marahaṭṭa country, who was unaware of their mantrapāṭha, wanted advice on performance of the Puṇyāhavācana and Mātṛkā- and laghu-deva-pujā-s for which he had a short prayoga-paddhati handed down in his family, but did not know some of the mantra-s specified only by pratīka therein. Hence, we used his paddhati to spell out all the mantra-s (without svara-s for the Vaidika ones). We present it here as it has some notable features.
Overview (द्रष्टुं नोद्यम्)
The paddhati itself is similar to a longer version we had seen in the manual of a learned brāhmaṇa from the same region (it borrows from Bodhāyana in multiple places where evidently the Hiraṇyakeśin counterpart was either absent or sketchy). The longer version differs from the below in packing several additional Vaidika mantra-s into the Puṇyāha recitation. At the end of the rite, both this short paddhati and the long one I had seen earlier provide a Mātṛkā-pujā without details of essentials such as prāṇapratiṣṭhā and ṣoḍaśopacāra-pūjā (the longer manual has prāṇapratiṣṭhā independently as a section later in the text). The long manual follows this up with a nāndī-prayoga and an aṅkurāropaṇa. Our interlocutor’s short manual used mantra-s corresponding to aṅkurāropaṇa for a laghu-deva-pūjā to the five gods Prajāpati, Indra, Yama, Varuṇa and Soma, followed by a tarpaṇa to longer list of deities. This longer list of deities is offered āhuti-s as part of the Grahamakha (the planetary fire-rite of the Hiraṇyakeśin-s) in the longer manual. His objective was to perform the Puṇyāhavācana and the subsequent Mātṛkā- and laghu-deva-pujā-s, which we were able to successfully advise him on. More generally, we believe that this could be a model for a generic deva-pujā by a non-sectarian lay Hindu.
अथ हिरण्यकेशिनाम् पुण्याहवाचन-विधिः॥
गणपति-स्थापनम्
हरिद्रा-बिम्बे गणपति-स्थापनम् -
०१ गणानां त्वा ...{Loading}...
गणा᳓नां त्वा गण᳓पतिं हवामहे
कविं᳓ कवीना᳓म् उपम᳓+++(←मा माने)+++-श्रवस्+++(=अन्न)+++-तमम् +++(इति बहुव्रीहिः)+++ ।
ज्येष्ठ-रा᳓जं ब्र᳓ह्मणां ब्रह्मणस्-पत आ᳓ नः
शृण्व᳓न्न् ऊति᳓भिः सीद सा᳓दनम् ॥+++(5)+++
पुष्पाञ्जलिं दत्वा सर्वोपचारैः संपूज्य -
मन्त्र-हीनं क्रिया-हीनं भक्ति-हीनं गजानन ।
यत् पूजितं मया देव परिपूर्णं तद् अस्तु मे ॥
विघ्नेश्वराय वरदाय सुर-प्रियाय
लम्बोदराय विकटाय गजाननाय ।
विनायकाय श्रुति-यज्ञ-विभूषिताय
गौरी-सुताय गण-नाथा नमो नमस् ते ॥
विस्तारः (द्रष्टुं नोद्यम्)
Notes: This section is the classic invocation of Vināyaka in a clod of turmeric. It became a staple opening for smārta rites with the rise of the Paurāṇika register of the religion. Hence, this part can be assigned to the classic Paurāṇika period.
कलष-स्थापनम्
कलश-त्रयं स्थापयेत् ।
१३ मही द्यौः ...{Loading}...
मही᳓ द्यौः᳓ पृथिवी᳓ च
न इमं᳓ यज्ञं᳓ मिमिक्षताम् ।
पिपृतां᳓ नो भ᳓रीमभिः+++(=भरणैः)+++ ॥
तयोः पञ्चरत्नानि प्रक्षिपेत् -
०४ युवा सुवासाः ...{Loading}...
यु᳓वा सुवा᳓साः प᳓रिवीत +++(यूप)+++ आ᳓गात्
स᳓ उ श्रे᳓यान् भवति जा᳓यमानः ।
तं᳓ धी᳓रासः कव᳓य उ᳓न्नयन्ति
स्वाध्यो३᳓+++(=सु+आ+धियः)+++ म᳓नसा देवय᳓न्तः+++(=देवकामाः)+++ ॥
कलशोपरि वस्त्रवेष्टनं कृत्वा -
४९ पूर्णा दर्वि ...{Loading}...
पू॒र्णा द॑र्वि॒ परा॑ पत॒
सुपू॑र्णा॒ पुन॒राप॑त।
व॒स्नेव॒+++(=वैश्यवत्)+++ वि॒क्री॑णावहा॒
इ॒षम् ऊर्जँ॑ शतक्रतो ॥४९॥
आवाहनम्
कलशे वरुणस्यावाहनम् :
११ तत्त्वा यामि ...{Loading}...
त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥
विस्तारः (द्रष्टुं नोद्यम्)
Notes: This part features the installation of the pitchers and the invocation of the god Varuṇa in them. It follows the general pattern seen across smārta rites of other traditions. Given the importance of the god Varuṇa in the Indo-Iranian tradition, some version of it could have gone back to an early predecessor of smārta household rites.
कलश-मुखे अप आवाहयेत् :
सर्वे समुद्राः सरितस्
तीर्थानि जलदा नदाः ।
आयान्तु मम शान्त्य्-अर्थं
दुरित-क्षय-कारकाः ॥
अभिमन्त्रणम्
०८ द्रविणोदा द्रविणसस्तुरस्य ...{Loading}...
द्रविणोदा᳓ द्र᳓विणसस् तुर᳓स्य+++(=त्वरमाणस्य [युद्धे])+++
द्रविणोदाः᳓ स᳓-नरस्य प्र᳓ यंसत् ।
द्रविणोदा᳓ वीर᳓वतीम् इ᳓षं नो
द्रविणोदा᳓ रासते दीर्घ᳓म् आ᳓युः ॥
१९ नवोनवो भवति ...{Loading}...
न᳓वोनवो भवति जा᳓यमानो᳓
ऽह्नां केतु᳓र् उष᳓साम् एत्य् अ᳓ग्रम् +++(कृष्णपक्षे)+++।
भागं᳓ +++(सोमपाभ्यो)+++ देवे᳓भ्यो वि᳓ दधात्य् आय᳓न्
प्र᳓ चन्द्र᳓मास् तिरते+++(=वर्धयति)+++ दीर्घ᳓म् आ᳓युः ॥१९
०८ द्रविणोदा द्रविणसस्तुरस्य ...{Loading}...
