उपस्थे ब्रह्मा राजानं कुरुते १
हुते वैसर्जनेऽन्वङ्ङग्नेः प्रतिपद्यते २
आग्नीध्रीयं प्राप्य प्रतिप्रस्थात्रे राजानं प्रदाय यथेतं प्रतिपरीत्य
पूर्वया द्वारोपनिष्क्रम्य दक्षिणेन सदो दक्षिणेन मार्जालीयं परीत्य
दक्षिणेनाग्नीध्रीयमुपविशेदि-त्याश्मरथ्यः ।
एतमेवाग्निमुत्तरतः परीत्य दक्षिणत
उपविशेदित्यालेखनः ३
उपस्थे ब्रह्मा राजानं कुरुते ४
हुते
वैसर्जने पूर्वः प्रतिपद्यते ५
हविर्धाने प्राप्य प्रतिप्रस्थात्रे
राजानं प्रदाय दक्षिणेन हविर्धाने परीत्य
दक्षिणेनोत्तर-वेदिमुपविशेदित्याश्मरथ्यः
। उत्तरेण हविर्धानेऽपरेणोत्तरवेदिमतिक्रम्य द-क्षिणत उपविशेदित्यालेखनः ६
सोऽत्रैवास्त आग्नीषोमीयस्य वपाया होमात् ७
हुतायां वपायां यत्र
मार्जयन्ते तन्मार्जयते ८
२