यत्र वसतीवरीर्गृहीष्यन्तो भवन्ति तद्दक्षिणत एति १
गृह्यमाणानां दक्षिणत
आस्ते २
यत्र प्रातरनुवाकाय बुध्यन्ते तद् बुध्यते ३
तस्य स एव सञ्चरो
यः सदोहविर्धानानि सम्मास्यत्सु ४
प्रातरनुवाक उपाकृते वाचं यच्छत्या
परिधानीयायाः ५
यत्र सवनीया अपो गृहीष्यन्तो भवन्ति तद्दक्षिणत एति ६
गृह्यमाणानां दक्षिणत आस्ते ७
आह्रियमाणानां दक्षिणत एति ८
यत्र
राजा-नमभिषोष्यन्तो भवन्ति तत् पूर्वया द्वारा
हविर्धानं प्रविश्याग्रेण खरमतिक्रम्य दक्षिणत उपविशति ९
राज्ञो मीयमानस्याभिषूयमाणस्येति दक्षिणत आस्ते १०
ग्रहेषु गृह्यमाणेषु
वाचं यच्छत्याग्रयणात् ११
एवमेव सवनेसवने राज्ञोऽभिषूयमाणस्य दक्षिणत आस्ते
ग्रहेषु गृह्यमाणेषु वाचं यच्छति १२
यत्र बहिष्पवमानँ सर्पन्ति तत्
समन्वारब्धः सर्पति १३
स्तोष्यमाणानां दक्षिणत उपविशति १४
३