द्रविणोदा᳓ द्र᳓विणसस् तुर᳓स्य+++(=त्वरमाणस्य [युद्धे])+++
द्रविणोदाः᳓ स᳓-नरस्य प्र᳓ यंसत् ।
द्रविणोदा᳓ वीर᳓वतीम् इ᳓षं नो
द्रविणोदा᳓ रासते दीर्घ᳓म् आ᳓युः ॥
प्रधानाङ्गम्
शान्तिर् अस्तु १ ।
पुष्टिर् अस्तु २ ।
तुष्टिर् अस्तु ३ ।
वृद्धिर् अस्तु ४ ।
अविघ्नम् अस्तु ५ ।
आयुष्यम् अस्तु ६ ।
आरोग्यम् अस्तु ७ ।
शिवं कर्मास्तु ८ ।
कर्म-समृद्धिर् अस्तु ९ ।
धर्म-समृद्धिर् अस्तु १० ।
वेद-समृद्धिर् अस्तु ११ ।
शास्त्र-समृद्धिर् अस्तु १२ ।
पुत्र-समृद्धिर् अस्तु १३ ।
धन-धान्य-समृद्धिर् अस्तु १४ ।
इष्ट-संपद् अस्तु १५ ।
अरिष्ट-निरसनम् अस्तु १६ ।
यत् पापं तत् प्रतिहतम् अस्तु १७ ।
यच् छ्रेयस् तद् अस्तु १८ ।
उत्तरे कर्मण्य् अविघ्नम् अस्तु १९ ।
उत्तरोत्तरम् अहर् अहर् अभिवृद्धिर् अस्तु २० ।
उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् २१ ।
तिथि-करण-मुहूर्त-नक्षत्र-सम्पद् अस्तु २२ ।
तिथि-करण-मुहूर्त-नक्षत्र-ग्रह-लग्नाधि-देवताः प्रीयन्ताम् २३ ।
तिथि-करणे मुहूर्त-नक्षत्रे स-ग्रहे स-दैवते प्रीयेताम् २४ ।
दुर्गा-पाञ्चाल्यौ प्रीयेताम् २५ ।
अग्नि-पुरोगा विश्वे देवाः प्रीयन्ताम् २६ ।
इन्द्र-पुरोगा मरुद्गणाः प्रीयन्ताम् २७ ।
ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् २८ ।
विष्णु-पुरोगाः सर्वे देवः प्रीयन्ताम् २९ ।
माहेश्वरी-पुरोगा उमा-मातरः प्रीयन्ताम् ३० ।
वसिष्ठ-पुरोगा ऋषि-गणाः प्रीयन्ताम् ३१ ।
अरुन्धती-पुरोगा एकपत्न्यः प्रीयन्ताम् ३२ ।
ऋषयश् छन्दांस्य् आचार्या देवा वेदा यज्ञाश् च प्रीयन्ताम् ३३ ।
ब्रह्म च ब्राह्मणाश् च प्रीयन्ताम् ३४ ।
श्री-सरस्वत्यौ प्रीयेताम् ३५ ।
श्रद्धा-मेधे प्रीयेताम् ३६ ।
भगवती कात्यायनी प्रीयताम् ३७ ।
भगवती माहेश्वरी प्रीयताम् ३८ ।
भगवती पुष्टिकरी प्रीयताम् ३९ ।
भगवती तुष्टिकरी प्रीयताम् ४० ।
भगवती ऋद्धिकरी प्रीयताम् ४१ ।
भगवती वृद्धिकरी प्रीयताम् ४२ ।
भगवन्तौ विघ्न-विनायकौ प्रियेताम् ४३ ।
भगवान् स्वामी महासेनः
सपत्नीकः ससुतः सपार्षदः सर्व-स्थान-गतः प्रीयताम् ४४ ।
हरि-हर–हिरण्य-गर्भाः प्रीयन्ताम् ४५ ।
सर्वा ग्रम-देवताः प्रीयन्ताम् ४६ ।
सर्वा कुल-देवताः प्रीयन्ताम् ४७ ।
सर्वा इष्ट-देवताः प्रीयन्ताम् ४८ ।
हता ब्रह्म-द्विषः ४९ ।
हताः परिपन्थिनः ५० ।
हता अस्य कर्मणो विघ्न-कर्तारः ५१ ।
शत्रवः पराभवं यान्तु ५२ ।
शाम्यन्तु घोराणि ५३ ।
शाम्यन्तु पापानि ५४ ।
शाम्यन्त्व् ईतयः ५५ ।
शुभानि वर्धन्ताम् ५६ ।
शिवा आपः सन्तु ५७ ।
शिवा ऋतवः सन्तु ५८ ।
शिवा अग्नयः सन्तु ५९ ।
शिवा आहुतयः सन्तु ६० ।
शिवा ओषध्यः सन्तु ६१ ।
शिवा वनस्पतयः सन्तु ६२ ।
शिवा अतिथयः सन्तु ६३ ।
अहोरात्रे शिवे स्याताम् ६४ ।
निकामे निकामे नः पर्जन्यो वर्षतु ६५ ।
फलिन्यो न ओषधयः पच्यन्ताम् ६६ ।
योग-क्षेमो नः कल्पताम् ६७ ।
आदित्य-पुरोगाः सर्वे ग्रहाः प्रीयन्ताम् ६८ ।
भगवान् नारायणः प्रीयताम् ६९ ।
भगवान् पर्जन्यः प्रीयताम् ७० ।
भगवान् स्वामी महासेनः प्रीयताम् ७१ ॥
प्रतिवाक्यम् पात्रे जलम् पातयेत् ।
तत्र+ “अरिष्ट-निरसनम् अस्तु,
यत् पापं तत् प्रतिहतम् अस्तु”
इति द्वाभ्यां वाक्याभ्यां
“हता ब्रह्म-द्विष” इत्य् आदिभिः सप्तभिर् वाक्यैश् च
पात्राद् बहिर् उत्तरतो जलम् पातनीयम् ।
विस्तारः (द्रष्टुं नोद्यम्)
Notes: This section relates to the gratification of various deities with water offerings, which is related to what in other traditions is called the Paurāṇika-puṇyāhavacana. However, it differs from that in having a longer list of statements, including several unique ones. Despite its apparently Paurāṇika origins, we believe it has elements from a “transitional” period of the tradition as it includes certain Vaidika tendencies like the invocation of Agni and Indra with the Marut-s at the opening of the list of gods. It is also notable in multiple ways. It invokes Durgā together with Pāñcālī. This is a unique combination that is not seen elsewhere. It also seems to be the first mention of the Draupadī cult that still survives in popular form in pockets of the Drāviḍa country (e.g., among the Vahniyar-s). Interestingly, this Drāviḍa cult of Pāñcālī also intersects with their popular cult of Durgā. Also notable are the mentions of Skanda (and his parivāra). While the worship of Kumāra faded away in the Marahaṭṭa country, some remnants of it survived among the brāhmaṇa-s of the Koṅkaṇa-s, like the Peśva-s of the Marahaṭṭa empire. Given that many of these were Hiraṇyakeśin-s, it is possible that rites such as this kept the memory of his worship alive. The dual Vināyaka-s are also an interesting peculiarity of this ritual.
