उदयनीयायास्तन्त्रं प्रक्रमयति १
यः प्रायणीयः स उदयनीयः २
एतावन्नाना ।
प्रायणीयस्य निष्कास उदयनीयमोप्य श्रपयति । नात्रोद्धृत्य
चरुमासादयति न षड्ढोत्रा ३
शालामुखीय उदयनीयेन
चरन्ति ४
याः प्रायणीयस्य पुरोनुवा-क्यास्ता उदयनीयस्य याज्याः
करोति ५
पथ्याँ स्वस्तिमुत्तमामाज्यभागानां यजति ६
न यजमानः प्राश्नाति ७
सिद्धमिष्टिः सन्तिष्ठते ८
अनूबन्ध्या-यास्तन्त्रं प्रक्रमयति ९
समानमा
पशूपाकरणात् १०
मैत्रावरुणीं वशाम-नूबन्ध्यामुपाकरोति ११
तिस्र एके
समामनन्ति । द्विरूपां मैत्रावरुणीं बहुरूपां वैश्वदेवीं
रोहिणीं बार्हस्पत्याम् । उपाँ शु वैश्वदेव्या मध्यतः
प्रचरतीत्येकेषाम् १२
समानमा वपाया होमात् १३
हुतायां
वपायां दक्षिणस्यां वेदिश्रोण्यां परिश्रिते यजमानः केशश्मश्रु
वापयते १४
अनूबन्ध्यायाः पशुपुरोडाशं देविकाहवी ँ!
ष्यनुनिर्वपति धात्रे पुरोडाशं द्वादशकपालमित्येतानि
१५
उत्तमं धातारं करोति १६
यासु स्थालीषु सोमा भवन्ति तास्वेताँ श्चरूँ
श्रपयन्ति १७
प्रैषवान् पशुपुरोडाशः । अनुब्रूहि ॥ यज इतीतरेभ्यः
सम्प्रेष्यति १८
सर्वेषाँ सपशुपुरोडाशानाँ समानः स्विष्टकृत् प्रैषवान्
। समानेडा १९
सिद्धः पशुः सन्तिष्ठते २०
२४