अपि वा मैत्रावरुणीमामिक्षां पशुकामः कुर्वीतानूबन्ध्याया विकल्पार्थाम् १
पुरस्तात्त्वेव केशश्मश्रु वापयते २
अग्रेण हविर्धानमासीनो होता यजति ३
देविकाहविर्भिः प्रचर्यामिक्षायै देवतेन प्रचरति ४
हविराहुतिप्रभृतीडान्ता सन्तिष्ठते
५
तन्त्रमामिक्षायै देविकाहविषां च स्विष्टकृदिडम् ६
सदोहविर्धाने
प्रथमकृतान् ग्रन्थीन् विस्रस्य हविर्धाने उदीची
अभिप्रवर्तयन्ति ७
आहवनीयाद्बर्हिरुपोषति
यत्कुसीदमप्रतीत्तं मयि इति ८
यदि
मिश्रमिव चरेदञ्जलिना सक्तून् प्रदाव्ये जुहुयात् विश्वलोप
विश्वदावस्य त्वासञ्जुहोमि इति ९
ततो देवता उपतिष्ठते अयं नो नभसा
पुरः इत्याहवनीयं प्रदाव्यं वा । स त्वं नो नभसस्पते इति वायुम् । देव सँ
स्फान इत्यादित्यम् १०
यूपमुपस्थाय पृथगरणीष्वग्नीन् समारोपयति प्राजहितं
दक्षिणाग्निम् । शालामुखीयं तृतीयं गतश्रीः समारोपयते ११
अन्तरेण
चात्वालोत्करावतीमोक्षान् जपन्त उदव-स्यन्ति यथा
दर्शपूर्णमासयोः १२
प्राञ्च उदवस्यन्त्युदञ्चो
वा । प्राञ्चोदञ्च इत्येकेषाम् १३
२५