सोमे वासिष्ठो ब्रह्मा भवति १
अप्यवासिष्ठं कुर्वीत यः कश्च सोत्मभागान् विद्यादिति विज्ञायते २
राज्ञो मीयमानस्य क्रीयमाणस्येति दक्षिणत आस्ते ३
ओह्यमानस्य दक्षिणत एति ४
महावेद्या उत्तरवेद्या इति क्रियमाणाया दक्षिणत आस्ते ५
यत्र सदोहविर्धानानि सम्मास्यन्तो भवन्ति तदन्तरेण चात्वालोत्करावन्ववेत्योत्तरं वेद्यन्तमनुपरीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्या-परेणाहवनीयमतिक्रम्य पूर्वया द्वारोपनिष्क्रम्य दक्षिणं वेद्यन्तमनुपरीत्य दक्षिणेनोत्तरवेदिमुपविशेदित्याश्मरथ्यः । अन्तरेण चात्वालोत्करावन्व-वेत्यापरेणोत्तरवेदिमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ६
सोऽत्रैवास्त आ वैसर्जनानाँ होमात् ७ यत्र वैसर्जनानि होष्यन्तो भवन्ति दक्षिणेन हविर्धाने दक्षिणेन मार्जालीयं दक्षिणेन सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्याग्रेण शालामुखीयमतिक्रम्य दक्षिणत उपविशेदित्याश्मरथ्यः । अप्रेणोत्तरवेदिमतिक्रम्योत्तरेण हविर्धाने उत्तरेणाग्नीध्रीयमुत्तरेण सदः परीत्य पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेण शालामुखीयमतिक्रम्य दक्षिणत उपविशेदित्यालेखनः ८