स्वस्ति-वचनम्
०६ स्वस्ति न ...{Loading}...
स्वस्ति᳓ न इ᳓न्द्रो वृद्ध᳓-श्रवाः
स्वस्ति᳓ नः पूषा᳓ विश्व᳓-वेदाः+++(=ज्ञानानि)+++ ।
स्वस्ति᳓ नस् ता᳓र्क्ष्यो अ᳓रिष्ट-नेमिः
स्वस्ति᳓ नो बृ᳓हस्प᳓तिर् दधातु ॥
११ स्वस्ति नो ...{Loading}...
स्व॒स्ति नो॑ मिमीताम् अ॒श्विना॒
भगः॑ स्व॒स्ति दे॒व्य् अदि॑तिर् अन॒र्वणः॑ ।
स्व॒स्ति पू॒षा असु॑रो दधातु नः
स्व॒स्ति द्यावा॑पृथि॒वी सु॑चे॒तुना॑ ॥
१२ स्वस्तये वायुमुप ...{Loading}...
स्व॒स्तये॑ वा॒युम् उप॑ ब्रवामहै॒
सोमं॑ स्व॒स्ति भुव॑नस्य॒ यस् पतिः॑ ।
बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये॑
स्व॒स्तय॑ आदि॒त्यासो॑ भवन्तु नः ॥
१३ विश्वे देवा ...{Loading}...
विश्वे॑ दे॒वा नो॑ अ॒द्या स्व॒स्तये॑
वैश्वान॒रो वसु॑र् अ॒ग्निः स्व॒स्तये॑ ।
दे॒वा अ॑वन्त्व् ऋ॒भवः॑ स्व॒स्तये॑
स्व॒स्ति नो॑ रु॒द्रः पा॒त्वंह॑सः ॥
१४ स्वस्ति मित्रावरुणा ...{Loading}...
स्व॒स्ति मि॑त्रावरुणा
स्व॒स्ति प॑थ्ये रेवति ।
स्व॒स्ति न॒ इन्द्र॑श् चा॒ग्निश् च॑
स्व॒स्ति नो॑ अदिते कृधि ॥
१५ स्वस्ति पन्थामनु ...{Loading}...
स्व॒स्ति पन्था॒म् अनु॑ चरेम
सूर्या-चन्द्र॒मसा॑व् इव ।
पुन॒र् दद॒ताघ्न॑ता
जान॒ता +++(बन्धु-मित्रैः)+++ सं ग॑मेमहि ॥
०४ श्रिये जातः ...{Loading}...
श्रिये᳓ जातः᳓, श्रिय᳓ आ᳓ नि᳓रियाय
श्रि᳓यं व᳓यो+++(=अन्नम्)+++ जरितृ᳓भ्यो दधाति ।
श्रि᳓यं व᳓साना अ-मृतत्व᳓म् आयन्
भ᳓वन्ति सत्या᳓ समिथा᳓+++(=युद्धानि)+++ मित᳓-द्रौ+++(←द्रु)+++ +++(सोमे)+++ ॥
श्रीर् अस्तु (त्रिः) ।
वर्ष-शतम् पूर्णम् अस्तु ।
मङ्गलानि भवन्तु ।
शिवं कर्मास्तु ।
विस्तारः (द्रष्टुं नोद्यम्)
Notes: This section is entirely Vedic illustrating the hybrid nature of the Hiraṇyakeśin ritual.
धारापातः
दक्षिण-हस्ते उत्तर-कलशं
दक्षिण-कलशं वाम-हस्ते गृहीत्वा
ताभ्यां धाराद्वयं सततम् पत्रे निषिञ्चेत् ।
०५५ वास्तोष्पते प्रतिजानीहि ...{Loading}...
०१ वास्तोष्पते प्रति ...{Loading}...
वा᳓स्तोष्पते प्र᳓ति जानीह्य् अस्मा᳓न्त्
स्व्-आवेशो᳓+++(=सुगमो)+++ अनमीवो᳓+++(=आरोग्यकरः)+++ भवा नः ।
य᳓त् त्वे᳓महे प्र᳓ति त᳓न् नो जुषस्व
शं᳓ न एधि द्विप᳓दे शं᳓ च᳓तुष्पदे ।
०३ वास्तोष्पते शग्मया ...{Loading}...
वा᳓स्तोष्पते शग्म᳓या+++(=सुखया)+++ सँस᳓दा ते
सक्षीम᳓हि+++(←सच समवाये)+++ रण्व᳓या+++(=रममाणया)+++ गातुम᳓त्या+++(=गामिन्या)+++) ।
आ᳓वः क्षे᳓म+++(य्=लब्धस्य रक्षणे)+++ उत᳓ यो᳓गे+++(=अलब्धस्य लाभे)+++ व᳓रं नो
+++(हे विश्वेदेवाः)+++ यूय᳓म् पात स्वस्ति᳓भिः स᳓दा नः ।
०२ वास्तोष्पते प्रतरणो ...{Loading}...
वा᳓स्तोष्पते प्रत᳓रणो न एधि
गो᳓भिर् अ᳓श्वेभिर् इन्दो+++(←इन्दिर् ऐश्वर्यकर्मा/ उदिर्वा क्लेदकर्मा)+++ ।
अज᳓रासस् ते सख्ये᳓ स्याम
पिते᳓व पुत्रा᳓न् प्र᳓ति नो जुषस्व ।
०५६ ०१ अमीवहा वास्तोष्पते ...{Loading}...
०१ अमीवहा वास्तोष्पते ...{Loading}...
अमीवहा᳓+++(=व्याधिहा)+++ वास्तोष्पते
वि᳓श्वा रूपा᳓ण्य् आ विश᳓न् ।
स᳓खा सुशे᳓व+++(फ)+++ एधि नः ।
नमो रुद्राय वास्तोष्पतये ॥
शिवं शिवं शिवम् ॥
विस्तारः (द्रष्टुं नोद्यम्)
Notes: the worship of Rudra Vāstoṣpati in this context is a distinctive aspect of this tradition.
