२६

आग्नेयं पञ्चकपालमुदवसानीयं निर्वपत्यष्टाकपालं वा १
पङ्क्त्यौ याज्या-नुवाक्ये भवतो यस्यष्टाकपालः । गायत्र्यौ यदि पञ्चकपालः २
अनड्वान् दक्षिणा ३
सिद्धमिष्टिः सन्तिष्ठते यदि न त्वरेत ४
अथ यदि त्वरेत जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा उरु विष्णो वि क्रमस्व इत्याहवनीये जुहुयात् ५
यत्तत्र शक्नुयात् तद्दद्यात् ६
स यावद्रा त्रे चेष्टिः सन्तिष्ठते तावद्रा त्र एव सायमग्निहोत्रं जुहुयात् । काल एव प्रातरग्निहोत्रम् ७
उदयनीयाप्रभृति यज्ञपुछम् ८
सद्यः सुत्या सन्तिष्ठते ९
अथ यदि सुत्या यदाग्निहोत्र-कालमभ्यतीयात् सायमग्निहोत्रप्रभृतीन्यग्निहोत्राण्यतिपन्नानि प्रतिजुहुयात् । न वा प्रतिजुहुयात् १०
यो राजा सन् राज्यो वा सोमेन यजते स देवसुवाँ हवी ँष्यनुनिर्वपति ११
तेषाँ राजसूय एव कल्पो व्याख्यातोऽन्यत्र हस्तिग्रहणादावेदनान्मुखविमार्जनादिति १२
वसन्तेवसन्ते ज्योतिष्टोमेन यजेत । तस्य तिस्रो दक्षिणा इति विज्ञायते १३
सन्तिष्ठते ज्योतिष्टोमः सन्तिष्ठते ज्योतिष्टोमः १४
२६

इति चतुर्दशः प्रश्नः