यत्रैनमामन्त्रयते ब्रह्म स्तोष्यामः प्रशास्तः इति तत् प्रसौति हिं देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्नः सत्या व आशिषः सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे । रश्मिरसि क्षयाय त्वा क्षयं जिन्वो ँस्तुत इति १
एवमेव स्तोत्रेस्तोत्रे प्रसौति २
एवँ स्तोमभागानामुत्तरमुत्तरं दधाति ३ द्वादशाग्निष्टोमे । त्रयोदशात्यग्निष्टोमे । पञ्चदशोक्थ्ये । षोडशे षोडशिनि । सप्तदश वाजपेये । एकान्नत्रि ँशतमतिरात्रे । त्रयस्त्रि ँशतमप्तोर्याम इति विज्ञायते ४
स्तुते बहिष्पवमानेऽपरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशति । सोऽत्रैवास्त आ सवनीयस्य वपाया होमात् ५
हुतायां वपायां यत्र मार्जयन्ते तन्मार्जयते ६
यत्र प्रातःसवनाय सम्प्रसर्पन्ति तद्दक्षिणेन हविर्धाने दक्षिणेन मार्जालीयं दक्षिणेन सदः परीत्यापरया द्वारा सदः प्रविश्यापरेण प्रशास्त्रीयमतिक्रम्य दक्षिणत उपविशेदित्याश्मरथ्यः । अपरेणोत्तरवेदिमतिक्रम्योत्तरेण हविर्धाने दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः प्रविश्याग्रेण प्रशास्त्रीयमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ७

एतेनोत्तरयोः सवनयोः १

इति पञ्चदशः प्रश्नः