अभिषेकः
पात्रे पातितेन जलेन
पल्लव-दूर्वाभिर्
उदङ् मुखास् तिष्ठन्त उपविष्टा वा
परिवारम् अभिषिञ्चेयुः ।
०१ समुद्रज्येष्ठाः सलिलस्य ...{Loading}...
समुद्र᳓-ज्येष्ठाः सलिल᳓स्य म᳓ध्यात्
पुनाना᳓ यन्त्य् अ᳓निविशमानाः ।
इ᳓न्द्रो या᳓ वज्री᳓ वृषभो᳓ ररा᳓द+++(=विलिलेख)+++
ता᳓ आ᳓पो देवी᳓र् इह᳓ मा᳓म् अवन्तु ॥
दे॒वस्य॑ त्वा - साम्रा॑ज्येना॒भिषि॑ञ्चामि ...{Loading}...
भास्करोक्त-विनियोगः
8-10अभिषेकमन्त्राः - देवस्येत्यादयः ॥
मूलम् (संयुक्तम्)
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र्बा॒हुभ्या॑म्पू॒ष्णो हस्ता॑भ्याँ॒ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥ [42]
देवस्य त्वा सवितुः ...{Loading}...
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॒॑+++(=अनुज्ञायां)+++,
+++(देवाध्वर्यू→)+++ ऽश्विनो॑र् बा॒हुभ्या॑म्,
पू॒ष्णो हस्ता॑भ्याम्…
Keith
On the instigation of god Savitr,
with the arms of the Aśvins,
with the hands of Pusan.
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे॑ऽश्विनो॑र् बा॒हुभ्या॑म्, पू॒ष्णो हस्ता॑भ्यां॒…
पद-पाठः
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र-स॒वे । अ॒श्विनोः॑ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । पू॒ष्णः । हस्ता॑भ्याम् ।
भट्टभास्कर-टीका
सवितुस् सर्वप्रेरकस्य देवस्य प्रसवे प्रेरणायां तेनैव प्रेरितोहं
‘थाथघञ्क्ताजबित्रकाणाम्’ (पा.सू. 6.2.144) इति सूत्रेण प्रसवशब्दोन्तोदात्तः । अश्विनोर्बाहुभ्यां नत्वात्मीयाभ्यामिति स्तुतिः । ‘अश्विनौ हि देवानामध्वर्यू आस्ताम्’ (तै.ब्रा. 3.2.4) । तथा पूष्ण एव हस्ताभ्यां पाणितलाभ्याम् । उदात्तनिवृत्तिस्वरेण षष्ठ्या उदात्तत्वम्॥
सावित्रो व्याख्यातः । सवितुर् देवस्यानुज्ञाने अश्विनोर् एव बाहुभ्यां पूष्ण एव हस्ताभ्याम् । न त्व् आत्मीयाभ्यामिति ॥
तत्र सावित्रो व्याख्यातः ।
सवितुर्देवस्य प्रसवे अनुज्ञायां लब्धायामेव
अश्विनोरेव बाहुम्यां नात्मीयाभ्यां
पूष्णो हस्ताभ्यां
विश्वास-प्रस्तुतिः
सर॑स्वत्यै वा॒चो
य॒न्तुर् य॒न्त्रेण
अग्नेस् त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ।
Keith
with the bond of Sarasvati, of speech, the binder, I anoint thee with the lordship of Agni,
मूलम्
सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेण अग्नेस्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ।
भट्टभास्कर-टीका
सरस्वत्यै सरस्वत्याः । षष्ठ्यर्थे चतुर्थी ॥ सरस्वत्या वाचस्सम्बन्धिना यन्तुर्यन्त्रेण यन्तुरप्यन्यस्य यन्त्रणेन यमनेन । सामान्येन वा विवक्ष्यते, यन्त्र्याः वाचस्सरस्वत्याः यन्त्रणेन अग्नेश्च साम्राज्येन त्वामभिषिञ्चामि । सङ्गतं राजतीति सम्राट्, ‘मो राजि समः क्वौ’, ‘गुणवचनब्राह्मणादिभ्यः’ इति ष्यञ् ।
विश्वास-प्रस्तुतिः
इन्द्र॑स्य॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
बृह॒स्पते॑स् त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
Keith
with the lordship of Indra, of Brhaspati, I anoint thee.
मूलम्
इन्द्र॑स्य॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
बृह॒स्पते॑स्त्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥
भट्टभास्कर-टीका
एवं ‘इन्द्रस्य त्वा साम्राज्येन’ ‘बृहस्पतेस्त्वा साम्राज्येन’, इत्येतौ गतौ ॥
इति सप्तमे दशमोनुवाकः ॥
देवस्य त्वा - तेजोवीर्य-श्रीभ्यः ...{Loading}...
सायणोक्त-विनियोगः
5कल्पः - ‘तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नश्विनोः संपातैरभिषिञ्चति देवस्य त्वा’ इति ।
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
अ॒श्विनो॒र्भैष॑ज्येन ।
तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ।
सायण-टीका
सवितुर्देवस्य प्रेरणे सति अश्विसंबन्धिभ्यां बाहुभ्यां पूषसंबन्धिम्यां हस्ताभ्यां अश्विनोस्सबन्धिना संपातेनौषधरूपेण कान्तिब्रह्मवर्चससिद्ध्यर्थं यजमानं त्वामभिषिञ्चामि ॥
सायणोक्त-विनियोगः
6कल्पः - ‘एवमुत्तरेण मन्त्रेण सारस्वतस्योत्तमेनैन्द्रस्य’ इति। संपातेनाभिषिञ्चतीत्युभयत्रानुवर्तते ।
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै॒ भैष॑ज्येन ॥21॥
वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ।
सायण-टीका
पूर्ववद्व्याख्येयम् ॥
विश्वास-प्रस्तुतिः
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।
मूलम्
दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे ।
अ॒श्विनो॑र्बा॒हुभ्या॑म् ।
पू॒ष्णो हस्ता॑भ्याम् ।
इन्द्र॑स्येन्द्रि॒येण॑ ।
श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ।
सायण-टीका
7पूर्ववद्व्याख्येयम् ॥
उद्वासनम्
ॐ वरुणाय नमः । वरुणम् उद्वासयामि । यथा स्थानम् प्रतिष्ठापयामि शोभनार्थाय क्षेमाय पुनर् आगमनाय च ॥
भूर् भुवः॒ सुवः॑ ।
११ शंयुवाकः ...{Loading}...
