२३

अवभृथमुपतिष्ठन्ते देवीराप एष वो गर्भः इति १
विचृतो वरुणस्य पाशः इति यजमानो मेखलां विचृतति । इमं वि ष्यामि वरुणस्य पाशम् इति योक्त्रपाशं पत्नी २
अत्रैव सर्वाणि दीक्षितव्यञ्जनान्युपप्लावयतः ३
अहतौ वसाना-ववभृथादुदेतः ४
सोमोपनहतं यजमानः परिधत्ते । सोमपरिश्रयणं पत्नी ५
ते उदवसानीयायामध्वर्यवे दत्तः ६
तत उन्नेतारं सम्प्रेष्यति उन्नेतर्वसीयो न उन्नयामि ।

उदुत्ते मधुमत्तमा गिरः स्तोमास ईरते ।

सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ।

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ॥

इति ७
उन्नेता होतृप्रथमान् यजमानप्रथमान् वोन्नयति

उदेत प्रजामुत वर्चो दधाना युष्मान् राय उत यज्ञा असृक्षत ।

गायत्रं छन्दोऽनुसँ रभध्वमथास्या अथ सुरभयो गृहेषु ॥

इति ८
उद्गाहमाना उदकान्तं प्रत्यस्यन्ति प्रतियुतो वरुणस्य पाशः इति ९ समिधः कृत्वाप्रतीक्षमायन्त्युन्नेतारं पुरस्कृत्य महीयां जपन्तः अपाम सोमममृता अभूम इत्येतां

यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि ।

इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् ॥

अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ।

ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणा आक्षीयेम ॥

इति १०
एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ११
एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते १२
२३