भास्करोक्त-विनियोगः
1शंयुवाकाय प्रेषितो ब्रवीति - तच्छंयोरित्यादि ॥
विश्वास-प्रस्तुतिः
+++(फलं)+++ तच् छं॒योर् +++(बार्हस्पत्याद्)+++ आवृ॑णीमहे -
+++(देवान् प्रति)+++ गा॒तुं +++(=गमनं [हविषाम्])+++ - य॒ज्ञाय॑,
गा॒तुं+++(=गमनम्)+++ य॒ज्ञप॑तये ।
मूलम्
तच्छय्ँ॒योरावृ॑णीमहे ।
गा॒तुय्ँ य॒ज्ञाय॑ ।
गा॒तुय्ँ य॒ज्ञप॑तये ।
भट्टभास्कर-टीका
तत् तादृशं प्रशस्तफलं शंयोः बार्हस्पत्य्-आदौ [देः] आवृणीमहे प्रार्थयामहे, किं पुनस्तत्? गातुं गमनं देवान्प्रति यज्ञाय यज्ञस्य, यज्ञपतये यजमानस्य च गातुं देवस्थानं प्रति गमनं वृणीमहे ।
विश्वास-प्रस्तुतिः
दैवी॑ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर् मानु॑षेभ्यः ।
मूलम्
दैवी॑ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः ।
भट्टभास्कर-टीका
अत्रैवं संपत्स्यमाना नः अस्माकं दैवी स्वस्तिः देवनिमित्तं विघ्नोपशमनमस्माकमस्तु । मानुषेभ्यश्च होतृभ्यः या स्वस्तिः सा चास्माकमस्तु ।
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वञ् जि॑गातु+++(=गच्छतु)+++ भेष॒जम् ।
शन् नो॑ अस्तु द्वि॒पदे॑ ।
शञ् चतु॑ष्पदे ॥25॥
मूलम्
ऊ॒र्ध्वञ्जि॑गातु भेष॒जम् ।
शन्नो॑ अस्तु द्वि॒पदे॑ ।
शञ्चतु॑ष्पदे ॥25॥
भट्टभास्कर-टीका
किंच - ऊर्ध्वं जिगातु उद्गच्छतु भेषजं सर्वानिष्टशमनमेतत्कर्म सर्वोच्छ्रितमस्तु । किंच अस्माकं सम्बन्धिने द्विपदे मनुष्यादये चतुष्पदे च गवादये शं सुखं अस्तु । द्विपदोऽन्तोदात्तत्वमुक्तम् ॥
इत्येकादशोऽनुवाकः ॥
Notes: This Vaidika section largely follows the pattern seen in other smārta traditions.
मातृका-पूजा
आवाहनम्
शुचौ रङ्गवल्ल्याद्य्-अलंकृते देशे
कृताग्न्य्-उत्तारण-प्राण-प्रतिष्ठासु प्रतिमासु
अभावे ऽक्षत-पुञ्जेषु वा
गौर्यादि-देवता आवाहयेत् ।
गौर्यै नमः । गौरीम् आवाहयामि ।
पद्मावत्यै नमः । पद्मावतीम् आवाहयामि ।
शच्यै नमः । शचीम् आवाहयामि ।
मेधायै नमः । मेधाम् आवाहयामि ।
सावित्र्यै नमः । सावित्रीम् आवाहयामि ।
विजयायै नमः । विजयाम् आवाहयामि ।
जयायै नमः । जयाम् आवाहयामि ।
देवसेनायै नमः । देवसेनाम् आवाहयामि ।
स्वधायै नमः । स्वधाम् आवाहयामि ।
स्वाहायै नमः । स्वाहाम् आवाहयामि ।
मातृभ्यो नमः । मातॄर् आवाहयामि ।
लोकमातृभ्यो नमः । लोकमातॄर् आवाहयामि ।
धृत्यै नमः । धृतिम् आवाहयामि ।
पुष्ट्यै नमः । पुष्टिम् आवाहयामि ।
तुष्ट्यै नमः । तुष्टिम् आवाहयामि ।
कुलदेवतायै । कुलदेवताम् आवाहयामि ।
ब्राह्म्यै नमः । ब्राह्मीम् आवाहयामि ।
माहेश्वर्यै नमः । माहेश्वरीम् आवाहयामि ।
कौमार्यै नमः । कौमारीम् आवाहयामि ।
वैष्णव्यै नमः । वैष्णवीम् आवाहयामि ।
वाराह्यै नमः । वाराहीम् आवाहयामि ।
इन्द्राण्यै नमः । इन्द्राणीम् आवाहयामि ।
चामुण्डायै नमः । चामुण्डाम् आवाहयामि ।
गणाधिपाय नमः । गणाधिपम् आवाहयामि ।
दुर्गायै नमः । दुर्गाम् आवाहयामि ।
क्षेत्रपालाय नमः । क्षेत्रपालम् आवाहयामि ।
वास्तोष्पतये नमः । वास्तोष्पतिम् आवाहयामि ॥
इत्य् आवाहयेत् ।
ततो “गौर्याद्य्-आवाहित-देवताभ्यो नमो नम” इति षोडशोपचारैः प्रपूजयेत् ॥
विस्तारः (द्रष्टुं नोद्यम्)
Notes: The Mātṛ-s invoked here belong to two groups. The first are set of goddesses similar to a list seen in the Śuklayajurvedīya gṛhya-pariśiṣṭa tradition. They include consorts of Rudra, Viṣṇu, Indra, Prajāpati, Kumāra, Agni and Puṣan among others. The second set is comprised of the classical Saptamātṛ-s accompanied by Gaṇeśa, Kṣetrapāla and Rudra Vāstoṣpati. That pattern is mimicked in iconography where the Saptamātṛ-s are typically accompanied by Gaṇeśa and Rudra/Vīrabhadra.
लघु-देव-पूजा
“ब्रह्मादि-देवताः प्रियन्ताम्”
इति पात्रात् जलं क्षिप्त्वा
शुचौ देशे चतुरश्रं मण्डलं विधाय
रङ्गवल्ल्य्-आदिभिर् अलंकृत्य
श्वेताक्षतान् संप्रकीर्य+
अद्भिर् अभ्युक्ष्य
प्राण-प्रतिष्ठासु प्रतिमासु
अभावे ऽक्षत-पुञ्जेषु वा
ब्रह्मादि-देवता आवाहयेत् ।
प्रजापतिः
ॐ भूर् ब्रह्माणम् आवाहयामि ।
ॐ भुवश् चतुर्मुखं ब्रह्माणम् आवाहयामि ।
ॐ सुवः प्रजापतिं ब्रह्माणम् आवाहयामि ।
ॐ भूर् भुवः सुवर् हिरण्यगर्भं ब्रह्माणम् आवाहयामि ।
इति मध्यमे स्थाने ब्रह्माणम् आवाहयामि ॥
०१ हिरण्यगर्भः समवर्तताग्रे ...{Loading}...
हिरण्यगर्भः᳓ स᳓म् अवर्तता᳓ग्रे
भूत᳓स्य जातः᳓ प᳓तिर् ए᳓क आसीत्
स᳓ दाधार पृथिवीं᳓ द्या᳓म् उते᳓मां᳓
क᳓स्मै देवा᳓य हवि᳓षा विधेम
प्रजापते आगच्छ ।
१० प्रजापते न ...{Loading}...
प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव ।
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥
प्रजापतिं तर्पयामि ॥
इन्द्रः
ॐ भूर् वज्रिणम् आवाहयामि ।
ॐ भुवः शचीपतिम् आवाहयामि ।
ॐ सुवर् इन्द्रम् आवाहयामि ।
ॐ भूर् भुवः सुवः शतक्रतुम् आवाहयामि ।
इति पूर्वस्यां दिशि वज्रिणम् आवाहयामि ॥
विश्वास-प्रस्तुतिः ...{Loading}...
यत॑ इन्द्र॒ भया॑महे॒
ततो॑ नो॒ अभ॑यं कृधि ।
मघ॑वञ् छ॒ग्धि +++(=शक्तो वर्तस्व)+++ तव॒ तन् न॑+++(ः)+++ ऊ॒तये॑+++(=रक्षायै, ऊ॒तिभि॑र् इति शाकले)+++
वि द्विषो॒ वि मृधो॑+++(=सङ्ग्रामान्)+++ जहि ।।
इन्द्र आगच्छ ।
०२ स्वस्तिदा विशस्पतिर्वृत्रहा ...{Loading}...
स्वस्तिदा᳓ विश᳓स्-प᳓तिर्
वृत्रहा᳓ विमृधो᳓ वशी᳓ ।
वृ᳓षे᳓न्द्रः पुर᳓ एतु नः
सोम-पा᳓ अभयङ्-करः᳓ ॥
इन्द्रं तर्पयामि ॥
यमः
ॐ भूर् यमम् आवाहयामि ।
ॐ भुवो वैवस्वतम् आवाहयामि ।
ॐ सुवः पितृपतिम् आवाहयामि ।
ॐ भूर् भुवः सुवः प्रेतपतिम् आवाहयामि ।
इति दक्षिणस्यां दिशि यमम् आवाहयामि ॥
१६ त्रिकद्रुकेभिः पतति ...{Loading}...
त्रि᳓-कद्रुकेभिः +++(यागैः)+++ पतति
ष᳓ळ् उर्वी᳓र् ए᳓कम् इ᳓द् बृह᳓त् ।
त्रिष्टु᳓ब् गायत्री᳓ छ᳓न्दांसि
स᳓र्वा ता᳓ यम᳓ आ᳓हिता ॥
यम आगच्छ ।
०४ यदुलूको वदति ...{Loading}...
य᳓द् उ᳓लूको व᳓दति - मोघ᳓म् एत᳓द् +++(भवतु)+++
य᳓त् कपो᳓तः पद᳓म् अग्नौ᳓ कृणो᳓ति +++(मोघम् एतद्)+++ ।
य᳓स्य दूतः᳓ प्र᳓हित एष᳓ एत᳓त्
त᳓स्मै यमा᳓य न᳓मो अस्तु मृत्य᳓वे ॥
यमं तर्पयामि ॥
ॐ भूर् वरुणम् आवाहयामि ।
ॐ भुवः प्रचेतसम् आवाहयामि ।
ॐ सुवः सुरूपिणम् आवाहयामि ।
ॐ भूर् भुवः सुवर् अपाम्पतिम् आवाहयामि ।
इति पश्चिमायाम् दिशि वरुणम् आवाहयामि ॥
१९ इमं मे ...{Loading}...
इमं᳓ मे वरुण श्रुधी +++(=श्रुणु)+++
ह᳓वम्+++(=आह्वानम्)+++ अद्या᳓ च मृळय +++(=सुखय)+++।
त्वा᳓म् अवस्यु᳓र् आ᳓ चके +++(=अवदन्)+++॥
वरुण आगच्छ ।
११ तत्त्वा यामि ...{Loading}...
त᳓त् त्वा यामि ब्र᳓ह्मणा व᳓न्दमानस्
त᳓द् आ᳓ शास्ते य᳓जमानो हवि᳓र्भिः ।
अ᳓हेळमानो +++(=अक्रुध्यन्)+++ वरुणेह᳓ बोध्य् उ᳓रुशंस
मा᳓ न आ᳓युः प्र᳓ मोषीः ॥
वरुणं तर्पयामि ॥
सोमः
ॐ भूः सोमम् आवाहयामि आवाहयामि ।
ॐ भुव इन्दुम् आवाहयामि ।
ॐ सुवर् निशाकरम् आवाहयामि ।
ॐ भूर् भुवः सुवः शशिनम् आवाहयामि ।
इत्य् उत्तरस्यं दिशि सोमम् आवाहयामि ॥
२० सोमो धेनुं ...{Loading}...
सो᳓मो धेनुं᳓, सो᳓मो अ᳓र्वन्तम् आशुं᳓
सो᳓मो वीरं᳓ कर्मण्यं᳙ ददाति ।
सादन्यं᳙+++(←सदन)+++ विदथ्यं᳙ सभे᳓यं
पितृ-श्र᳓वणं यो᳓ द᳓दाशद्+++(=दद्यात्)+++ अस्मै +++(यजमानाय)+++ ॥
सोम आगच्छ ।
२० अषाढं युत्सु ...{Loading}...
अषा॑ढं यु॒त्सु, पृत॑नासु॒ पप्रिँ॑,
स्व॒र्षाम् अ॒प्सां वृ॒जन॑स्य गो॒पाम्।
भ॒रे॒षु॒जाँ सु॑क्षि॒तिँ सु॒श्रव॑सं॒
जय॑न्तं॒ त्वाम् अनु॑ मदेम सोम ॥२० ॥
सोमं तर्पयामि ॥
विस्तारः (द्रष्टुं नोद्यम्)
Notes: The initial invocation of Prajāpati, Indra, Yama, Varuṇa and Soma in a maṇdala reminds one of the early maṇḍala worship seen in the Atharvavedīya pariśiṣṭa-s. It is notable that, as in certain early texts, Soma takes the northern position, unlike Kubera in the later texts. This and the Mātṛ-pujā provide glimpses of the early iconic worship of the Hindus.
०१ आपो हि ...{Loading}...
आ᳓पो हि᳓ ष्ठा᳓ मयो-भु᳓वस्
ता᳓ न ऊर्जे᳓+++(जाः)+++ दधातन ।
महे᳓ र᳓णाय+++(=रमणीयाय)+++ च᳓क्षसे+++(=दर्शनाय)+++ ॥
०२ यो वः ...{Loading}...
यो᳓ वः शिव᳓तमो र᳓सस्
त᳓स्य भाजयतेह᳓ नः ।
उशती᳓र्+++(=कामयमाना)+++ इव मात᳓रः ॥
०३ तस्मा अरं ...{Loading}...
+++(रसाय)+++ त᳓स्मा अ᳓रं+++(=शीघ्रम्)+++ गमाम वो
यस्य +++(प्रभावेण)+++ क्ष᳓याय+++(=निवासाय)+++ जि᳓न्वथ+++(=प्रीणयथ)+++ ।
आ᳓पो +++(प्रजा)+++ जन᳓यथा च नः ॥
+++(चादिषु च इति न स्वर-निघातः। )+++
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यवर्णा॒श् शुच॑यᳶ पाव॒का,
यासु॑ जा॒तᳵ क॒श्यपो॒, यास्व् इन्द्रः॑ ।
अ॒ग्निय्ँ या गर्भ॑न् दधि॒रे, विरू॑पा॒स् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
विश्वास-प्रस्तुतिः ...{Loading}...
यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑,
सत्यानृ॒ते अ॑व॒पश्य॒ञ् जना॑नाम् ।
म॒धु॒श्-चुत॒श् शुच॑यो॒ याᳶ पा॑व॒कास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
विश्वास-प्रस्तुतिः ...{Loading}...
यासा॑न् दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षय्ँ -
या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति ।
याᳶ पृ॑थि॒वीम् पय॑सो॒न्दन्ति॑ शु॒क्रास् -
ता न॒ आप॒श् शँ स्यो॒ना भ॑वन्तु ।
विश्वास-प्रस्तुतिः ...{Loading}...
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापश् -
शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑म् मे ।
सर्वाँ॑ अ॒ग्नीँर् अ॑प्सु॒-षदो॑ हुवे वो॒,
मयि॒ वर्चो॒ बल॒म् ओजो॒ नि ध॑त्त ।
01 पवमानस् सुवर्जनः ...{Loading}...
पव॑मान॒स् सुव॒र्-जनः॑ ।
प॒वित्रे॑ण॒ +++(नाना-विषयेषु)+++ विच॑र्षणिः ।
यᳶ पोता॒ स पु॑नातु मा ।
02 पुनन्तु मा ...{Loading}...
पु॒नन्तु॑ मा देवज॒नाः ।
पु॒नन्तु॒ मन॑वो धि॒या ।
पु॒नन्तु॒ विश्व॑ आ॒यवः॑+++(=मनुष्याः)+++ ।
03 जातवेदᳶ पवित्रवत् ...{Loading}...
जात॑वेदᳶ प॒वित्र॑वत् ।
प॒वित्रे॑ण पुनाहि+++(=पुनीहि)+++ मा ।
शु॒क्रेण॑ देव॒ दीद्य॑त् ।
अग्ने॒ क्रत्वा॒+++(=प्रज्ञया)+++ क्रतूँ॒र् अनु॑ ॥46॥
04 यत् ते ...{Loading}...
यत् ते॑ प॒वित्र॑म् अ॒र्चिषि॑ ।
अग्ने॒ वित॑तम् अन्त॒रा ।
ब्रह्म॒ तेन॑ पुनीमहे ।
05 उभाभ्यान् देव ...{Loading}...
उ॒भाभ्या॑न् देव सवितः ।
प॒वित्रे॑ण स॒वेन॑ च ।
इ॒दम् ब्रह्म॑ पुनीमहे ।+++(5)+++
06 वैश्वदेवी पुनती ...{Loading}...
वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्य् आगा॑त्+++(=आगच्छतु)+++ ।
यस्यै॑ ब॒ह्वीस् त॒नुवो॑ वी॒त-पृ॑ष्ठाः+++(=कान्त-स्तुतयः)+++ ।
तया॒ मद॑न्तस् सध॒-माद्ये॑षु +++(=सह माद्यन्ति येषु सवनेषु)+++ ।
व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥47॥
07 वैश्वानरो रश्मिभिर् ...{Loading}...
वै॒श्वा॒न॒रो र॒श्मिभि॑र् मा पुनातु ।
वात॑ᳶ प्रा॒णेने॑षि॒रो+++(←इष गतौ)+++ म॑यो॒भूः ।
द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः +++(इति क्रमशः)+++ ।
ऋ॒ताव॑री+++(=ऋतवत्यौ)+++ य॒ज्ञिये॑ मा पुनीताम् ।
08 बृहद्भिस् सवितस् ...{Loading}...
बृ॒हद्भि॑स् सवित॒स् तृभिः॑+++(=त्रिभिः [लोकगणनया]/ तृप्यतेः करणे क्विप्)+++ ।
वर्षि॑ष्ठैर्+++(=प्रवृद्ध-धर्मैः)+++ देव॒ मन्म॑भिः+++(=मननीयैः)+++ ।
अग्ने॒ दक्षै॑ᳶ पुनाहि मा ।
09 येन देवा ...{Loading}...
येन॑ दे॒वा अपु॑नत ।
येनापो॑ दि॒व्यङ् कशः॑+++(←कशेर् गतिकर्मणो ऽसुन्)+++ ।
तेन॑ दि॒व्येन॒ ब्रह्म॑णा ॥48॥
इ॒दम् ब्रह्म॑ पुनीमहे ।
10 यᳶ पावमानीर् ...{Loading}...
यᳶ पा॑वमा॒नीर् अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
सर्वँ॒ स पू॒तम् अ॑श्ञाति ।
स्व॒दि॒तम्+++(=स्वादुकृतं)+++ मा॑त॒रिश्व॑ना+++(=वायुना)+++ ।
11 पावमानीर् यो ...{Loading}...
पा॒व॒मा॒नीर् यो अ॒ध्येति॑ ।
ऋषि॑भि॒स् सम्भृ॑तँ॒ रस॑म् ।
तस्मै॒ सर॑स्वती दुहे ।
क्षी॒रँ स॒र्पिर् मधू॑द॒कम् ।
12 पावमानीस् स्वस्त्ययनीः ...{Loading}...
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ॥49॥
सु॒-दुघा॒ हि पय॑स्वतीः ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ।
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
13 पावमानीर् दिशन्तु ...{Loading}...
पा॒व॒मा॒नीर् दि॑शन्तु नः ।
इ॒मल्ँ लो॒कम् अथो॑ अ॒मुम् ।
कामा॒न्त् सम॑र्धयन्तु नः ।
दे॒वीर् दे॒वैस् स॒माभृ॑ताः ।
14 पावमानीस् स्वस्त्ययनीः ...{Loading}...
पा॒व॒मा॒नीस् स्व॒स्त्य्-अय॑नीः ।
सु॒-दुघा॒ हि घृ॑त॒श्-चुतः॑+++(=क्षारयित्र्यः)+++ ।
ऋषि॑भि॒स् सम्भृ॑तो॒ रसः॑ ॥50॥
ब्रा॒ह्म॒णेष्व् अ॒मृतँ॑ हि॒तम् ।
15 येन देवाᳶ ...{Loading}...
येन॑ दे॒वाᳶ प॒वित्रे॑ण ।
आ॒त्मान॑म् पु॒नते॒ सदा॑ ।
तेन॑ स॒हस्र॑-धारेण ।
पा॒व॒मा॒न्यᳶ पु॑नन्तु मा ।
16 प्राजापत्यम् पवित्रम् ...{Loading}...
प्रा॒जा॒प॒त्यम् प॒वित्र॑म् ।
श॒तोद्या॑मँ हिर॒ण्मय॑म् ।
तेन॑ ब्रह्म॒-विदो॑ व॒यम् ।
पू॒तम् +++(यथा तथा स्वीयम्)+++ ब्रह्म॑ पुनीमहे ।
17 इन्द्रस् सुनीती ...{Loading}...
इन्द्र॑स् सुनी॒ती+++(त्या)+++ स॒ह मा॑ पुनातु ।
सोम॑स् स्व॒स्त्या वरु॑णस् स॒मीच्या॑+++(=सम्यगञ्चनया)+++ ।
य॒मो राजा॑ प्रमृ॒णाभि॑ᳶ+++(=प्रमारिकाभिः)+++ पुनातु मा ।
जा॒तवे॑दा मा+ऊ॒र्जय॑न्त्या पुनातु ॥51॥
ब्रह्मादीन् संस्नापयेत् ।
पुष्पाञ्जलि-समर्पणम् ॥
दिशाम् पतीन् नमस्यामि
सर्वकाम-फल-प्रदान् ।
कुर्वन्तु सफलं कर्म
कुवन्तु सततं शुभम् ॥
तर्पणानि
ईश्वरं तर्पयामि ।
उमां तर्पयामि ।
स्कन्दं तर्पयामि ।
विष्णुं तर्पयामि ।
ब्रह्माणँ स्वयभुवं तर्पयामि ।
इन्द्रं तर्पयामि ।
यमं तर्पयामि ।
कालं तर्पयामि ।
चित्रगुप्तं तर्पयामि ।
अपस् तर्पयामि ।
भूमिं तर्पयामि ।
विष्णुं तर्पयामि ।
इन्द्रं तर्पयामि ।
इन्द्राणीं तर्पयामि ।
प्रजापतिं तर्पयामि ।
सर्पान् तर्पयामि ।
ब्रह्माणं तर्पयामि ।
गणपतिं तर्पयामि ।
दुर्गां तर्पयामि ।
वायुं तर्पयामि ।
आकाशं तर्पयामि ।
अश्विनौ तर्पयामि ।
वास्तोष्पतिं तर्पयामि ।
क्षेत्रपालं तर्पयामि ।
इन्द्रं तर्पयामि ।
अग्निं तर्पयामि ।
यमं तर्पयामि ।
निरृत्तिं तर्पयामि ।
वरुणं तर्पयामि ।
वायुं तर्पयामि ।
सोमं तर्पयामि ।
ईशानं तर्पयामि ।
वसून् तर्पयामि ।
रुद्रान् तर्पयामि ।
आदित्यान् तर्पयामि ।
अश्विनौ तर्पयामि ।
विश्वान् देवान् तर्पयामि ।
यक्षान् तर्पयामि ।
सर्पान् तर्पयामि ।
गन्धर्वाप्सरसस् तर्पयामि ।
स्कन्दं तर्पयामि ।
नन्दीश्वरं तर्पयामि ।
महाकालं तर्पयामि ।
दक्षं तर्पयामि ।
दुर्गां तर्पयामि ।
विष्णुं तर्पयामि ।
मृत्यु-रोगान् तर्पयामि ।
गणपतिं तर्पयामि ।
अपस् तर्पयामि ।
मरुतस् तर्पयामि ।
पृथिवीं तर्पयामि ।
नदीन् तर्पयामि ।
सागरान् तर्पयामि ।
मेरुं तर्पयामि ।
विस्तारः (द्रष्टुं नोद्यम्)
The longer tarpaṇa list at the end of this section includes deities from both the old Vedic and Paurāṇika pantheons. Some notable features include the worship of Nandin and Mahākāla, which probably marks one of the early instances of the worship of these deities unique to the Śaiva pantheon in a smārta context.
ऐन्द्रीं तर्पयामि ।
कौमारीं तर्पयामि ।
ब्राह्मीं तर्पयामि ।
वाराहीं तर्पयामि ।
चामुण्डां तर्पयामि ।
वैष्णवीं तर्पयामि ।
महेश्वरीं तर्पयामि ।
वैनायकीं तर्पयामि ॥
विस्तारः (द्रष्टुं नोद्यम्)
The Mātṛ-s in this list differ from the above ritual in being an Aṣṭamātṛkā group via the inclusion of Vaināyakī. The inclusion of Vaināyakī in the Aṣṭamātṛkā is uncommon but is iconographically attested in some Mātṛ depictions, such as in Bhūleśvara, Mahārāṣṭra. One again wonders if the presence of this tradition in the region influenced the local iconographic depictions of this goddess.
उद्वासनम्
पूर्वोक्तैर् ॐ भूर् ब्रह्माणम् इत्य् आद्यैर् मन्त्रैर् उद्वासयामि+इत्य् ऊहितैर् यथाक्रमं देवता उद्वासयेत् ॥